पश्चमः खण्डः

स होवाच भगवान् ब्रह्मा दशकळात्मकोऽवतारः कथ्यते ॥
जरा पालिनिका शान्तिरीश्वरी रतिकामिका ।वरदा ह्लादिनी प्रीतिर्दीर्घा दशकला हरेः ॥
नारायणादवतारा मन्त्ररूपा जायन्ते । ॐ नमो नारायणाय स्वाहा । एवं दशाक्षरो महामन्त्रो भवति । तत्र प्रथमो मत्स्यावतार: । द्वितीयः कूर्मः । तृतीयो वराहः । चतुर्थो नरसिम्हः । पञ्चमो वामनः । षष्ठो जमदग्निः । सप्तमो रामचन्द्रः । अष्टमः कृष्णः परमात्मा । नवमो बुद्धावतारः । दशमः कल्किर्जनार्दनः । ॐ मत्स्यावताराय नमः । श्रीं कूर्मावताराय नमः । ह्रीं वराहावताराय नमः । हुं नृसिंहावताराय नमः ।सौः वामनावताराय नमः । ऐं परशुरामावताराय नमः । ग्लौं रामचन्द्राय नमः । क्लीं कृष्णाय नमः । ब्लूं बुद्धावताराय नमः । सः कल्क्यवताराय नमः इति । प्रजापतिः प्रजायते । तस्मान्नारायणः प्रजायते । ब्रह्मा जायते । ब्रह्मणःसकाशात् पञ्चमहाभूतानि तन्मात्राणि जायन्ते । ज्ञानेन्द्रियकर्मेन्द्रियाणि मनोबुद्धिचित्ताहंकारा जायन्ते । प्रकृतिर्जायते । चतुर्विंशतितत्त्वात्मको नारायणः । पञ्चविंशतितत्त्वात्मकः पुरुषत्वं परब्रह्म भवेत् । शिवश्च नारायणः । शक्रश्च नारायणः । दिशश्च नारायणः । ऊर्ध्वञ्च नारायण: । अन्तश्च नारायणः । नारायणः सर्वं खल्विदं ब्रह्म । तस्मान्नारायणादण्डजस्वेदजोद्भिज्जजरायुजमनसिजादयः सर्वे महाभूताः प्रजायन्ते ॥
अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्ती‍ꣳ सरूपाम् ।अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥
अण्डजाः सर्वखगरूपा जायन्ते । स्वेदजाः क्रिमिकीटादयः । उद्भिज्जास्तरुगुल्मलतादयः । जरायुजा नरपशुमृगादयो जायन्ते । मनसिजा नारदादयः सर्वे ऋषयः । नारायणः स्थावरजङ्गमात्मको भवति । अष्टवसवो नारायणः । एकादशरुद्रा नारायणः । नारायणात् द्वादशादित्याः । सर्वे देवा ऋषयो मुनयः सिद्धगन्धर्वयक्षरक्षःपिशाचाः सर्वे नारायणः । नारायण एवेदं सर्वम् । लक्ष्मीर्मूलप्रकृतिरिति विज्ञायते । वस्त्वेकं परब्रह्म नारायणः सनातनः ॥
साक्षान्नारायणो देव: परब्रह्माभिधीयते ।सच्चिदानन्दात्मकाः स्युर्विष्णौ नित्ये प्रकल्पिताः ।नानाविधानि रूपाणि हाटके कंटकादिवत् ॥
"चत्वारि वाक्परिमिता पदानि । तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति । तुरीयं वाचो मनुष्या वदन्ति ।" परापश्यन्तीमध्यमावैखरीरूपासरस्वतीति चतुर्विधा वाचो वदन्ति । वैखरी सर्वविद्यासु प्रशस्ता ॥
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥
आयुर्वेदो धनुर्वेदो गान्धर्वं मन्त्रशास्त्रकम् ।विद्याश्वाष्टादश प्रोक्ता नारायणनिवेशिताः ॥
तस्य निश्वसितमेव ऋग्वेदो यजुर्वेदः सामवेदो ह्यथर्वाङ्गिरश्चेति । सर्ववेदवेदान्तानां नारायणपरब्रह्मण्येव तात्पर्यम् । स होवाच भगवान् य एवं वेद । इत्युपनिषत् ॥
इत्याथर्वणरहस्ये नारायणपूर्वतापिनीये पञ्चमः खण्डः

Settings