श्रीवेंकटेशप्रपत्तिः

ईशानां जगतोऽस्य वेंकटपतेर्विष्णोः परां प्रेयसींतद्वक्षस्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् ।पद्मालंकृतपाणिपल्लवयुगां पद्मासनस्थां श्रियंवात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥
श्रीमन् कृपाजलनिधे कृतसर्वलोकसर्वज्ञ शक्त नतवत्सल सर्वशेषिन् ।स्वामिन् सुशील सुलभाश्रितपारिजातश्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ २ ॥
आनू पुरार्पितसुजातसुगन्धिपुष्प-सौरभ्यसौरभकरौ समसन्निवेशौसौम्यौ सदानुभवनेऽपि नवानुभाव्यौश्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ ३ ॥
सद्यो विकासिसमुदित्वरसान्द्रराग-सौरभ्यनिर्भरसरोरुहसाम्यवार्ताम् ।सम्यक्षु साहसपदेषु विलेखयन्तौश्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ ४ ॥
रेखामयध्वजसुधाकलशातपत्र-वज्रांकुशाम्बुरुहकल्पकशङ्खचक्रेः ।भव्यैरलंकृततलौ परतत्त्वचिह्नैःश्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ ५ ॥
ताम्रोदरद्युतिपराजितपद्मरागौबाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ ।उद्यन्नखांशुभिरुदस्तशशांकभासौश्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ ६ ॥
सप्रेमभीति कमलाकरपल्लवाभ्यांसंवाहनेऽपि सपदि क्लममादधानौ ।कान्ताववाङ्मनसगोचरसौकुमार्यौश्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ ७ ॥
लक्ष्मीमहीतदनुरूपनिजानुभाव-नीलादिदिव्यमहिषीकरपल्लवानाम् ।आरुण्यसंक्रमणतः किल सान्द्ररागौश्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ ८ ॥
नित्यानमद्विधिशिवादिकिरीटकोटि-प्रत्युप्तदीप्तनवरत्नमहःप्ररोहैः ।नीराजनाविधिमुदारमुपादधानौश्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ ९ ॥
विष्णोः पदे परम इत्युदितप्रशंसौयौ मध्य उत्स इति भोग्यतयाऽप्युपात्तौ ।भूयस्तथेति तव पाणितलप्रदिष्टौश्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ १० ॥
पार्थाय तत्सदृशसारथिना त्वयैवयौ दर्शितौ स्वचरणौ शरणं व्रजेति ।भूयोऽपि मह्यमिह तौ करदर्शितौ तेश्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ ११ ॥
मन्मूर्ध्नि कालियफणे विकटाटवीषुश्रीवेंकटाद्रिशिखरे शिरसि श्रुतीनाम् ।चित्तेऽप्यनन्यमनसां सममाहितौ तेश्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ १२ ॥
अम्लानहृष्यदवनीतलकीर्णपुष्पौश्री वेंकटाद्रिशिखराभरणायमानौ ।आनन्दिताखिलमनोनयनौ तवैतौश्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ १३ ॥
प्रायः प्रपन्नजनताप्रथमावगाह्यौमातुस्स्तनाविव शिशोरमृतायमानौ ।प्राप्तौ परस्परतुलामतुलान्तरौ तेश्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ १४ ॥
सत्त्वोत्तरैस्सततसेव्यपदाम्बुजेनसंसारतारकदयार्द्रदृगञ्चलेन ।सौम्योपयन्तुमुनिना मम दर्शितौ तेश्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ १५ ॥
श्रीश श्रिया घटिकया त्वदुपायभावेप्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या ।नित्याश्रिताय निरवद्यगुणाय तुभ्यंस्यां किङ्करो वृषगिरीश न जातु माम् ॥ १६ ॥
इति श्रीवेंकटेशप्रपत्तिः

Settings