श्रीरामवर्णमालिकास्तोत्रम्

Click Settings to choose another script or language.
अन्तस्समस्तजगतां यमनुप्रविष्ट-माचक्षते मणिगणेष्विव सूत्रमार्याः ।तं केलिकल्पितरघूद्वहरूपमाद्यंपङ्केरुहाक्षमनिशं शरणं प्रपद्ये ॥ १ ॥
आम्नायशैलशिखरैकनिकेतनायवाल्मीकिवाग्जलनिधिप्रतिबिम्बिताय ।कालाम्बुदाय करुणारसमेदुरायकस्मैचिदस्तु मम कार्मुकिणे प्रणामः ॥ २ ॥
इन्दुप्रसादमवतंसयता तदीयंचापं करे हुतवहं वहता हरेण ।शङ्के जगत्त्रयमनुग्रहनिग्रहाभ्यांसंयोज्यते रघुपते समयान्तरेषु ॥ ३ ॥
ईदृग्विधस्त्वमिति वेद न सोऽपि वेदःशक्तोऽन्तिकस्थितमवेक्षितुमुत्तमाङ्गे ।श्रोतुं क्षमं न कुदृशेक्षितुमप्यतस्त्वांसर्वे विदन्तु कथमीश कथं स्तुवन्तु ॥ ४ ॥
उष्णांशुबिम्बमुदधिस्मयघस्मरास्त्रग्रावा च तुल्यमजनिष्ट गृहं यथा ते ।वाल्मीकिवागपि मदुक्तिरपि प्रभुं त्वांदेव प्रशंसति तथा यदि कोऽत्र दोषः ॥ ५ ॥
ऊढः पुरासि विनतान्वयसम्भवेनदेव त्वया किमधुनापि तथा न भाव्यम् ।पूर्वे जना मम विनेमुरसंशयं त्वांजानासि राघव तदन्वयसम्भवं माम् ॥ ६ ॥
ऋक्षं प्लवङ्गमपि रक्षसि चेन्महात्मन्विप्रेषु किं पुनरथापि न विश्वसाम ।अत्रापराध्यति किलप्रथमद्वितीयौवर्णौ तवौदनतयानिगमो विवृण्वन् ॥ ७ ॥
नृणां न केवलमसि त्रिदिवौकसां त्वंराजा यमार्कमरुतोऽपि यतस्त्रसन्ति ।दीनस्य वाङ्मम तथा वितते तव स्यात्कर्णे रघूद्वह यतः ककुभोऽपि जाताः ॥ ८ ॥
कॢप्तामपि व्यसनिनीं भवितव्यतां मेनाथान्यथा कुरु तव प्रभुतां दिदृक्षोः ।चक्रे शिलापि तरुणी भवता तदास्तांमायापि यद्घटयते तव दुर्घटानि ॥ ९ ॥
एकं भवन्तमृषयो विदुरद्वितीयंजानामि कार्मुकमहं तु तव द्वितीयम् ।श्रुत्याश्रिता जगति यद्गुणघोषणा सादूरीकरोति दुरितानि समाश्रितानाम् ॥ १० ॥
ऐशं शरासमचलोपममिक्षुवल्ली-भञ्जं बभञ्ज किल यस्तव बाहुदण्डः ।तस्य त्वशीतकरवंशवतंस शंसकिं दुष्करो भवति मे विधिपाशभङ्गः ॥ ११ ॥
ओजस्तव प्रहितशेषविषाग्निदग्धैःस्पष्टं जगद्भिरुपलभ्य भयाकुलानाम्(?)।गीतोक्तिभिस्वयि निरस्य मनुष्यबुद्धिंदेव स्तुतोऽसि विधिविष्णुवृषध्जानाम् ॥ १२ ॥
