विष्णुपादादिकेशान्तस्तोत्रम्

लक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं विशालंनीलाद्रेस्तुङ्गशृङ्गस्थितमिव रजनीनाथबिम्बं विभाति ।पायान्नः पाञ्चजन्यः स दितिसुतकुलत्रासनैः पूरयन्स्वै-र्निध्वानैर्नीरदौघध्वनिपरिभवदैरम्बरं कम्बुराजः ॥ १ ॥
आहुर्यस्य स्वरूपं क्षणमुखमखिलं सूरयः कालमेतंध्वान्तस्यैकान्तमन्तं यदपि च परमं सर्वधाम्नां च धाम ।चक्रं तच्चक्रपाणेर्दितिजतनुगलद्रक्तधाराक्तधारंशश्वन्नो विश्ववन्द्यं वितरतु विपुलं शर्म घर्मांशुशोभम् ॥
अव्यान्निर्घातघोरो हरिभुजपवनामर्शनाध्मातमूर्ते-रस्मान्विस्मेरनेत्रत्रिदशनुतिवचःसाधुकारैः सुतारः ।सर्वं संहर्तुमिच्छोररिकुलभुवनं स्फारविष्फारनादःसंयत्कल्पान्तसिन्धौ शरसलिलघटावार्मुचः कार्मुकस्य ॥
जीमूतश्यामभासा मुहुरपि भगवद्बाहुना मोहयन्तीयुद्धेषूद्धूयमाना झटिति तटिदिवालक्ष्यते यस्य मूर्तिः ।सोऽसिस्त्रासाकुलाक्षत्रिदशरिपुवपुःशोणितास्वादतृप्तोनित्यानन्दाय भूयान्मधुमथनमनोनन्दनो नन्दको नः ॥
कम्राकारा मुरारेः करकमलतलेनानुरागाद्गृहीतासम्यग्वृत्ता स्थिताग्रे सपदि न सहते दर्शनं या परेषाम् ।राजन्ती दैत्यजीवासवमदमुदिता लोहितालेपनार्द्राकामं दीप्तांशुकान्ता प्रदिशतु दयितेवास्य कौमोदकी नः ॥
यो विश्वप्राणभूतस्तनुरपि च हरेर्यानकेतुस्वरूपोग्रं संचिन्त्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतन्ति ।चञ्चच्चण्डोरुतुण्डत्रुटितफणिवसारक्तपङ्काङ्कितास्यंवन्दे छन्दोमयं तं खगपतिममलस्वर्णवर्णं सुपर्णम् ॥ ६ ॥
विष्णोर्विश्वेश्वरस्य प्रवरशयनकृत्सर्वलोकैकधर्तासोऽनन्तः सर्वभूतः पृथुविमलयशाः सर्ववेदैश्च वेद्यः ।पाता विश्वस्य शश्वत्सकलसुररिपुध्वंसनः पापहन्तासर्वज्ञः सर्वसाक्षी सकलविषभयात्पातु भोगीश्वरो नः ॥
वाग्भूगौर्यादिभेदैर्विदुरिह मुनयो यां यदीयैश्च पुंसांकारुण्यार्द्रैः कटाक्षैः सकृदपि पतितैः संपदः स्युः समग्राः ।कुन्देन्दुस्वच्छमन्दस्मितमधुरमुखाम्भोरुहां सुन्दराङ्गींवन्दे वन्द्यामशेषैरपि मुरभिदुरोमन्दिरामिन्दिरां ताम् ॥
या सूते सत्त्वजालं सकलमपि सदा संनिधानेन पुंसोधत्ते या तत्त्वयोगाच्चरमचरमिदं भूतये भूतजातम् ।धात्रीं स्थात्रीं जनित्रीं प्रकृतिमविकृतिं विश्वशक्तिं विधात्रींविष्णोर्विश्वात्मनस्तां विपुलगुणमयीं प्राणनाथां प्रणौमि ॥
येभ्योऽसूयद्भिरुच्चैः सपदि पदमुरु त्यज्यते दैत्यवर्गै-र्येभ्यो धर्तुं च मूर्ध्ना स्पृहयति सततं सर्वगीर्वाणवर्गः ।नित्यं निर्मूलयेयुर्निचिततरममी भक्तिनिघ्नात्मनां नःपद्माक्षस्याङ्घ्रिपद्मद्वयतलनिलयाः पांसवः पापपङ्कम् ॥
