तृतीयः खण्डः
स होवाच भगवान् ब्रह्मा नारायणमन्त्रः कीदृशो भवति । "ॐ नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात्" इति गायत्री भवति । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पाꣳसुरे। "अतो देवा भवन्तु नो यतो विष्णुर्विचक्रमे । पृथिव्याः सप्तधामभिः" इति मन्त्रद्वयेन नारायणप्रतिपादितं भवति । "स ब्रह्मा स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट्" । नारायणायेति पञ्चाक्षरं भवति । ॐ नमो विष्णव इति षडक्षरं विज्ञातम् । नमो नारायणायेति सप्ताक्षरं भवति । ॐ नमो भगवते वासुदेवायेति द्वादशं परिकीर्तितम् । ॐ श्रीं ह्रीं क्लीं नमो नारायणाय स्वाहा । यस्य कस्यापि न देयम् ।
पुत्रो देयः शिरो देयं न देया षोडशाक्षरी ।न वदेद्यस्य कस्यापि किं तु शिष्याय तां वदेत् ॥
ॐ श्रीं ह्रीं नमो भगवते लक्ष्मीनारायणाय विष्णवे वासुदेवाय स्वाहा ॥
श्रीमहाविष्णवे तुभ्यं नमो नारायणाय च ।गोविन्दाय च रुद्राय हरये ब्रह्मरूपिणे ॥
नारायण महाविष्णो श्रीधरानन्त केशव ।वासुदेव जगन्नाथ हृषीकेश नमो नमः ॥
इत्यनुष्टुब्द्वयं मन्त्रं व्याख्यातम् । अथ मालामन्त्रं व्याख्यास्यामः । स होवाच भगवान् ब्रह्मा य एवं वेद । इत्युपनिषत् ॥
इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये तृतीयः खण्डः

Settings