औत्कण्ठ्यमस्ति दशकण्ठरिपो ममैकंद्रक्ष्यामि तावकपदाम्बुरुहं कदेति ।अप्येति कर्म निखिलं मम यत्र दृष्टेलीनाश्च यत्र यतिभिः सह मत्कुलीनाः ॥ १३ ॥
अंभोनिधाववधिमत्यवकीर्य बाणान्किं लब्धवानसि ननु श्वशुरस्तवायम् ।इष्टापनेतुमथवा यदि बाणकण्डू-र्देवायमस्वनवधिर्मम दैन्यसिन्धुः ॥ १४ ॥
अश्रान्तमर्हति तुलाममृतांशुबिम्बंभग्नाम्बुजद्युतिमदेन भवन्मुखेन ।अस्मादभूदनल इत्यकृतोक्तिरीशसत्या कथं भवतु साधुविवेकभाजाम् ॥ १५ ॥
कल्याणमावहतु नः कमलोदरश्री-रासन्नवानरभटौघगृहीतशेषः ।श्लिष्यन् मुनीन् प्रणतदेवशिरःकिरीट-दाम्नि स्खलन् दशरथात्मज ते कटाक्षः ॥ १६ ।
खंवायुरग्निरुदकं पृथिवी च शब्दःस्पर्शश्च रूपरसगन्धमपि त्वमेव ।... ... ... ... ... ...दययात्मबन्धोधत्से वपुः शरशरासभृदब्दनीलम् ॥ १७ ॥
गङ्गा पुनाति रघुपुङ्गव यत्प्रसूतायद्रेणुना च पुपुवे यमिनः कलत्रम् ।तस्य त्वदङ्घ्रिकमलस्य निषेवया स्यांपूतो यथा पुनरघेऽपि तथा प्रसीद ॥ १८
घण्टाघणंघणितकोटिशरासनं तेलुण्टाकमस्तु विपदां मम लोकनाथ ।जिह्वालुतां वहति यद्भुजगो रिपूणाम्उष्णैरसृग्भिरुदरम्भरिणा शरेण ॥ १९ ॥
प्राङस्यवाङसि परेश तथासि तिर्यक्ब्रूमः किमन्यदखिला अपि जन्तवोऽसि ।एकक्रमेपि तव वा भुवि न म्रियन्ते(?)मन्दस्य राघव सहस्व ममापराधम् ॥ २० ॥
चण्डानिलव्यतिकरक्षुभिताम्बुवाह-दम्भोलिपातमिव दारुणमन्तकालम् ।स्मृत्वापि संभविनमुद्विजते न धन्योलब्ध्वा शरण्यमनरण्यकुलेश्वरं त्वाम् ॥ २१ ॥
छन्नं निजं कुहनया मृगरूपभाजोनक्तंचरस्य न किमाविरकरि रूपम् ।त्वत्पत्रिणापि रघुवीर ममाद्य माया-गूढस्वरूपविवृतौ तव कः प्रयासः ॥ २२ ॥
जन्तोः किल त्वदभिधा मम कर्णिकायांकर्णेजपन् हरति कश्चन पञ्चकोशान् ।इत्यामनन्ति रघुवीर ततो भवन्तंराजाधिराज इति विश्वसिमः कथं वा ॥ २३ ॥
झङ्कारिभृङ्गकमलोपमितं पदं तेचारुस्तवप्रवणचारणकिन्नरौघम् ।जानामि राघव जलाशयवासयोग्यंस्वैरं वसेत्तदधुनैव जलाशये मे ॥ २४ ॥
ज्ञानेन मुक्तिरिति निश्चितमागमज्ञै-र्ज्ञानं क्व मे भवतु दुस्त्यजवासनस्य ।देवाभयं वितर किं नु सकृत्प्रपत्त्यामह्यं न विस्मर पुरैव कृतां प्रतिज्ञाम् ॥ २५ ॥
टङ्कारमीश भवदीयशरासनस्यज्यास्फालनेन जनितं निगमं प्रतीमः ।येनैव राघव भवानवगम्य मास-त्रासं निरस्य सुखमातनुते बुधानाम् ॥ २६ ॥
