व्याकुलं दर्शनं यस्य दुर्बलो यस्य निश्चयः ।तस्य पारिप्लवा श्रद्धा न हि कृताय वर्तते ॥ ४२ ॥
यावत् तत्त्वं न भवति हि दृष्टं श्रुतं वा तावच् छ्रद्धा न भवति बलस्था स्थिरा वा ।दृष्टे तत्त्वे नियमपरिभूतेन्द्रियस्य श्रद्धावृक्षो भवति सफलश् चाश्रयास् च ॥ ४३ ॥
सौन्दरनन्दे महाकाव्ये पर्यवमर्शो नाम द्वादशः सर्गः ।