षष्ठः खण्डः

स होवाच भगवान् ब्रह्मा नारायणयन्त्रमन्त्रावरणपूजामाचचक्षे । त्रिकोणं प्रथमं भवति । द्वितीयं षट्कोणं भवति । वृत्तमष्टदलं तृतीयम् । चतुर्थं द्वादशदलम् । पञ्चमं षोडशदलम् । चतुर्विंशतिः षष्ठम् । द्वात्रिंशतिः सप्तमम् । अष्टमं भूपुरम् । एवं यन्त्रं समालिखेत् । मध्ये लक्ष्मीनारायणं विक्षेपशक्त्यावरणं शक्तिप्रभाशक्तित्रिकोणदेवताः पट्कोणं वृद्धोल्कादयः पूज्याः । सर्वज्ञानित्वतृप्त्यनादिबोधस्वतन्त्रनित्यमलुप्तानन्तं षट्कोणशक्तयः । सनकसनन्दनसनत्सुजातसनत्कुमारसनातननारदतुम्बुरुसमन्तादयोऽष्टदलाः ।
वसिष्ठवालखिल्यविश्वामित्रकश्यपात्रिभरद्वाजाङ्गीरसजामदग्निगौतमागस्त्यजाबालिकपिला द्वादशदलाः । मत्स्यकूर्मवराहनारसिंहवामनरामरामकृष्णबुद्धकल्किसद्योजातवामदेवा अघोरतत्पुरुषेशानपरमेश्वराः षोडशदलाः । शंखचक्रगदापद्मखड्गश्रीवत्सकौस्तुभवनमालादिकिरीटकुण्डलकेयूरहाराङ्गदशार्ङ्गिशरनन्दकपद्मवेणुबर्हिपिञ्छशेषानन्तगरुडविष्वक्सेनब्रह्माणश्चतुर्विंशतिदलाः केशवादिचतुर्विंशत्यनुक्रमम् । हरिश्रीकृष्णमुकुन्दकुमुदाक्षपुण्डरीकाक्षधामकशङ्खवर्णसर्वनेत्रसुखसुप्रतीका द्वात्रिंशद्दलाः । ऐरावतपुण्डरीकवामनकुमुदाञ्जनपुष्पदन्तसार्वभौमसुप्रतीकाक्षाश्चतुरश्रदेवताः । ॐ नमो नारायणायाष्टाक्षरसंज्ञावरणदेवतापूजा कर्तव्या । स होवाच भगवान् य एवं वेद । इत्युपनिषत् ॥
इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये षष्ठः खण्डः
इति नारायणपूर्वतापिनीयोपनिषत् समाप्ता

Settings