तृतीयः खण्डः

यः स्वजनान्नीलग्रीवो यः स्वजनान्हरिः ।कल्माषपुच्छमोषधे जम्भयोताश्वरुन्धति ॥
बभ्रुश्च बभ्रुकर्णश्च नीलग्रीवश्च यः शिवः ।शर्वेण नीलकण्ठेन भवेन मरुतां पिता ॥
विरूपाक्षेण बभ्रुणा वाचं वदिष्यतो हतः ।शर्व नीलशिखण्ड वीर कर्मणि कर्मणि ॥
इमामस्य प्राशं जहि येनेदं विभजामहे । नमो भवाय । नमश्शर्वाय । नमः कुमाराय शत्रवे । नमः सभाप्रपादिने । यस्याश्वतरौ द्विसरौ गर्दभावभितस्सरौ । तस्मै नीलशिखण्डाय नमः । नीलशिखण्डाय नमः ॥ ३ ॥
इति तृतीयः खण्डः
इति नारायणकृतदीपिकाख्यव्याख्योपेता नीलरुद्रोपनिषत् समाप्ता

Settings