द्वितीयः खण्डः

स होवाच भगवान् ब्रह्मा नारायणः परवस्तु भवतीति विज्ञायते ।
सच्चिदानन्दरुपाय ज्ञानायामिततेजसे ।परब्रह्मस्वरूपाय नारायण नमोऽस्तु ते ॥
नित्यशुद्धाय बुद्धाय नित्यायाद्वैतरूपिणे ।आनन्दायात्मरूपाय नारायण नमोऽस्तु ते ॥
ओं नमो भगवते श्रीमन्नारायणाय महाविष्णवे अमितबलपराक्रमाय शङ्खचक्रगदाधराय लक्ष्मीसमेताय गरुडवाहनाय दशावताराय सर्वदुष्टदैत्यदानवसंहरणाय शिष्टप्रतिपालकाय परब्रह्मरूपाय महात्मने परमपुरुषाय पुण्डरीकाक्षाय पुराणपुरुषाय शुद्धबुद्धाय सच्चिदानन्दस्वरूपाय महात्मने घृणिः सूर्य आदित्य ॐ नमो नारायणाय सहस्रार हुं फट् स्वाहा ॥
नारायणाय शान्ताय शाश्वताय मुरारये ।यज्ञेश्वराय यज्ञाय शरण्याय नमो नमः ॥
स होवाच भगवान् ब्रह्मा सर्वं विश्वमिदं नारायणः य एवं वेद । इत्युपनिषत् ॥
इत्याथर्वणरहस्ये नारायणोत्तरतापिनीये द्वितीयः खण्डः

Settings