प्रथमः खण्डः

स होवाच भगवान् ब्रह्मा आनन्दं ब्रह्मणो विद्वान् सच्चिदानन्दस्वरूपो भवति ।
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।तयोरन्य: पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥
यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ।
अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः ।तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥
वासनाद्वासुदेवस्य वासितं हि जगत्त्रयम् ।सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥
भूश्च नारायण: । भुवश्च नारायणः । सुवश्च नारायण: । महश्व नारायणः । जनश्च नारायणः । तपश्च नारायणः । सत्यं च नारायणः । नारायणः परं ब्रह्म । नारायण एवेदं सर्वम् । नारायणान्न किञ्चिदस्ति । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः । अमेरापः । अद्भयः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । नारायणः सर्वपुरुष एवेदं परब्रह्म । नारायणः सर्वभूतान्तर्याम्यात्मा । आत्मेदं सर्वं नारायणः । नारायणः स्वयं ज्योतिः । तस्मात्प्रकाशात्मा ।
नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ।तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः ॥
पाशबद्धः स्मृतो जीवः पाशमुक्तः सनातनः ।तुषेण बद्धो व्रीहिः स्यात्तुषाभावेन तण्डुलः ॥
परब्रह्म स्वयं चात्मा साक्षान्नारायणः स्मृतः ।नारायणमनादिं च योगनिद्रापरायणम् ॥
जाग्रत्स्वप्नसुषुप्तीषु सर्वकालव्यवस्थितम् ।नारायणं महात्मानं महाध्यानपरायणम् ।सर्ववेदान्तसंलक्ष्यं तद्ब्रह्मेत्यभिधीयते ॥
स होवाच भगवान् नारायण एवेदं सर्वं प्रतिष्ठितं य एवं वेद ।इत्युपनिषत् ॥
इत्याथर्वणरहस्ये नारायणोत्तरतापिनीये प्रथमः खण्डः

Settings