९ शिशुपालवधम् This text does not support clickable word meanings. अभितापसंपदमथोष्णरुचिर्निजतेसामसहमान इव ।पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतत् ॥ १ ॥ ▼ Permalink Bookmark गतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकतां ।मुहुरन्तारालभुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा ॥ २ ॥ ▼ Permalink Bookmark विरलात पच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्रशिरः ।अभवद्गतः परिणतिं शिथिलः परमन्दसूर्यनयनो दिवसः ॥ ३ ॥ ▼ Permalink Bookmark अपराह्नशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये ।निलयाय शाखिन इवाह्रयते दुदुराकुलाः खगकुलानि गिरः ॥ ४ ॥ ▼ Permalink Bookmark उपसंध्यमास्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः ।करजालमस्तमये ऽपि सतामुतितं खलूच्चतरमेव पदम् ॥ ५ ॥ ▼ Permalink Bookmark प्रतिकूलमुपगते हि विधौ विफलत्वमेति बहुसाधनता ।अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥ ६ ॥ ▼ Permalink Bookmark नवकुङ्कुमारुणपयोधरया स्वकरावसक्तरुचिराम्बरया ।अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषारकरः ॥ ७ ॥ ▼ Permalink Bookmark गतवत्यराजत जपाकुसुमस्तबकद्युतौ दिनकरे ऽवनतिम् ।बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्वलयम् ॥ ८ ॥ ▼ Permalink Bookmark द्रुतशातकुम्भनिभमंशुमतो वपुरर्धमग्नवपुषः पयसि ।रुरुचे विरिञ्चिनखभिन्नबृहद्दणडकैकतरखण्डमिव ॥ ९ ॥ ▼ Permalink Bookmark अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् ।निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका ॥ १० ॥ ▼ Permalink Bookmark अभितिग्मरश्मि चिरमविरमादवधानखिन्नमनिमेषतया ।विगलन्नमधुव्रतकुलाश्रुजलं न्ममीलदब्जनयनं नलिनी ॥ ११ ॥ ▼ Permalink Bookmark अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः ।अवसन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः ॥ १२ ॥ ▼ Permalink Bookmark रुचिधाम्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विवशुः ।ज्वलनं त्विषः कथमितरथा सुलभो ऽन्यजन्मनि स एव पतिः ॥ १३ ॥ ▼ Permalink Bookmark विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणताम् ।चिरमुज्झितापि तनुरौज्झदसौ न पितृप्रसूः प्रकृतिमात्मभुवः ॥ १४ ॥ ▼ Permalink Bookmark अथ सान्द्रसान्ध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः ।पृथगुत्पपात विरहार्तिदलद्धृदयस्रुतासृगनुलिप्तमिव ॥ १५ ॥ ▼ Permalink Bookmark निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया ।दिवसात्ययात्तदपि मुक्तमहो चपलाजनं प्रति न चोद्यमदः ॥ १६ ॥ ▼ Permalink Bookmark दिवसो ऽनुमित्रमगमद्वलयं किमिहास्यते बत मयाबलया ।रुचिभर्तुरस्य विरहाधिगमादिति संध्ययापि सपदि व्यगमि ॥ १७ ॥ ▼ Permalink Bookmark पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ ।अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ॥ १८ ॥ ▼ Permalink Bookmark व्यसरन्नु भूधरगुहान्तरतः पचलं बहिर्भहलपङ्करुचि ।दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहाः ॥ १९ ॥ ▼ Permalink Bookmark किमलम्बताम्बरविलग्नमधः किमवर्धतोर्ध्वमवनीतलतः ।विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न निरधारि तमः ॥ २० ॥ ▼ Permalink Bookmark स्थगिताम्बरक्षितितले परितस्तिमिरे जनस्य दृशमन्धयति ।दधिरे रसाञ्जनमपूर्वतः प्रियवेश्मवर्त्म सुदृशो ददृशुः ॥ २१ ॥ ▼ Permalink Bookmark अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसन्तमसम् ।सुतनोः स्तनौ च दयितोपगमे तनुरोमराजिपथवेपथवे ॥ २२ ॥ ▼ Permalink Bookmark ददृशे ऽपि भास्कररुचाह्नि न यः स तमीं तमोबिरभिगम्य तताम् ।द्युतिमग्रहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥ २३ ॥ ▼ Permalink Bookmark अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु धीपशिखाः ।समयेन तेन चिरसुप्तमनोभवबोधनं सममबोधिषत ॥ २४ ॥ ▼ Permalink Bookmark वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचाम् ।स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माधवनीम् ॥ २५ ॥ ▼ Permalink Bookmark विशदप्रभापरिगतं विबभावुदयाचलव्यवहितेन्दुवपुः ।मुखमप्रकाशदशनं शनकैः सविलासहासमिव शक्रदिशः ॥ २६ ॥ ▼ Permalink Bookmark कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम् ।क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणादिपतिमूर्तिरिति ॥ २७ ॥ ▼ Permalink Bookmark नवचन्द्रकाकुसुमकीर्णतमःकबरीभृतो मलयजार्द्रमिव ।ददृशे ललाटतटहारि हरेर्हरितो मुखे तुहिनरश्मिदलम् ॥ २८ ॥ ▼ Permalink Bookmark प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः ।दधति ध्रुवं क्रमश एव न तु द्युतिशालिनो ऽपि सहसोपचयम् ॥ २९ ॥ ▼ Permalink Bookmark उदमज्जि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा ।प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनद्युतिना ॥ ३० ॥ ▼ Permalink Bookmark अथ लक्षमणागतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः ।परिवारितः परित ऋक्षगणैस्तिरौघराक्षसकुलं बिभिदे ॥ ३१ ॥ ▼ Permalink Bookmark उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिवोडुपतेः ।घनवीथवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ॥ ३२ ॥ ▼ Permalink Bookmark रजनीमवाप्य रुचमाप शशी सपदि व्यभूषयदसावपि ताम् ।अविलम्बितक्रममहो महतामितरेतरकृतिमच्चरितम् ॥ ३३ ॥ ▼ Permalink Bookmark दिवसं भृशोष्णरुचिपादहतां रुदतीमिवानवरतलिरुतैः ।मुहुरामृशन् मृगधरो ऽग्रकरैरुदशिस्वसत् कुमुदिनीवनिताम् ॥ ३४ ॥ ▼ Permalink Bookmark प्रतिकामिनीति ददृशुश्चकिताः स्मरजन्मघर्मपयसोपचिताम् ।सुदृशोभिभर्तृशशैरश्मिगलज्जलबिन्दुमिन्दुमणिदारुवधूम् ॥ ३५ ॥ ▼ Permalink Bookmark अमृतद्रवैर्विदधब्जदृशाममपमार्गमोषधिपतिः स्म करैः ।परितो विसर्पि परितापि भृशं वपुषो ऽवतारयति मानविषम् ॥ ३६ ॥ ▼ Permalink Bookmark अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः ।विससार सान्द्रतरमिन्दुरुचामधिकावभासितदिशां निकरः ॥ ३७ ॥ ▼ Permalink Bookmark उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुपदधीशमपि ।रजनीकरः किमिव चित्रमदो यदुरागिणां गणमनङ्गलघुम् ॥ ३८ ॥ ▼ Permalink Bookmark भवनोदरेषु परिमन्दतया शयितो ऽलसः स्फटिकयष्टिरुचः ।अवलम्ब्य जालकमुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः ॥ ३९ ॥ ▼ Permalink Bookmark अविभावितेषुविषयः प्रथमं मदनो ऽपि नूनमभवत्तमसा ।उदिते दिशः प्रकटयत्यमुना यदघर्मधाम्नि धनुराचकृषे ॥ ४० ॥ ▼ Permalink Bookmark युगपद्विकासमुदयाद्गमिते शशिनः शिलीमुखगणो ऽलभत ।द्रुतमेत्य पुष्पधनुषो धनुषः कुमुदे ऽङ्गनामनसि चावसरम् ॥ ४१ ॥ ▼ Permalink Bookmark ककुभां मुखानि सहसोज्ज्वलयन् दधदाकुलत्वमधिकं रतये ।अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ॥ ४२ ॥ ▼ Permalink Bookmark इति निश्चितप्रियतमागतयः सितदीधितावदयवत्यबलाः ।प्रतिकर्म कर्तुमुचक्रमिरे समये हि सर्वमुपकारि कृतम् ॥ ४३ ॥ ▼ Permalink Bookmark सममेकमेव दधतुः सुतनोरु हारभूषणमुरोजतटौ ।घटते हि संहततया जनितामिदमेव निर्विरतां दधतोः ॥ ४४ ॥ ▼ Permalink Bookmark कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति ।रशनाकलापकगुणेन वधूर्मकरध्वजद्विरदमाकलयत् ॥ ४५ ॥ ▼ Permalink Bookmark अदरेष्वलक्तकरसः सुदृशां विशदं कपोलभुवि लोध्ररजः ।नवमञ्जनं नयनपङ्कजयोर्बिभिदे न शङ्खनिहितात्पयसः ॥ ४६ ॥ ▼ Permalink Bookmark स्फुरदुज्वलाधरदलैर्विसद्दशनांशुकेशकरैः परितः ।धृतमुग्धगण्डफलकैर्विबभुविकसद्भिरास्यकमलैः प्रमदाः ॥ ४७ ॥ ▼ Permalink Bookmark भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलः ।मुखमिन्दुरुज्ज्वलकपोलमतः प्रतिमाच्छलेन सुदृशामविशत् ॥ ४८ ॥ ▼ Permalink Bookmark ध्रुवमागताः प्रतिहतिं कठिने मदनेषवः कुचतटेमहति ।इतराङ्गवन्न यदिदं गरिमग्लपितावलग्नमगमत्तनुतां ॥ ४९ ॥ ▼ Permalink Bookmark न मनोरमास्वपि विशेषविदां निरचेष्ट योग्यमिदमिति ।गृहमेष्यति प्रियतमे सुदृशां वसनाङ्गरागसुमनःसु मनः ॥ ५० ॥ ▼ Permalink Bookmark वपुरन्वलिप्त परिरम्भसुखव्यवधानभीरुकतया न वधूः ।क्षमस्य वाढमिदमेव हि यत्प्रियसंगमेष्वनवलेपमदः ॥ ५१ ॥ ▼ Permalink Bookmark निजपाणिपल्लवतलस्खलनादभिनासिकविवरमुत्पतितैः ।अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसनैः ॥ ५२ ॥ ▼ Permalink Bookmark विधृते दिवा सवयसा च पुरः परिपूर्णमण्डलविकाशभृति ।हिमधाम्नि दर्पणतले च मुहुः स्वमुखश्रियं मृगदृशो ददृशुः ॥ ५३ ॥ ▼ Permalink Bookmark अधिजानु बाहुमुपधाय नमत्करपल्लवार्पितकपोलतलम् ।उदकण्ठि कण्ठपरिवर्तिकलस्वरसून्यगानपयापरया ॥ ५४ ॥ ▼ Permalink Bookmark प्रणयप्रकाशनविदो मधुराः सुतरामभीष्टजनचित्तहृतः ।प्रजिघाय कान्तमनु मुग्धतरस्तरुणीजनो दृश इवाथ सखीः ॥ ५५ ॥ ▼ Permalink Bookmark न च मे ऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि ।निपुणं तथैनमुपगम्य वदेरभिदूति काचिदिति संदिदिशे ॥ ५६ ॥ ▼ Permalink Bookmark दयितया मानपरयापरया त्वरितं ययावगदितापि सखी ।किमु चोदिताः प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदः सुहृदाम् ॥ ५७ ॥ ▼ Permalink Bookmark प्रतिभिद्य कान्तमपराधकृतं यदि तावदस्य पुनरेव मया ।क्रियते ऽनुवृत्तिरुचितैव ततः कलयेदमानमनसं सखि माम् ॥ ५८ ॥ ▼ Permalink Bookmark अवधीर्य धैर्यकलिता दयितं विदधे विरोधमथ तेन सह ।तव गोप्यते किमिव कर्तुमिदं न सहास्मि साहसमसाहसिकी ॥ ५९ ॥ ▼ Permalink Bookmark तदुपेत्य मा स्म तमुपालभथाः क्ल दोषमस्य न हि विद्म वयम् ।इति सम्प्रधार्य रमणाय वधूर्विहितागसे ऽपि विससर्ज सखीं ॥ ६० ॥ ▼ Permalink Bookmark ननु सन्दिशेति सुदृशोदितया त्रपया न किञ्चन किलाभिदधे ।निजमैक्षि मन्दमनिशं निशितैः क्रशितं शरीरमशीरशरैः ॥ ६१ ॥ ▼ Permalink Bookmark ब्रुवते स्म दूत्य उपसृत्य नरान्तरवत्प्रगल्भमतिगर्भगिरः ।सुहृदर्थमीहितमजिह्मधियां प्रकृतेर्विराजति विरुद्धमपि ॥ ६२ ॥ ▼ Permalink Bookmark मम रूपकीर्तिमहरद्भुवि यस्तदनु प्रविष्टहृदयेयमिति ।त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ॥ ६३ ॥ ▼ Permalink Bookmark तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः ।घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया ॥ ६४ ॥ ▼ Permalink Bookmark उपतप्यमानमलघूष्णिभिः श्वसितैः सितेतरसरोजदृशः ।द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः ॥ ६५ ॥ ▼ Permalink Bookmark दधति स्फुटं रत्पतेरिषवः शिततां यदुत्पलपलाशदृशः ।हृदयं निरन्तरबृहत्कठिनस्तनमणडलावरणमप्यभिदन् ॥ ६६ ॥ ▼ Permalink Bookmark कुसुमादपि स्मितदृशः सुतरां सुकुमारमङ्गमिति नापरथा ।अनिशं निजैरकरुणः करुणं कुसुमेषुरुत्तपाति यद्विशिखैः ॥ ६७ ॥ ▼ Permalink Bookmark विषतां निषेवितमपक्रियया समुपैति सर्वमिति सत्यमदः ।अमृतुतस्रुऽपि विरहाद्भवतो यदमूं दहन्ति हिमरश्मिरुचः ॥ ६८ ॥ ▼ Permalink Bookmark उदितं प्रियां प्रति सहार्दमिति श्रदधीयत प्रियतमेन वचः ।विदितेङ्गिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः ॥ ६९ ॥ ▼ Permalink Bookmark दयिताहृतस्य युवभिर्मनसः परिमूढतामिव गतैः प्रथमम् ।उदिते ततः सपदि लब्धपदैः क्षणदाकरे ऽनुपदिभिः प्रयये ॥ ७० ॥ ▼ Permalink Bookmark निपपात सम्भ्रमभृतः श्रवणादसितभ्रुवः प्रणदितासिकुलम् ।दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम् ॥ ७१ ॥ ▼ Permalink Bookmark उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलितां ।रभसोत्थितामुपगतः सहसा परिरभ्य कञ्चन वधूमरुधत् ॥ ७२ ॥ ▼ Permalink Bookmark अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता ।मुकुरेण वेपथुभृतो ऽतिभरात् कथमप्यपाति न वधूकरतः ॥ ७३ ॥ ▼ Permalink Bookmark अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता ।दयितेन तत्क्षणचलद्रशनाकलकिङ्किणीरवमुदासि वधूः ॥ ७४ ॥ ▼ Permalink Bookmark कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया ।क्षणदृष्टहाटकशिलासदृशस्फुरदूरुभित्ति वसनं ववसे ॥ ७५ ॥ ▼ Permalink Bookmark पिदधानमन्वगुपगम्य दृशौ ब्रुवते जनाय वद को ऽयमिति ।अभिधातुमध्यवससौ न गिरा पुलकैः प्रियं नववधून्यगदत् ॥ ७६ ॥ ▼ Permalink Bookmark उदितोरुसादमतिवेपथुमत्सुदृशो ऽभिभर्तृ विधुरं त्रपया ।वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि वाढमभूत् ॥ ७७ ॥ ▼ Permalink Bookmark पिमन्धराभिरलघूरुभरादधिवेश्म पत्युरुपचारविधौ ।स्खलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिमगमन्गतिभिः ॥ ७८ ॥ ▼ Permalink Bookmark मधुरान्नतभ्रू ललितं च दृशोः सकरप्रयोगचतुरं च वचः ।प्रकृति स्थमेव निपुणागमितं स्फुचनृत्तलीलमभवत्सुतनोः ॥ ७९ ॥ ▼ Permalink Bookmark तदयुक्तमङ्ग तव विश्वसृजा न कृतं यदीक्षणसहस्रतयम् ।प्रकटीकृता जगति येन खलु स्फुटमिन्द्रताद्य मयि गोत्रभिदा ॥ ८० ॥ ▼ Permalink Bookmark न विभावयत्यनिशमक्षिगतामपि मां भवानतिसमीपतया ।हृदयस्थितामपि पुनः परितः कथमीक्षते बहिरभीष्टतामाम् ॥ ८१ ॥ ▼ Permalink Bookmark इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसद्वदनाम् ।स्वकरावलम्बनविमुक्तगलत्कलकाञञ्चि काञ्चिदरुणत्तरुणः ॥ ८२ ॥ ▼ Permalink Bookmark अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुषे मृगाक्ष्या ।कलयन्नपि सव्यथो ऽवतस्थे ऽशकुनेन स्खलितः किलेतरो ऽपि ॥ ८३ ॥ ▼ Permalink Bookmark आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नामितमुखेन्दु मानवत्या ।तन्नूनं पदमवलोकयांबभूवे मानस्य द्रुतमपयानमास्थितस्य ॥ ८४ ॥ ▼ Permalink Bookmark सुदृशः सरसव्यलीक तप्तस्तरसास्लष्टवतः सयौवनोष्मा ।कथमप्यभवत्स्मरानलोष्मणः स्तनभारो न नखंपचः प्रियस्य ॥ ८५ ॥ ▼ Permalink Bookmark दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलम् ।बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न ॥ ८६ ॥ ▼ Permalink Bookmark इत्थं नारीर्घटयितुमलं कामिभिः काममासन् प्रालेयांशोः सपदि रुचयः शान्तमानान्तरायाः ।आचार्यत्वं रतिषु विलसन्मन्मथश्रीविलासा ह्रीप्रत्यूहप्रशमकुशलाः शीधवश्चक्रुरासाम् ॥ ८७ ॥ ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha