पाणौ कपालम् अवधाय विधाय मौण्ड्यं मान निधाय विकृतं परिधाय वासः ।यस्योयोद्धवो न धृतिर् अस्ति न शान्ति अस्ति चित्रप्रदीप इव सोऽस्ति च नास्ति चैव ॥ ४८ ॥
यो निःसृतश् च न च निःसृतकामरागः काषायम् उद्वहति यो न च निष्कसायः ।पात्रं बिभर्ति च गुणैर् न च पात्रभूतो किङ्गं वहन्न् अपि स नैव गृही न भिक्षुः ॥ ४९ ॥
न न्याय्यम् अन्वयवतः परिगृह्य लिङ्गं भूयो विमोक्तुम् इति योऽपि हि मे विचारः ।सोऽपि प्रणश्यति विचिन्त्य नृपप्रवीरांस् तान् ये तपोवनं अपास्य गृहाण्य् अतीयुः ॥ ५० ॥
शाल्वाधिपो हि ससुतोऽपि तथाम्बरीषो रामोऽन्ध्व एव स च सांकृतिर् अन्तिदेवः ।चीराण्य् अपास्य दधिरे पुनर् अंशुकानि छित्त्वा जटाष् च कुटिला मुकुटानि बभ्रुः ॥ ५१ ॥