द्वितीयः खण्डः

अपश्यं त्वावरोहन्तं नीलग्रीवं विलोहितम् ।उत त्वा गोपा अदृशन्नुत त्वोदहार्यः ॥
उत त्वा विश्वा भूतानि तस्मै दृष्टाय ते नमः ।नमो अस्तु नीलशिखण्डाय सहस्राक्षाय वाजिने ॥
अथो ये अस्य सत्वानस्तेभ्योऽहमकरं नमः ।नमांसि त आयुधायानातताय धृष्णवे ॥
उभाभ्यामकरं नमो बाहुभ्यां तव धन्वने ।प्रमुञ्च धन्वनस्त्वमुभयोरार्त्नियोर्ज्याम् ॥
याश्च ते हस्त इषवः परा ता भगवो वप ।अवतत्य धनुस्त्वꣳ सहस्राक्ष शतेषुवे ॥
निशीर्य शल्यानां मुखा शिवो नः शंभुराभर ।विज्यं धनुः शिखण्डिनो विशल्यो बाणवाꣳ उत ॥
अनेशन्नस्येषव आभुरस्य निषङ्गथिः ।परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः ॥
अथो य इषुधिस्तवारे अस्मिन्निधेहि तम् ।या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः ॥
तया त्वं विश्वतो अस्मानयक्ष्मया परिब्भुज ।नमो अस्तु सर्पेभ्यो ये के च पृथिवीमनु ॥
ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ।ये वाभिरोचने दिवि ये च सूर्यस्य रश्मिषु ॥
येषामप्सु सदस्कृतं तेभ्यः सर्पेभ्यो नमः ।
या इषवो यातुधानानां ये वा वनस्पतीनाम् ।ये वाऽवटेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥ २ ॥
इति द्वितीयः खण्डः

Settings