चतुर्थः खण्डः

स होवाच भगवान् पितामह: गायत्रीं व्याचष्टे । गोविन्दाय विद्महे वासुदेवाय धीमहि । तन्नो नारायणः प्रचोदयात् । कामदेवाय विद्महे पुष्पबाणाय धीमहि । तन्नोऽनङ्गः प्रचोदयात् । महादेव्यै च विद्महे विष्णुपत्नी च धीमहि । तन्नो लक्ष्मीः प्रचोदयात । "विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विमने रजाꣳसि यो अस्कभायदुत्तरꣳ सधस्थं विचक्रमाणस्त्रेधोरुगायः", "त्रिर्देवः पृथिवीमेष एताम् । विचक्रमे शतर्चसं महित्वा । प्रविष्णुरस्तु तवसस्तवीयान् । त्वेषꣳ ह्यस्य स्थविरस्य नाम ।"
सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमकृत ।अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधिवाचि ॥
"प्रतद्विष्णुस्तवने वीर्याय । मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेषु । अधिक्षियन्ति भुवनानि विश्वा ।", "य ईꣳ शृणोत्यलकꣳ शृणोति । न हि प्रवेद सुकृतस्य पन्थाम् ।" अक्षन्वन्तः कर्णवन्तः सखायो मनो जीवेष्वसमा बभूवुः । तस्माल्लक्ष्मीनारायणं सर्वबीजं सर्वभूताधिवासं यो वेत्ति स विद्वान् भवति । उपासकानां मोक्षप्राप्तिर्भवति । स जीवन्मुक्तो भवति । स होवाच भगवान् उपासनविधिं व्याचष्टे । ब्रह्मा ऋषिर्भवति । गायत्री छन्द उच्यते । श्रीमन्नारायणपरमात्मा देवता । प्रणवं बीजम् । नमः शक्तिरुच्यते । कीलकं नारायणेति ॥
धर्मार्थकाममोक्षेषु विनियोगोऽथ भावना ।
महोल्काय वीरोल्काय वृद्धोल्काय पृथूलकाय विद्युल्काय ज्वलदुल्काय च षडङ्गकल्पिताः नमःस्वाहावषड्वौषट्पदान्ता अङ्गन्यासा भवन्ति ।
नीलजीमूतसंकाशं पीतकौशेयवाससम् ।किरीटकुण्डलधरं कौस्तुभोद्भासितोरसम् ॥
शङ्खचक्रगदाखङ्गधारिणं वनमालिनम् ।वामभागे महालक्ष्म्यालिङ्गितार्धशरीरिणम् ॥
सनकादिभिः संसेव्यं स्तूयमानं महर्षिभिः ।ब्रह्मादिभिः सदा ध्येयं ध्यात्वा नारायणं विभुम् ॥
कर्मणा मनसा वाचा संस्मरेत् प्रजपेत् सुधीः ।अयुतं जपमात्रेण सर्वज्ञानप्रदो भवेत् ॥
लक्षमात्रं तु प्रजपेत् स्वस्वरूपं भवेन्मनुः ।अत ऊर्ध्वं सदा ध्यायेत् साक्षान्नारायणो हरिः ॥
स होवाच भगवान् य एवं वेद । इत्युपनिषत् ॥
इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये चतुर्थ: खण्ड:

Settings