रेखा लेखादिवन्द्याश्चरणतलगताश्चक्रमत्स्यादिरूपाःस्निग्धाः सूक्ष्माः सुजाता मृदुललिततरक्षौमसूत्रायमाणाः ।दद्युर्नो मङ्गलानि भ्रमरभरजुषा कोमलेनाब्धिजायाःकम्रेणाम्रेड्यमानाः किसलयमृदुना पाणिना चक्रपाणेः ॥
यस्मादाक्रामतो द्यां गरुडमणिशिलाकेतुदण्डायमाना-दाश्च्योतन्ती बभासे सुरसरिदमला वैजयन्तीव कान्ता ।भूमिष्ठो यस्तथान्यो भुवनगृहबृहत्स्तम्भशोभां दधौ नःपातामेतौ पयोजोदरललिततलौ पङ्कजाक्षस्य पादौ ॥
आक्रामद्भयां त्रिलोकीमसुरसुरपती तत्क्षणादेव नीतौयाभ्यां वैरोचनीन्द्रौ युगपदपि विपत्संपदोरेकधाम ।ताभ्यां ताम्रोदराभ्यां मुहुरहमजितस्याञ्चिताभ्यामुभाभ्यांप्राज्यैश्वर्यप्रदाभ्यां प्रणतिमुपगतः पादपङ्केरुहाभ्याम् ॥
येभ्यो वर्णश्चतुर्थश्चरमत उदभूदादिसर्गे प्रजानांसाहस्री चापि संख्या प्रकटमभिहिता सर्ववेदेषु येषाम् ।प्राप्ता विश्वंभरा यैरतिवितततनोर्विश्वमूर्तेर्विराजोविष्णोस्तेभ्यो महद्भ्यः सततमपि नमोऽस्त्वङ्घ्रिपङ्केरुहेभ्यः ॥
विष्णोः पादद्वयाग्रे विमलनखमणिभ्राजिता राजते याराजीवस्येव रम्या हिमजलकणिकालंकृताग्रा दलाली ।अस्माकं विस्मयार्हाण्यखिलजनमनःप्रार्थनीया हि सेयंदद्यादाद्यानवद्या ततिरतिरुचिरा मङ्गलान्यङ्गुलीनाम् ॥
यस्यां दृष्ट्वामलायां प्रतिकृतिममराः संभवन्त्यानमन्तःसेन्द्राः सान्द्रीकृतेर्ष्यास्त्वपरसुरकुलाशङ्कयातङ्कवन्तः ।सा सद्यः सातिरेकां सकलसुखकरीं संपदं साधयेन्न-श्चञ्चच्चार्वंशुचक्रा चरणनलिनयोश्चक्रपाणेर्नखाली ॥
पादाम्भोजन्मसेवासमवनतसुरव्रातभास्वत्किरीट-प्रत्युप्तोच्चावचाश्मप्रवरकरगणैश्चित्रितं यद्विभाति ।नम्राङ्गानां हरेर्नो हरिदुपलमहाकूर्मसौन्दर्यहारि-च्छायं श्रेयःप्रदायि प्रपदयुगमिदं प्रापयेत्पापमन्तम् ॥
श्रीमत्यौ चारुवृत्ते करपरिमलनानन्दहृष्टे रमायाःसौन्दर्याढ्येन्द्रनीलोपलरचितमहादण्डयोः कान्तिचोरे ।सूरीन्द्रैः स्तूयमाने सुरकुलसुखदे सूदितारातिसंघेजङ्घे नारायणीये मुहुरपि जयतामस्मदंहो हरन्त्यौ ॥
सम्यक्साह्यं विधातुं सममिव सततं जङ्घयोः खिन्नयोर्येभारीभूतोरुदण्डद्वयभरणकृतोत्तम्भभावं भजेते ।चित्तादर्शं निधातुं महितमिव सतां ते समुद्रायमानेवृत्ताकारे विधत्तां हृदि मुदमजितस्यानिशं जानुनी नः ॥
देवो भीतिं विधातुः सपदि विदधतौ कैटभाख्यं मधुं चा-प्यारोप्यारूढगर्वावधिजलधि ययोरादिदैत्यौ जघान ।वृत्तावन्योन्यतुल्यौ चतुरमुपचयं विभ्रतावभ्रनीला-वूरू चारू हरेस्तौ मुदमतिशयिनीं मानसे नो विधत्ताम् ॥
पीतेन द्योतते यच्चतुरपरिहितेनाम्बरेणात्युदारंजातालंकारयोगं जलमिव जलधेर्वाडबाग्निप्रभाभिः ।एतत्पातित्यदान्नो जघनमतिघनादेनसो माननीयंसातत्येनैव चेतोविषयमवतरत्पातु पीताम्बरस्य ॥ २१ ॥
यस्या दाम्ना त्रिधाम्नो जघनकलितया भ्राजतेऽङ्गं यथाब्धे-र्मध्यस्थो मन्दराद्रिर्भुजगपतिमहाभोगसंनद्धमध्यः ।काञ्ची सा काञ्चनाभा मणिवरकिरणैरुल्लसद्भिः प्रदीप्ताकल्यां कल्याणदात्री मम मतिमनिशं कम्ररूपा करोतु ॥
उन्नम्नं कम्रमुच्चैरुपचितमुदभूद्यत्र पत्रैर्विचित्रैःपूर्वं गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजम् ।यस्मिन्नीलाश्मनीलैस्तरलरुचिजलैः पूरिते केलिबुद्ध्यानालीकाक्षस्य नाभीसरसि वसतु नश्चित्तहंसश्चिराय ॥
पातालं यस्य नालं वलयमपि दिशां पत्रपङ्क्तीर्नगेन्द्रा-न्विद्वांसः केसरालीर्विदुरिह विपुलां कर्णिकां स्वर्णशैलम् ।भूयाद्गायत्स्वयंभूमधुकरभवनं भूमयं कामदं नोनालीकं नाभिपद्माकरभवमुरु तन्नागशय्यस्य शौरेः ॥
आदौ कल्पस्य यस्मात्प्रभवति विततं विश्वमेतद्विकल्पैःकल्पान्ते यस्य चान्तः प्रविशति सकलं स्थावरं जङ्गमं च ।अत्यन्ताचिन्त्यमूर्तेश्चिरतरमजितस्यान्तरिक्षस्वरूपेतस्मिन्नस्माकमन्तःकरणमतिमुदा क्रीडतात्क्रोडभागे ॥
कान्त्यम्भःपूरपूर्णे लसदसितवलीभङ्गभास्वत्तरङ्गेगम्भीराकारनाभीचतुरतरमहावर्तशोभिन्युदारे ।क्रीडत्वानद्धहेमोदरनहनमहाबाडवाग्निप्रभाढ्येकामं दामोदरीयोदरसलिलनिधौ चित्तमत्स्यश्चिरं नः ॥
नाभीनालीकमूलादधिकपरिमलोन्मोहितानामलीनांमाला नीलेव यान्ती स्फुरति रुचिमती वक्त्रपद्मोन्मुखी या ।रम्या सा रोमराजिर्महितरुचिकरी मध्यभागस्य विष्णो-श्चित्तस्था मा विरंसीच्चिरतरमुचितां साधयन्तीश्रियं नः ॥
संस्तीर्णं कौस्तुभांशुप्रसरकिसलयैर्मुग्धमुक्ताफलाढ्यंश्रीवत्सोल्लासि फुल्लप्रतिनववनमालाङ्कि राजद्भुजान्तम् ।वक्षः श्रीवृक्षकान्तं मधुकरनिकरश्यामलं शार्ङ्गपाणेःसंसाराध्वश्रमार्तैरुपवनमिव यत्सेवितं तत्प्रपद्ये ॥ २८ ॥
कान्तं वक्षो नितान्तं विदधदिव गलं कालिमा कालशत्रो-रिन्दोर्बिम्बं यथाङ्को मधुप इव तरोर्मञ्जरीं राजते यः ।श्रीमान्नित्यं विधेयादविरलमिलितः कौस्तुभश्रीप्रतानैःश्रीवत्सः श्रीपतेः स श्रिय इव दयितो वत्स उच्चैः श्रियं नः ॥
संभूयाम्भोधिमध्यात्सपदि सहजया यः श्रिया संनिधत्तेनीले नारायणोरःस्थलगगनतले हारतारोपसेव्ये ।आशाः सर्वाः प्रकाशा विदधदपिदधच्चात्मभासान्यतेजां-स्याश्चर्यस्याकरो नो द्युमणिरिव मणिः कौस्तुभः सोऽस्तु भूत्यै ।
या वायावानुकूल्यात्सरति मणिरुचा भासमाना समानासाकं साकम्पमंसे वसति विदधती वासुभद्रं सुभद्रम् ।सारं सारङ्गसंघैर्मुखरितकुसुमा मेचकान्ता च कान्तामाला मालालितास्मान्न विरमतु सुखैर्योजयन्ती जयन्ती ॥
हारस्योरुप्रभाभिः प्रतिनववनमालांशुभिः प्रांशुरूपैःश्रीभिश्चाप्यङ्गदानां कबलितरुचि यन्निष्कभाभिश्च भाति ।बाहुल्येनैव बद्धाञ्जलिपुटमजितस्याभियाचामहे त-द्बन्धार्तिं बाधतां नो बहुविहतिकरीं बन्धुरं बाहुमूलम् ॥
विश्वत्राणैकदीक्षास्तदनुगुणगुणक्षत्रनिर्माणदक्षाःकर्तारो दुर्निरूपस्फुटगुणयशसां कर्मणामद्भुतानाम् ।शार्ङ्गं बाणं कृपाणं फलकमरिगदे पद्मशङ्खौ सहस्रंबिभ्राणाः शस्त्रजालं मम दधतु हरेर्बाहवो मोहहानिम् ॥
कण्ठाकल्पोद्गतैर्यः कनकमयलसत्कुण्डलोत्थैरुदारै-रुद्योतैः कौस्तुभस्याप्युरुभिरुपचितश्चित्रवर्णो विभाति ।कण्ठाश्लेषे रमायाः करवलयपदैर्मुद्रिते भद्ररूपेवैकुण्ठीयेऽत्र कण्ठे वसतु मम मतिः कुण्ठभावं विहाय ॥
पद्मानन्दप्रदाता परिलसदरुणश्रीपरीताग्रभागःकाले काले च कम्बुप्रवरशशधरापूरणे यः प्रवीणः ।वक्त्राकाशान्तरस्थस्तिरयति नितरां दन्ततारौघशोभांश्रीभर्तुर्दन्तवासोद्युमणिरघतमोनाशनायास्त्वसौ नः ॥
नित्यं स्नेहातिरेकान्निजकमितुरलं विप्रयोगाक्षमा यावक्त्रेन्दोरन्तराले कृतवसतिरिवाभाति नक्षत्रराजिः ।लक्ष्मीकान्तस्य कान्ताकृतिरतिविलसन्मुग्धमुक्तावलिश्री-र्दन्ताली संततं सा नतिनुतिनिरतानक्षतान्रक्षतान्नः ॥
ब्रह्मन्ब्रह्मण्यजिह्मां मतिमपि कुरुषे देव संभावये त्वांशंभो शक्र त्रिलोकीमवसि किममरैर्नारदाद्याः सुखं वः ।इत्थं सेवावनम्रं सुरमुनिनिकरं वीक्ष्य विष्णोः प्रसन्न-स्यास्येन्दोरास्रवन्ती वरवचनसुधाह्लादयेन्मानसं नः ॥
कर्णस्थस्वर्णकम्रोज्ज्वलमकरमहाकुण्डलप्रोतदीप्य-न्माणिक्यश्रीप्रतानैः परिमिलितमलिश्यामलं कोमलं यत् ।प्रोद्यत्सूर्यांशुराजन्मरकतमुकुराकारचोरं मुरारे-र्गाढामागामिनीं नः शमयतु विपदं गण्डयोर्मण्डलं तत् ॥
वक्त्राम्भोजे लसन्तं मुहुरधरमणिं पक्वबिम्बाभिरामंदृष्ट्वा द्रष्टुं शुकस्य स्फुटमवतरतस्तुण्डदण्डायते यः ।घोणः शोणीकृतात्मा श्रवणयुगलसत्कुण्डलोस्रैर्मुरारेःप्राणाख्यस्यानिलस्य प्रसरणसरणिः प्राणदानाय नः स्यात् ॥
दिक्कालौ वेदयन्तौ जगति मुहुरिमौ संचरन्तौ रवीन्दूत्रैलोक्यालोकदीपावभिदधति ययोरेव रूपं मुनीन्द्राः ।अस्मानब्जप्रभे ते प्रचुरतरकृपानिर्भरं प्रेक्षमाणेपातामाताम्रशुक्लासितरुचिरुचिरे पद्मनेत्रस्य नेत्रे ॥ ४० ॥
पातात्पातालपातात्पतगपतिगतेर्भ्रूयुगं भुग्नमध्यंयेनेषच्चालितेन स्वपदनियमिताः सासुरा देवसंघाः ।नृत्यल्लालाटरङ्गे रजनिकरतनोरर्धखण्डावदातेकालव्यालद्वयं वा विलसति समया वालिकामातरं नः ॥
लक्ष्माकारालकालिस्फुरदलिकशशाङ्कार्धसंदर्शमील-न्नेत्राम्भोजप्रबोधोत्सुकनिभृततरालीनभृङ्गच्छटाभे ।लक्ष्मीनाथस्य लक्ष्यीकृतविबुधगणापाङ्गबाणासनार्ध-च्छाये नो भूरिभूतिप्रसवकुशलते भ्रूलते पालयेताम् ॥
रूक्षस्मारेक्षुचापच्युतशरनिकरक्षीणलक्ष्मीकटाक्ष-प्रोत्फुल्लत्पद्ममालाविलसितमहितस्फाटिकैशानलिङ्गम् ।भूयाद्भूयो विभूत्यै मम भुवनपतेर्भूलताद्वन्द्वमध्या-दुत्थं तत्पुण्ड्रमूर्ध्वं जनिमरणतमःखण्डनं मण्डनं च ॥
पीठीभूतालकान्तं कृतमकुटमहादेवलिङ्गप्रतिष्ठेलालाटे नाट्यरङ्गे विकटतरतटे कैटभारेश्चिराय ।प्रोद्धाट्यैवात्मतन्द्रीप्रकटपटकुटीं प्रस्फुरन्ती स्फुटाङ्गंपट्वीयं भावनाख्यां चटुलमतिनटी नाटिकां नाटयेन्नः ॥
मालालीवालिधाम्नः कुवलयकलिता श्रीपतेः कुन्तलालीकालिन्द्यारुह्य मूर्ध्नो गलति हरशिरःस्वर्धुनीस्पर्धया नु ।राहुर्वा याति वक्त्रं सकलशशिकलाभ्रान्तिलोलान्तरात्मालोकैरालोक्यते या प्रदिशतु सततं साखिलं मङ्गलं नः ॥
सुप्ताकाराः प्रसुप्ते भगवति विबुधैरप्यदृष्टस्वरूपाव्याप्तव्योमान्तरालास्तरलमणिरुचा रञ्जिताः स्पष्टभासः ।देहच्छायोद्गमाभा रिपुवपुरगरुप्लोषरोषाग्निधूम्याःकेशाः केशिद्विषो नो विदधतु विपुलक्लेशपाशप्रणाशम् ॥
यत्र प्रत्युप्तरत्नप्रवरपरिलसद्भूरिरोचिष्प्रतान-स्फूर्त्यां मूर्तिर्मुरारेर्द्युमणिशतचितव्योमवद्दुर्निरीक्ष्या ।कुर्वत्पारेपयोधि ज्वलदकृशशिखाभास्वदौर्वाग्निशङ्कांशश्वन्नः शर्म दिश्यात्कलिकलुषतमःपाटनं तत्किरीटम् ॥
भ्रान्त्वा भ्रान्त्वा यदन्तस्त्रिभुवनगुरुरप्यब्दकोटीरनेकाःगन्तुं नान्तं समर्थो भ्रमर इव पुनर्नाभिनालीकनालात् ।उन्मज्जन्नूर्जितश्रीस्त्रिभुवनमपरं निर्ममे तत्सदृक्षंदेहाम्भोधिः स देयान्निरवधिरमृतं दैत्यविद्वेषिणो नः ॥
मत्स्यः कूर्मो वराहो नरहरिणपतिर्वामनो जामदग्न्यःकाकुत्स्थः कंसघाती मनसिजविजयी यश्च कल्किर्भविष्यन् ।विष्णोरंशावतारा भुवनहितकरा धर्मसंस्थापनार्थाःपायासुर्मां त एते गुरुतरकरुणाभारखिन्नाशया ये ॥ ४९ ॥
यस्माद्वाचो निवृत्ताः सममपि मनसा लक्षणामीक्षमाणाःस्वार्थालाभात्परार्थव्यपगमकथनश्लाघिनो वेदवादाः ।नित्यानन्दं स्वसंविन्निरवधिविमलस्वान्तसंक्रान्तबिम्ब-च्छायापत्यापि नित्यं सुखयति यमिनो यत्तदव्यान्महो नः ॥
आपादादा च शीर्षाद्वपुरिदमनघं वैष्णवं यः स्वचित्तेधत्ते नित्यं निरस्ताखिलकलिकलुषे संततान्तःप्रमोदम् ।जुह्वज्जिह्वाकृशानौ हरिचरितहविःस्तोत्रमन्त्रानुपाठै-स्तत्पादाम्भोरुहाभ्यां सततमपि नमस्कुर्महे निर्मलाभ्याम् ॥
मोदात्पादादिकेशस्तुतिमितिरचितां कीर्तयित्वा त्रिधाम्नःपादाब्जद्वन्द्वसेवासमयनतमतिर्मस्तकेनानमेद्यः ।उन्मुच्यैवात्मनैनोनिचयकवचकं पञ्चतामेत्य भानो-र्बिम्बान्तर्गोचरं स प्रविशति परमानन्दमात्मस्वरूपम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ विष्णुपादादिकेशान्तस्तोत्रं संपूर्णम् ॥

Settings