ठात्कृत्य मण्डलमखण्डि यदुष्णभानो-र्देव त्वदस्त्रदलितैर्युधि यातुधानैः ।शङ्के ततस्तव पदं विदलय्य वेगा-त्तैरद्भुतं प्रतिकृतिर्विदधे वधस्य ॥ २७ ॥
डिम्भस्तवास्मि रघुवीर तथा दयस्वलभ्यं यथा कुशलवत्वमपि क्षितौ मे ।किञ्चिन्मनो मयि निधेहि तव क्षतं किंव्यर्था भवत्वमनसं गृणती श्रुतिस्त्वाम् ॥ २८ ॥
ढक्कां त्वदीययशसा मधुनापि शृण्मःप्राचेतसस्य भणितिं भरताग्रजन्मन् ।सत्ये यशस्तव शृणोति मृकण्डुसूनो-र्धाताप्यतो जगति को हि भवाद्दशोऽन्यः ॥ २९ ॥
त्राणं समस्तजगतां तव किं न कार्यंसा किं न तत्र करणं करुणा तवैव ।अख्याति कार्यकरणे तव नेति या वाङ्-मुख्या न सा रघुपते भवति श्रुतीनाम् ॥ ३० ॥
तत्त्वंपदे पदमसीति च यानि देवतेषां यदस्म्यभिलषन्नुपलब्धुमर्थान् ।सेवे पदद्वयमतो मृदुलं न वादौयद्दारुणैरपि ततो भवदर्थलाभः(?)॥ ३१ ॥
प्रोथं यदुद्वहसि भूमिवहैकदंष्ट्रंविश्वप्रभो विघटिताभ्रघटाः सटा वा ।रूपं तदुद्भटमपास्य रुचासि दिष्ट्यात्वं शम्बरारिरपि कैतवशम्बरारिः(?)॥ ३२ ॥
दग्ध्वा निशाचरपुरीं प्रथितस्तवैकोभक्तेषु दानवपुरत्रितयं तथान्यः ।त्वञ्चाशराव्युरसमस्यगुणैः प्रभो मेपुर्यष्टकप्रशमनेन लभस्व कीर्तिम्(?)॥ ३३ ॥
धत्ते शिरांसि दश यस्सुकरो वधोऽस्यकिं न त्वया निगमगीतसहस्रमूर्ध्ना ।मोहं ममामितपदं यदि देव हन्याःकीर्तिस्तदा तव सहस्रपदो बहुः स्यात् ॥ ३४ ॥
नम्रस्य मे भव विभो स्वयमेव नाथोनाथो भव त्वमिति चोदयितुं बिभेमि ।येन स्वसा दशमुखस्य नियोजयन्तीनाथो भव त्वमिति नासिकया विहीना ॥ ३५ ॥
पर्याकुलोऽस्मि किल पातकमेव कुर्वन्दीनं ततः करुणया कुरु मामपापम् ।कर्तुं रघूद्वह नदीनमपापमुर्व्याशक्तस्त्वमित्ययमपैति न लोकवादः ॥ ३६ ॥
फल्गूनि यद्यपि फलानि न लिप्सते मेचेतः प्रभो तदपि नो भजति प्रकृत्या ।मूर्त्यन्तरं व्रजवधूजनमोहनं तेजानाति फल्गु न फलं भुवि यत्प्रदातुम् ॥ ३७ ॥
बर्हिश्छदग्रथितकेशमनर्हवेष-मादाय गोपवनिताकुचकुङ्कुमाङ्कम् ।ह्रीणो न राघव भवान् यदतः प्रतीमःपत्न्या ह्रिया विरहितोऽसि पुरा श्रियेव ॥ ३८ ॥
भद्राय मेऽस्तु तव राघव बोधमुद्राविद्रावयन्त्यखिलमान्तरमन्धकारम् ।मन्त्रस्य ते परिपुनन्ति जगद्यथाष-डष्टाक्षराण्यपि तथैवविवृण्वती सा ॥ ३९ ॥
मन्दं निधेहि हृदि मे भगवन्नटव्यांपाषाणकण्टकसहिष्णु पदाम्बुजं ते ।अङ्गुष्ठमात्रमथवात्र निधातुमर्ह-स्याक्रान्तदुन्दुभितनूकठिनास्थिकूटम् ॥ ४० ॥
यज्ञेन देव तपसा यदनाशकेनदानेन च द्विजगणैर्विविदिष्यसे त्वम् ।भाग्येन मे जनितृषा तदिदं यतस्त्वांचापेषुभाक् परमबुध्यत जामदग्न्यः ॥ ४१ ॥
रम्योज्ज्वलस्तव पुरा रघुवीर देहःकामप्रदो यदभवत् कमलालयायै ।चित्रं किमत्र चरणाम्बुजरेणुरेखाकामं ददौ न मुनये किमु गौतमाय ॥ ४२ ॥
लङ्केशवक्षसि निविश्य यथा शरस्तेमन्दोदरीकुचतटीमणिहारचोरः ।शुद्धे सतां हृदि गतस्त्वमपि प्रभो मेचित्ते तथा हर चिरोवनतामविद्याम् ॥ ४३ ॥
वन्दे तवाङ्घ्रिकमलं श्वशुरं पयोधे-स्तातं भुवश्च रघुपुङ्गव रेखया यत् ।वज्रं बिभर्ति भजदार्तिगिरिं विभेत्तुंविद्यां नताय वितरेयमिति ध्वजं च ॥ ४४ ॥
शम्भुः स्वयं निरदिशद्गिरिकन्यकायैयन्नाम राम तव नामसहस्रतुल्यम् ।अर्थं भवन्तमपि तद्वहदेकमेवचित्रं ददाति गुणते चतुरः किलार्थान् ॥ ४५ ॥
षट् ते विधिप्रभृतिभिः समवेक्षितानिमन्त्राक्षराणि ऋषिभिर्मनुवंशकेतो ।एकेन यानि गुणितान्यपि मानसेनचित्रं नृणां त्रिदशतामुपलम्भयन्ति ॥ ४६ ॥
सर्गस्थितिप्रलयकर्मसु चोदयन्तीमाया गुणत्रयमयी जगतो भवन्तम् ।ब्रह्मेति विष्णुरिति रुद्र इति त्रिधा तेनाम प्रभो दिशति चित्रमजन्मनोऽपि ॥ ४७ ॥
हंसोऽसि मानसचरो महतां यतस्त्वंसंभाव्यते कील ततस्तव पक्षपातः ।मय्येनमर्पय न चेद्रघुनन्दन... ...जिष्णोरपि त्रिभुवने समव... ...॥ ४८ ॥
लक्ष्मीर्यतोऽजनि यथैव जलाशयाना-मेको रुषा तव तथा कृपयापि कार्यः ।अन्योऽपि कश्चिदिति चेदहमेव वर्तेतादृग्विधस्तपनवंशमणे किमन्यैः ॥ ४९ ॥
क्षन्तुं त्वमर्हसि रघूद्वह मेऽपराधान्सर्वंसहा ननु वधूरपि ते पुराणी ।वासालयं च ननु हृत्कमलं मदीयंकान्तापरापि न हि किं कमलालया ते ॥ ५० ॥
इत्थं मम स्तुवदमर्त्यनिगद्यमान-त्रय्यन्तमन्त्रमुखरीकृतपादपीठ ।राजाधिराज कृपया रघुवीर वर्ण-मालास्तवं त्वमवकर्णयितुं प्रसीद ॥ ५१ ॥
॥ इति श्रीरामवर्णमालिकास्तोत्रं सम्पूर्णम् ॥