१९ शिशुपालवधम् This text does not support clickable word meanings. अथोत्तस्थे रणाटव्यामसुहृद्वेणुदारिणा ।नृपाङ्घ्रिपौघसंघर्षादग्निवद्वेणुदारिणा ॥ १ ॥ आपतन्तममुन्दूरादूरीकृतपराक्रमः ।बलो ऽवलोकयामास मातङ्गमिव केसरी ॥ २ ॥ जजौजोजाजिजिज्जाजी तं ततो ऽतिततातितुत् ।भाभो ऽभीभाभिभूभारारारिररिरीररः ॥ ३ ॥ भवन्भवाय लोकानामाकम्पितमहीतलः ।निर्घात इव निर्घोषभीमस्तस्यापतद्रथः ॥ ४ ॥ रामे रिपुः शरानाजिमहेष्वास विचक्षणे ।कोपादथैनं शितमा महेष्वा स विचक्षणे ॥ ५ ॥ दिशमर्कमिवावाचीम् मूर्च्छागतमपाहरत् ।मन्दप्रतापं तं सूतः शीघ्रमाजिविहायसः ॥ ६ ॥ कृत्वा शिनेः शाल्वचमूं सप्रभावा चमूर्जिताम् ।ससर्ज वक्त्रैः फुल्लाब्जसप्रभा वाचमूर्जिताम् ॥ ७ ॥ उल्मुकेन द्रुमं प्राप्य संकुचत्पत्रसंपदम् ।तेजः प्रकिरता दिक्षु सप्रतापमदीप्यत ॥ ८ ॥ पृथोरध्यक्षिपधृद्रुक्मी यया चापमुदायुधः ।तयैव वाचापगमं ययाचापमुदायुधः ॥ ९ ॥ समं समन्ततो राज्ञामापतन्तीरनीकिनीः ।कार्ष्णिः प्रत्यग्रहीदेकः सारस्वानिव निम्नगाः ॥ १० ॥ दधानैर्घनसादृश्यं लसदायसदंशनैः ।तत्र काञ्चनसच्छाया ससृजे तैः शराशनिः ॥ ११ ॥ नखांशुमञ्जरीकीर्णमसौतरुरिवोच्चकैः ।बभौ विभ्रमद्धनुःशाखामधिरूढशिलीमुखाम् ॥ १२ ॥ प्रप्य भीममसौ जन्यं सौजन्यं दधदानते ।विध्यन्मुमोच न रिपूनरिपूगान्तकः शरैः ॥ १३ ॥ कृतस्य सर्वक्षितिपैर्विजयाशंसया पुरः ।अनेकस्य चकारासौ बाणैर्बाणस्य खण्डनम् ॥ १४ ॥ याबभार कृतानेकमाया सेना ससारताम् ।धनुः स कर्षन्रहितमायासेनाससार ताम् ॥ १५ ॥ ओजो महौजाः कृत्वाधस्तत्क्षणादुत्तमौजसः ।कुर्वन्नाजावमुख्यत्वमनमन्नाम मुख्यताम् ॥ १६ ॥ दूरादेव चमूर्भल्लैः कुमारो हन्ति स स्म याः ।न पुनः सांयुगीं ताः स्म कुमारो हन्ति सस्मयाः ॥ १७ ॥ निपीड्य तरसा तेन मुक्ताः काममनास्थया ।उपाययुर्विलक्षत्वं विद्विषो न शिलीमुखाः ॥ १८ ॥ तस्यावदानैः समरे सहसा रोमहर्षिभिः ।सुरैरशंसि व्योमस्थैः सह सारो महर्षिभिः ॥ १९ ॥ सुगन्धयद्दिशः शुभ्रमम्लानि कुसुमं दिवः ।भूरि तत्रापतत्तस्मादुत्पपात दिवं यशः ॥ २० ॥ सोढुं तस्य द्विषो नालमवयोधरवा रणम् ।ऊर्णुनाव यशश्च द्यामपयोधरवारणम् ॥ २१ ॥ केशप्रचुरलोकस्य पर्यस्कारि विकासिना ।शेखरेणेव युद्धस्य शिरः कुसुमलक्ष्मणा ॥ २२ ॥ सादरं युद्धमानापि तेनान्यनरसादरम् ।सा दरं पृतना निन्ये हीयमाना रसादरम् ॥ २३ ॥ इत्यालिङ्गतामालोक्य जयलक्ष्म्या झषध्वजम् ।क्रुद्धयेव क्रुधा सद्यः प्रपेदे चेदिभूपतिः ॥ २४ ॥ अहितानभि वाहिन्या स मानी चतुरङ्गया ।चचाल वल्ल्गत्कलभसमानीचतुरङ्गया ॥ २५ ॥ ततस्ततधनुर्मौर्वीविस्फारस्फारिनिःस्वनैः ।तूर्यैर्युगक्षये क्षुभ्यदकूपारानुकारिणी ॥ २६ ॥ सकारनानारकास कायसाददसायका ।रसाहवावाहसार नादवाददवादना ॥ २७ ॥ लोलासिकालियकुला यमस्यैव स्वसा स्वयम् ।चिकीर्षुरुल्लसल्लोहवर्मश्यामा सहायताम् ॥ २८ ॥ सासेनागमनारम्भे रसेनासीदनारता ।तारनादजनामत्त धीरनागमनामया ॥ २९ ॥ धूतधौतासयः प्रष्ठाः प्रतिष्ठन्तक्षमाभृताम् ।शौर्यनुरागनिकषः सा हि वेलानुजीविनाम् ॥ ३० ॥ दिवमिन्युधा गन्तुं कोमलामलसम्पदम् ।दधौ दधानो ऽसिलतां को ऽमलामलसम्पदम् ॥ ३१ ॥ कृतोरुवेगं युगपद्व्यजिगीषन्त सैनिकाः ।विपक्षं बाहुपरिघैर्जङ्घाभिरितरेतरम् ॥ ३२ ॥ वाहनाजनि मानासे साराजावनमा ततः ।मत्तसारगराजेभे भारीहावज्जनध्वनि ॥ ३३ ॥ निध्वनज्जवहारीभा भेजे रागरसात्तमः ।ततमानवजारासा सेना मानिजनाहवा ॥ ३४ ॥ अभग्नवृत्ताः प्रसभादाकृष्टा यौवनोद्धतैः ।चक्रन्दुरुच्चकैर्मुष्टिग्राह्यमध्या धनुर्लताः ॥ ३५ ॥ करेणुः प्रम्थितो ऽनेको रेणुर्घण्टाः सहस्रशः ।करेणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ ॥ ३६ ॥ धृतप्रत्यग्रशृङ्गाररसरागरपि द्विपैः ।सरोषसम्भ्रमैर्बर्भ्रे रौद्र एव रणे रसः ॥ ३७ ॥ न तस्थौ भर्तृतः प्राप्तमानसम्प्रतिपत्तिषु ।रणैकसर्गेषु भयं मानसं प्रति पत्तिषु ॥ ३८ ॥ बाणाहितपूर्णतूणीरकोटरैर्धन्विशाखिभिः ।गोधाश्लिष्टभुजाशाखैरभूद्भीमा रणाटवी ॥ ३९ ॥ नानाजाववजानाना सा जनौघघनौजसा ।परानिहऽहानिराप तान्वियाततयान्विता ॥ ४० ॥ विषमं सर्वतोभद्रचक्रगोमूत्रिकादिभिः ।श्लोकैरिवमहाकाव्यं व्यूहैस्तदभवद्बलम् ॥ ४१ ॥ संहत्या सात्वतां चैद्यं प्रति भास्वरसेनया ।ववले योद्धुमुत्पन्नप्रतिमा स्वरसेन या ॥ ४२ ॥ विस्तीर्णमायामवती लोललोकनिरन्तरा ।नरेन्द्रमार्गं रथ्येव पपात द्विषतां बलम् ॥ ४३ ॥ वारणागगभीरा सा साराभीगगणारवा ।कारितारिवधा सेना नासेधा वारितारिका ॥ ४४ ॥ अधिनागं प्रजविनो विकसत्पिच्छचारवः ।पेतुर्बर्हिणदेशीयाः शङ्कवः प्राणहारिणः ॥ ४५ ॥ प्रवृत्तेविकसद्ध्वानंसाधनेप्यविषादिभिः ।ववृषेविकसद्दानंयुधमाप्यविषाणिभिः ॥ ४६ ॥ पुरः प्रयुक्तैर्युद्धं तच्चलितैर्लब्धशुद्धिभिः ।आलापैरिव गान्धर्वमदीप्यत पदातिभिः ॥ ४७ ॥ केनचित्स्वासिनान्येषां मण्डलाग्रानवद्यता ।प्रापे कीर्तिप्लुतमहीमण्डलाग्रानवद्यत ॥ ४८ ॥ विहन्तुं विद्विषस्तीक्ष्णः सममेव सुसंहतेः ।परिवारात्पृथक्चक्रे खड्गश्चात्मा च केनचित् ॥ ४९ ॥ अन्येन विदधे ऽरीणामतिमात्रा विलासिना ।उद्गूर्णेन चमूस्तूर्णमतिमात्राविलासिना ॥ ५० ॥ सहस्रपूरणः कश्चिल्लूनमूर्धासिना द्विषः ।तथोर्ध्व एव काबन्धीमभजन्नर्तनक्रियाम् ॥ ५१ ॥ शस्त्रव्रणमयश्रीमदलङ्करणभूषषितः ।ददृशे ऽन्यो रावणवदलङ्करणभूषितः ॥ ५२ ॥ द्विषद्विशसनच्छेदनिरस्तोरुयुगो ऽपरः ।सिक्तश्चास्त्रैरुभयथा बभूवारुणविग्रहः ॥ ५३ ॥ भीमतामपरो ऽम्भोधिसमे ऽधित महाहवे ।दाक्षे कोपः शिवस्येव समेधितमहा हवे ॥ ५४ ॥ दन्तौश्चिच्छिदिरे कोपात्प्रतिपक्षं गजा इव ।परनिस्त्रिंशनिर्लूनकरवालाः पदातयः ॥ ५५ ॥ रणे रभसनिर्भिन्नद्विपपाटविकासिनि ।न तत्र गतभीः कश्चिद्विपपाट विकासिनि ॥ ५६ ॥ यावन्न सत्कृतैर्भर्तुः स्नेहस्यानृण्यमिच्छुभिः ।अमर्षादितरैस्तावत्तत्यजे युधि जीवितम् ॥ ५७ ॥ अयशोभिदुरालोके कोपधामरणादृते ।अयशोभिदुरा लोके कोपधा मरणादृते ॥ ५८ ॥ स्खलन्ती नक्वचित्तैक्ष्णादभ्यग्रफलशालिनी ।अमोचि शक्तिः शक्तिकैर्लोहजा न शरीरजा ॥ ५९ ॥ अपादि व्यापृतनयांस्तथा युयुधिरे नृपाः ।आप दिव्या पृतनया विस्मयं जनता यथा ॥ ६० ॥ स्वगुणैराफलप्राप्तेराकृष्य गणिका इव ।कामुकानिव नालीकांस्त्रिणन्ताः सहसामुचन् ॥ ६१ ॥ वाजिनः शत्रुसैन्यस्य समारब्धनवाजिनः ।वाजिनश्च शरा मध्यमविशन्द्रुतवाजिनः ॥ ६२ ॥ पुरस्कृत्य फलं प्राप्तैः सत्पक्षाश्रययशालिभिः ।कृतपुङ्खतया लेभे लक्षमप्याशु मार्गणैः ॥ ६३ ॥ रक्तश्रुतिं जपासूनसमरागामिषुव्यधात् ।कश्चित्पुरः सपत्नेषु समरागमिषुव्यधात् ॥ ६४ ॥ रयेण रणकाम्यन्तौ दूरादुपगतविभौ ।गतासुरन्तरा दन्ती वरण्डक इवाभवत् ॥ ६५ ॥ भूरिभिर्भारिभिर्भीरैर्भूभारैरभिरेभिरे ।भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः ॥ ६६ ॥ निशितासिलतालूनैस्तथा हस्तैर्न हस्तिनः ।युध्यमाना यथा दन्तैर्भग्नैरापुर्विहस्ततां ॥ ६७ ॥ निपीडनादिव मिथो दानतोयनारतम् ।वपुषामदयापातादिभानामभितो ऽगलत् ॥ ६८ ॥ रणाङ्गणं सर इव प्लावितं मदवारिभिः ।गजः पृथुकराकृष्टशतपत्रमलोडयत् ॥ ६९ ॥ शरक्षते गजे भृङ्गैः सविषादिविषादिनि ।रुतव्याजेन रुदितं तत्रासीदतिसीदति ॥ ७० ॥ अन्तकस्य पृथौ तत्र शयनीय इवाहवे ।दशनव्यसनादीयुर्मत्कुणत्वं मतङ्गजाः ॥ ७१ ॥ अभीकमतिकेनेद्धे भीतानन्दस्यनाशने ।कनत्सकामसेनाके मन्दकामकमस्यति ॥ ७२ ॥ दधतो ऽपि रणे भीममभीक्ष्णं भावमासुरम् ।हताः परैरभिमुखाः सुरभूयमुपाययुः ॥ ७३ ॥ येनाङ्गमूहे व्रणवत्सरुचा परतो ऽमरैः ।समत्वं स ययौ खड्गत्सरुचापरतो ऽमरैः ॥ ७४ ॥ निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलम् ।पाणिनीयमिवावलोकि धीरैस्तत्समराजिरम् ॥ ७५ ॥ अभावि सिन्ध्वा सन्ध्याभ्रसदृग्रुधिरतोयया ।हृते योद्धुं जनः पांशौ स दृग्रुधि रतो यथा ॥ ७६ ॥ विदलत्पुष्कराकीर्णाः पतच्छङ्खकुलाकुलाः ।तरत्पत्ररथा नद्यः प्रासर्पन्रक्तवारिजाः ॥ ७७ ॥ असृग्जनो ऽस्त्रक्षतिमानवमज्जवसादनम् ।रक्षःपिशाचं मुमुदे नवमज्जवसादनम् ॥ ७८ ॥ चित्रं चापैरपेतज्यैः स्फुरद्रक्तशतहृदम् ।पयोदजालमिव तद्वीराशंसनमाबभौ ॥ ७९ ॥ बन्धौ विपन्ने ऽनेकेन नरेणेह तदन्तिके ।अशोचि सैन्ये घण्टाभिर्न रेणे हतदन्तिके ॥ ८० ॥ कृत्तैः कीर्णा मही रेजे दन्तैर्गात्रैश्च दन्तिनाम् ।क्षुण्णलोकासुभिर्मृत्योर्मुसलोलूखलैरिव ॥ ८१ ॥ युद्धमित्थं विधूतान्यमानवानभियो गतः ।चैद्यः परान्पराजिग्ये मानवानभियोगतः ॥ ८२ ॥ अथ वक्षोमणिच्छायाच्छुरितापीतवाससा ।स्फुरदिन्द्रधनुर्भिन्नतडितेव तडित्त्वता ॥ ८३ ॥ नीलेनानालनलिननिलीनोल्ललनालिना ।ललनालालनेनालं लीलालोलेन लालिना ॥ ८४ ॥ अपूर्वयेव तत्कालसमागमसकामया ।दृष्टेन राजन्वपुषा कटाक्षैर्विजयश्रिया ॥ ८५ ॥ विभावी विभवी भाभो विभाभावी विवो विभीः ।भवाभिभावी भावावो भवाभावो भुवो विभुः ॥ ८६ ॥ उपैतुकामैस्तत्पारं निश्चितैर्योगिभिः परैः ।देहत्यागकृतोद्योगैरदृश्यत परः पुमान् ॥ ८७ ॥ तं श्रिया घनयानस्तरुचा सारतया तया ।यातया तरसा चारुस्तनयानघया श्रितम् ॥ ८८ ॥ विद्विषो ऽद्विषुरुद्वीक्ष्य तथाप्यासन्निरेनसः ।अरुच्यमपि रोगघ्नं निसर्गादेव भेषजम् ॥ ८९ ॥ विदितं दिवि के ऽनीके तं यातं निजिताजिनि ।विगदं गवि रोद्धारो योद्धा यो नतिमेति नः ॥ ९० ॥ नियुज्यमानेन पुरः कर्मण्यतिगरीयसि ।आरोप्यमाणोरुगुणं भर्त्रा कार्मुकमानमत् ॥ ९१ ॥ तत्र बाणाः सुपरुषः समधीयन्त चारवः ।द्विषामभूत्सुपरुषस्तस्याकृष्टस्य चारवः ॥ ९२ ॥ पश्चात्कृतानामप्यस्य नराणामिव पत्रिणाम् ।योयो गुणेन संयुक्तः स स कर्णान्तमाययौ ॥ ९३ ॥ प्रपे रूपी पुरारेपाः परिपूरी परः परैः ।रोपैरपारैरुपरि पुपूरे ऽपि पुरो ऽपरैः ॥ ९४ ॥ दिङ्मुखव्यापिनस्तीक्ष्णान्ह्रदिनो मर्मभेदिनः ।चिक्षेपैकक्षणेनैव सायकानहितांश्च सः ॥ ९५ ॥ शरवर्षी महानादः स्फुरत्कार्मुककेतनः ।नीलच्छविरसौ रेजे केशवच्छलनीरदः ॥ ९६ ॥ न केवलं जनैस्तस्य लघुसंधायिनो धनुः ।मण्डलीकृतमोकान्ताद्बलमैक्षि द्विषामपि ॥ ९७ ॥ लोकालोकी कलो ऽकल्ककलिलो ऽलिकुलालकः ।कालो ऽकलो ऽकलिः काले कोलकेलिकिलः किल ॥ ९८ ॥ अक्षितारासु विव्याध द्विषतः स तनुत्रिणः ।दानेषु स्थूललक्ष्यत्वं न हि तस्य शरासने ॥ ९९ ॥ वररो ऽविवरो वैरिविवारी वारिरारवः ।विववार वरो वैरं वीरो रविरिवौर्वरः ॥ १०० ॥ मुक्तानेकशरं प्रणानहरद्भूयसां द्विषां ।तदीयं धनुरन्यस्य न हि सेहे सजीवताम् ॥ १०१ ॥ राजराजी रुरोजाजेरजिरे ऽजो ऽजरो ऽरजाः ।रेजारिजूरजोर्जार्जी रराजर्जुरजर्जरः ॥ १०२ ॥ उद्धतान्द्विषतस्तस्य निध्नतो द्वितयं ययुः ।पानार्थे रुधिरं धातौ रक्षार्थे भुवनं शराः ॥ १०३ ॥ क्रूरारिकारि कीरेककारकः कारिकाकरः ।कोरकाकारकरकः करीरः कर्करोर्ऽकरुक् ॥ १०४ ॥ विधातुमवतीर्णो ऽपि लघिमानमसौ भुवः ।अनेकमरिसंघातमकरोद्भूमिवर्धनम् ॥ १०५ ॥ दारी दरदरिद्रो ऽरिदारूदारो ऽद्रिदूरदः ।दूरादरौद्राददरद्रोदोरुद्दारुरादरी ॥ १०६ ॥ एकेषुणा सङ्घतिथान्द्विषो भिन्दन्द्रुमानिव ।स जन्मान्तररामस्य चक्रे सदृशमात्मनः ॥ १०७ ॥ शूरः शौरिरशिशिरैराशाशैराशु राशिशः ।शरारुः श्रीशरीरेशः शुशूरे ऽरिशिरः शरैः ॥ १०८ ॥ व्क्तासीदरितारिणां यत्तदीयास्तदा मुहुः ।मनोहृतो ऽपि हृदये लेगुरेषां न पत्रिणः ॥ १०९ ॥ नामाक्षराणां मलना मा भूद्भर्तुरतः स्फुटम् ।अगृह्णत पराङ्गनामसूनस्रं न मार्गणाः ॥ ११० ॥ आच्छिद्य योधसार्थस्य प्राणसर्वस्वमाशुगाः ।ऐकागारिकवद्भूमौ दूराज्जग्मुरदर्शनम् ॥ १११ ॥ भीमास्त्रराजिनस्तस्य बलस्य ध्वजराजिनः ।कृतघोराजिनश्चक्रे भुवः सरुधिरा जिनः ॥ ११२ ॥ मांसव्यधोचितमुखैः शून्यतां दधदक्रियम् ।शकुन्तिभिः शत्रुबलं व्यापि तस्येषुभिर्नभः ॥ ११३ ॥ दाददो दद्ददुद्दादी दादादो दूददीददोः ।दुद्दादं दददे दुद्दे ददाददददो ऽददः ॥ ११४ ॥ प्लुतेभकुम्भोरसिजैर्हृदयक्षतिजन्मभिः ।प्रावर्तयन्नदीरस्रैर्द्विषां तद्योषितां च सः ॥ ११५ ॥ सदामदबलप्रायः समुद्धृरसो बभौ ।प्रतीतविक्रमः श्रीमन्हारिर्हरिरिवापरः ॥ ११६ ॥ द्विधा त्रिधा चतुर्धा च तमेकमपि शत्रवः ।पश्यन्तः स्पर्धया सद्यः स्वयं पञ्चत्वमाययुः ॥ ११७ ॥ सदैव संपन्नवपू रणेषु स दैवसंपन्नवपूरणेषु ।महो दधे ऽस्तारि महानितान्तं महोदधेस्तारिमहा नितान्तम् ॥ ११८ ॥ इष्टं कृत्वार्थं पत्रिणः शार्ङ्गपाणेर् एत्याधोमुख्यं प्रविशन्भूमिमाशु ।शुद्धया युक्तानां वैरिवर्गस्य मध्ये भर्त्रा क्षिप्तानामेतदेवानुरूपम् ॥ ११९ ॥ सत्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिर्मुदा ।मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरेर् एकौघैः समकालमभ्रमुदयी रोपैस्तदा तस्तरे ॥ १२० ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha