९ बोधिचर्यावतारः Click on words to see what they mean. इमं परिकरं सर्वं प्रज्ञार्थं हि मुनिर्जगौ तस्मादुत्पादयेत् प्रज्ञां दुःखनिवृत्तिकाङ्क्षया ॥ संवृतिः परमार्थश्च सत्यद्वयमिदं मतं बुद्धेरगोचरस्तत्त्वं बुद्धिः संवृतिरुच्यते ॥ तत्र लोको द्विधा दृष्टो योगी प्राकृतकस्तथा तत्र प्राकृतको लोको योगिलोकेन बाध्यते ॥ बाध्यन्ते धीविशेषेण योगिनो ऽप्युत्तरोत्तरैः दृष्टान्तेनोभयेष्टेन कार्यार्थमविचारतः ॥ लोकेन भावा दृश्यन्ते कल्प्यन्ते चापि तत्त्वतः न तु मायावदित्यत्र विवादो योगिलोकयोः ॥ प्रत्यक्षमपि रूपादि प्रसिद्ध्या न प्रमाणतः अशुच्यादिषु शुच्यादिप्रसिद्धिरिव सा मृषा ॥ लोकावतारणार्थं च भावा नाथेन देशिताः तत्त्वतः क्षणिका नैते संवृत्या चेद्विरुध्यते ॥ न दोषो योगिसंवृत्या लोकात्ते तत्त्वदर्शिनः अन्यथा लोकबाधा स्याद् अशुचिस्त्रीनिरूपणे ॥ मायोपमाज्जिनात् पुण्यं सद्भावे ऽपि कथं यथा यदि मायोपमः सत्त्वः किं पुनर्जायते मृतः ॥ यावत्प्रत्ययसामग्री तावन्मायापि वर्तते दीर्घसंतानमात्रेण कथं सत्त्वो ऽस्ति सत्यतः ॥ मायापुरुषघातादौ चित्ताभावान्न पापकं चित्तमायासमेते तु पापपुण्यसमुद्भवः ॥ मन्त्रादीनामसामर्थ्यान् न मायाचित्तसंभवः सापि नानाविधा माया नानाप्रत्ययसंभवा ॥ नैकस्य सर्वसामर्थ्यं प्रत्ययस्यास्ति कुत्रचित् निर्वृतः परमार्थेन संवृत्या यदि संसरेत् ॥ बुद्धो ऽपि संसरेदेवं ततः किं बोधिचर्यया प्रत्ययानामनुच्छेदे मायाप्युच्छिद्यते न हि ॥ प्रत्ययानां तु विच्छेदात् संवृत्यापि न संभवः यदा न भ्रान्तिरप्यस्ति माया केनोपलभ्यते ॥ यदा मायैव ते नास्ति तदा किमुपलभ्यते चित्तस्यैव स आकारो यद्यप्यन्यो ऽस्ति तत्त्वतः ॥ चित्तमेव यदा माया तदा किं केन दृश्यते उक्तं च लोकनाथेन चित्तं चित्तं न पश्यति ॥ न च्छिनत्ति यथात्मानम् असिधारा तथा मनः आत्मभावं यथा दीपः संप्रकाशयतीति चेत् ॥ नैव प्रकाश्यते दीपो यस्मान्न तमसावृतः न हि स्फटिकवन्नीलं नीलत्वे ऽन्यमपेक्षते ॥ तथा किंचित् परापेक्षम् अनपेक्षं च दृश्यते अनीलत्वे न तन्नीलं कुर्यादात्मानमात्मना ॥ नीलमेव हि को नीलं कुर्यादात्मानमात्मना अनीलत्वे न तन्नीलं कुर्यादात्मानमात्मना ॥ दीपः प्रकाशत इति ज्ञात्वा ज्ञानेन कथ्यते बुद्धिः प्रकाशत इति ज्ञात्वेदं केन कथ्यते ॥ प्रकाशा वाप्रकाशा वा यदा दृष्टा न केनचित् वन्ध्यादुहितृलीलेव कथ्यमानापि सा मुधा ॥ यदि नास्ति स्वसंवित्तिर् विज्ञानं स्मर्यते कथम् अन्यानुभूते संबन्धात् स्मृतिराखुविषं यथा ॥ प्रत्ययान्तरयुक्तस्य दर्शनात् स्वं प्रकाशते सिद्धाञ्जनविधेर्दृष्टो घटो नैवाञ्जनं भवेत् ॥ यथा दृष्टं श्रुतं ज्ञातं नैवेह प्रतिषिध्यते सत्यतः कल्पना त्वत्र दुःखहेतुर्निवार्यते ॥ चित्तादन्या न माया चेन् नाप्यनन्येति कल्प्यते वस्तु चेत् सा कथं नान्यान् अन्या चेन्नास्ति वस्तुतः ॥ असत्यपि यथा माया दृश्या द्रष्टृ तथा मनः वस्त्वाश्रयश्चेत् संसारः सो ऽन्यथाकाशवद्भवेत् ॥ वस्त्वाश्रयेणाभावस्य क्रियावत्त्वं कथं भवेत् असत्सहायमेकं हि चित्तमापद्यते तव ॥ ग्राह्यमुक्तं यदा चित्तं तदा सर्वे तथागताः एवं च को गुणो लब्धश् चित्तमात्रे ऽपि कल्पिते ॥ मायोपमत्वे ऽपि ज्ञाते कथं क्लेशो निवर्तते यदा मायास्त्रियां रागस् तत्कर्तुरपि जायते ॥ अप्रहीणा हि तत्कर्तुर् ज्ञेयसंक्लेशवासना तद्दृष्टिकाले तस्यातो दुर्बला शून्यवासना ॥ शून्यतावासनाधानाद् धीयते भाववासना किंचिन्नास्तीति चाभ्यासात् सापि पश्चात् प्रहीयते ॥ यदा न लभ्यते भावो यो नास्तीति प्रकल्प्यते तदा निराश्रयो ऽभावः कथं तिष्ठेन्मतेः पुरः ॥ यदा न भावो नाभावो मतेः संतिष्ठते पुरः तदान्यगत्यभावेन निरालम्बा प्रशाम्यते ॥ चिन्तामणिः कल्पतरुर् यथेच्छापरिपूरणः विनेयप्रणिधानाभ्यां जिनबिम्बं तथेक्ष्यते ॥ यथा गारुडिकः स्तम्भं साधयित्वा विनश्यति स तस्मिंश्चिरनष्टे ऽपि विषादीनुपशामयेत् ॥ बोधिचर्यानुरूप्येण जिनस्तम्भो ऽपि साधितः करोति सर्वकार्याणि बोधिसत्त्वे ऽपि निर्वृते ॥ अचित्तके कृता पूजा कथं फलवती भवेत् तुल्यैव पठ्यते यस्मात् तिष्ठतो निर्वृतस्य च ॥ आगमाच्च फलं तत्र संवृत्या तत्त्वतो ऽपि वा सत्यबुद्धे कृता पूजा सफलेति कथं यथा ॥ सत्यदर्शनतो मुक्तिः शून्यतादर्शनेन किम् न विनानेन मार्गेण बोधिरित्यागमो यतः ॥ नन्वसिद्धं महायानं कथं सिद्धस्त्वदागमः यस्मादुभयसिद्धो ऽसौ न सिद्धो ऽसौ तवादितः ॥ यत्प्रत्यया च तत्रास्था महायाने ऽपि तां कुरु अन्योभयेष्टसत्यत्वे वेदादेरपि सत्यता ॥ सविवादं महायानम् इति चेदागमं त्यज तीर्थिकैः सविवादत्वात् स्वैः परैश्चागमान्तरम् ॥ शासनं भिक्षुतामूलं भिक्षुतैव च दुःखिता सावलम्बनचित्तानां निर्वाणमपि दुःस्थितम् ॥ क्लेशप्रहाणान्मुक्तिश्चेत् तदनन्तरमस्तु सा दृष्टं च तेषु सामर्थ्यं निःक्लेशस्यापि कर्मणः ॥ तृष्णा तावदुपादानं नास्ति चेत् संप्रधार्यते किमक्लिष्टापि तृष्णैषां नास्ति संमोहवत् सती ॥ वेदनाप्रत्यया तृष्णा वेदनैषां च विद्यते सालम्बनेन चित्तेन स्थातव्यं यत्र तत्र वा ॥ विना शून्यतया चित्तं बद्धमुत्पद्यते पुनः यथासंज्ञिसमापत्तौ भावयेत्तेन शून्यताम् ॥ यत्सूत्रे ऽवतरेद्वाक्यं तच्चेद्बुद्धोक्तमिष्यते महायानं भवत्सूत्रैः प्रायस्तुल्यं न किं मतम् ॥ एकेनागम्यमानेन सकलं यदि दोषवत् एकेन सूत्रतुल्येन किं न सर्वं जिनोदितम् ॥ महाकाश्यपमुख्यैश्च यद्वाक्यं नावगाह्यते तत्त्वयानवबुद्धत्वाद् अग्राह्यं कः करिष्यति ॥ सक्तित्रासात्त्वनिर्मुक्त्या संसारे सिध्यति स्थितिः मोहेन दुःखिनामर्थे शून्यताया इदं फलम् ॥ तदेवं शून्यतापक्षे दूषणं नोपपद्यते तस्मान्निर्विचिकित्सेन भावनीयैव शून्यता ॥ क्लेशज्ञेयावृतितमः प्रतिपक्षो हि शून्यता शीघ्रं सर्वज्ञताकामो न भावयति तां कथम् ॥ यद्दुःखजननं वस्तु त्रासस्तस्मात् प्रजायताम् शून्यता दुःखशमनी ततः किं जायते भयम् ॥ यतस्ततो वास्तु भयं यद्यहं नाम किंचन अहमेव न किंचिच्चेद् भयं कस्य भविष्यति ॥ दन्तकेशनखा नाहं नास्थि नाप्यस्मि शोणितम् न शिंघानं न च श्लेष्मा न पूयं लसिकापि वा ॥ नाहं वसा न च स्वेदो न मेदो ऽन्त्राणि नाप्यहम् न चाहमन्त्रनिर्गुण्डी गूथमूत्रमहं न च ॥ नाहं मांसं न च स्नायुर् नोष्मा वायुरहं न च न च छिद्राण्यहं नापि षड्विज्ञानानि सर्वथा ॥ शब्दज्ञानं यदि तदा शब्दो गृह्येत सर्वदा ज्ञेयं विना तु किं वेत्ति येन ज्ञानं निरुच्यते ॥ अजानानं यदि ज्ञानं काष्ठं ज्ञानं प्रसज्यते तेनासंनिहितज्ञेयं ज्ञानं नास्तीति निश्चयः ॥ तदेव रूपं जानाति तदा किं न शृणोत्यपि शब्दस्यासंनिधानाच्चेत् ततस्तज्ज्ञानमप्यसत् ॥ शब्दग्रहणरूपं यत् तद्रूपग्रहणं कथम् एकः पिता च पुत्रश्च कल्प्यते न तु तत्त्वतः ॥ सत्त्वं रजस्तमो वापि न पुत्रो न पिता यतः शब्दग्रहणयुक्तस्तु स्वभावस्तस्य नेक्ष्यते ॥ तदेवान्येन रूपेण नटवत्सो ऽप्यशाश्वतः स एवान्यस्वभावश्चेद् अपूर्वेयं तदेकता ॥ अन्यद्रूपमसत्यं चेन् निजं तद्रूपमुच्यताम् ज्ञानता चेत्ततः सर्वपुंसामैक्यं प्रसज्यते ॥ चेतनाचेतने चैक्यं तयोर्येनास्तिता समा विशेषश्च यदा मिथ्या कः सादृश्याश्रयस्तदा ॥ अचेतनश्च नैवाहम् अचैतन्यात्पटादिवत् अथ ज्ञश्चेतनायोगाद् अज्ञो नष्टः प्रसज्यते ॥ अथाविकृत एवात्मा चैतन्येनास्य किं कृतम् अज्ञस्य निष्क्रियस्यैवम् आकाशस्यात्मता मता ॥ न कर्मफलसंबन्धो युक्तश्चेदात्मना विना कर्म कृत्वा विनष्टे हि फलं कस्य भविष्यति ॥ द्वयोरप्यावयोः सिद्धे भिन्नाधारे क्रियाफले निर्व्यापारश्च तत्रात्मेत्य् अत्र वादो वृथा ननु ॥ हेतुमान् फलयोगीति दृश्यते नैष संभवः संतानस्यैक्यमाश्रित्य कर्ता भोक्तेति देशितम् ॥ अतीतानागतं चित्तं नाहं तद्धि न विद्यते अथोत्पन्नमहं चित्तं नष्टे ऽस्मिन्नास्त्यहं पुनः ॥ यथैव कदलीस्तम्भो न कश्चिद् भागशः कृतः तथाहमप्यसद्भूतो मृग्यमाणो विचारतः ॥ यदि सत्त्वो न विद्येत कस्योपरि कृपेति चेत् कार्यार्थमभ्युपेतेन यो मोहेन प्रकल्पितः ॥ कार्यं कस्य न चेत्सत्त्वः सत्यमीहा तु मोहतः दुःखव्युपशमार्थं तु कार्यमोहो न वार्यते ॥ दुःखहेतुरहंकार आत्ममोहात्तु वर्धते ततो ऽपि न निवर्त्यश्चेत् वरं नैरात्म्यभावना ॥ कायो न पादौ न जङ्घा नोरू कायः कटिर्न च नोदरं नाप्ययं पृष्ठं नोरो बाहू न चापि सः ॥ न हस्तौ नाप्ययं पार्श्वौ न कक्षौ नांसलक्षणः न ग्रीवा न शिरः कायः कायो ऽत्र कतरः पुनः ॥ यदि सर्वेषु कायो ऽथम् एकदेशेन वर्तते अंशा अंशेषु वर्तन्ते स च कुत्र स्वयं स्थितः ॥ सर्वात्मना चेत्सर्वत्र स्थितः कायः करादिषु कायास्तावन्त एव स्युर् यावन्तस्ते करादयः ॥ नैवान्तर्न बहिः कायः कथं कायः करादिषु करादिभ्यः पृथग् नास्ति कथं नु खलु विद्यते ॥ तन्नास्ति कायो मोहात्तु कायबुद्धिः करादिषु संनिवेशविशेषेण स्थानौ पुरुषबुद्धिवत् ॥ यावत्प्रत्ययसामग्री तावत्कायः पुमानिव एवं करादौ सा यावत् तावत्कायो ऽत्र दृश्यते ॥ एवमङ्गुलिपुञ्जत्वात् पादो ऽपि कतरो भवेत् सो ऽपि पर्वसमूहत्वात् पर्वापि स्वांशभेदतः ॥ अंशा अप्यणुभेदेन सो ऽप्यणुर्दिग्विभागतः दिग्विभागो निरंशत्वाद् आकाशं तेन नास्त्यणुः ॥ एवं स्वप्नोपमे रूपे को रज्येत विचारकः कायश्चैवं यदा नास्ति तदा का स्त्री पुमांश्च कः ॥ यद्यस्ति दुःखं तत्त्वेन प्रहृष्टान् किं न बाधते शोकाद्यार्ताय मृष्टादि सुखं चेत्किं न रोचते ॥ बलीयसाभिभूतत्वाद् यदि तन्नानुभूयते वेदनात्वं कथं तस्य यस्य नानुभवात्मता ॥ अस्ति सूक्ष्मतया दुःखं स्थौल्यं तस्य हृतं ननु तुष्टिमात्राऽपरा चेत्स्यात् तस्मात्साप्यस्य सूक्ष्मता ॥ विरुद्धप्रत्ययोत्पत्तौ दुःखस्यानुदयो यदि कल्पनाभिनिवेशो हि वेदनेत्यागतं ननु ॥ अत एव विचारो ऽयं प्रतिपक्षो ऽस्य भाव्यते विकल्पक्षेत्रसंभूतध्यानाहारा हि योगिनः ॥ सान्तराविन्द्रियार्थौ चेत् संसर्गः कुत एतयोः निरन्तरत्वे ऽप्येकत्वं कस्य केनास्तु संगतिः ॥ नाणोरणौ प्रवेशो ऽस्ति निराकाशः समश्च सः अप्रवेशे न मिश्रत्वम् अमिश्रत्वे न संगतिः ॥ निरंशस्य च संसर्गः कथं नामोपपद्यते संसर्गे च निरंशत्वं यदि दृष्टं निदर्शय ॥ विज्ञानस्य त्वमूर्तस्य संसर्गो नैव युज्यते समूहस्याप्यवस्तुत्वाद् यथा पूर्वं विचारितम् ॥ तदेवं स्पर्शनाभावे वेदनासंभवः कुतः किमर्थमयमायासः बाधा कस्य कुतो भवेत् ॥ यदा न वेदकः कश्चिद् वेदना च न विद्यते तदावस्थामिमां दृष्ट्वा तृष्णे किं न विदीर्यसे ॥ दृश्यते स्पृश्यते चापि स्वप्नमायोपमात्मना चित्तेन सहजातत्वाद् वेदना तेन नेक्ष्यते ॥ पूर्वं पश्चाच्च जातेन स्मर्यते नानुभूयते स्वात्मानं नानुभवति न चान्येनानुभूयते ॥ न चास्ति वेदकः कश्चिद् वेदनातो न तत्त्वतः निरात्मके कलापे ऽस्मिन् क एव बाध्यते ऽनया ॥ नेन्द्रियेषु न रूपादौ नान्तराले मनः स्थितम् नाप्यन्तर्न बहिश्चित्तम् अन्यत्रापि न लभ्यते ॥ यन्न काये न चान्यत्र न मिश्रं न पृथक् क्वचित् तन्न किंचिदतः सत्त्वाः प्रकृत्या परिनिर्वृताः ॥ ज्ञेयात्पूर्वं यदि ज्ञानं किमालम्ब्यास्य संभवः ज्ञेयेन सह चेज्ज्ञानं किमालम्ब्यास्य संभवः ॥ अथ ज्ञेयाद्भवेत्पश्चात् तदा ज्ञानं कुतो भवेत् एवं च सर्वधर्माणाम् उत्पत्तिर्नावसीयते ॥ यद्येवं संवृतिर्नास्ति ततः सत्यद्वयं कुतः अथ साप्यन्यसंवृत्या स्यात्सत्त्वो निर्वृतः कुतः ॥ परचित्तविकल्पो ऽसौ स्वसंवृत्या तु नास्ति सः स पश्चान्नियतः सो ऽस्ति न चेन्नास्त्येव संवृतिः ॥ कल्पना कल्पितं चेति द्वयमन्योन्यनिश्रितम् यथाप्रसिद्धमाश्रित्य विचारः सर्व उच्यते ॥ विचारितेन तु यदा विचारेण विचार्यते तदानवस्था तस्यापि विचारस्य विचारणात् ॥ विचारिते विचार्ये तु विचारस्यास्ति नाश्रयः निराश्रयत्वान्नोदेति तच्च निर्वाणमुच्यते ॥ यस्य त्वेतद्द्वयं सत्यं स एवात्यन्तदुःस्थितः यदि ज्ञानवशादर्थो ज्ञानास्तित्वे तु का गतिः ॥ अथ ज्ञेयवशाज्ज्ञानं ज्ञेयास्तित्वे तु का गतिः अथान्योन्यवशात्सत्त्वम् अभावः स्याद्द्वयोरपि ॥ पिता चेन्न विना पुत्रात् कुतः पुत्रस्य संभवः पुत्राभावे पिता नास्ति तथा सत्त्वं तयोर्द्वयोः ॥ अङ्कुरो जायते बीजाद् बीजं तेनैव सूच्यते ज्ञेयाज्ज्ञानेन जातेन तत्सत्ता किं न गम्यते ॥ अङ्कुरादन्यतो ज्ञानाद् बीजमस्तीति गम्यते ज्ञानास्तित्वं कुतो ज्ञातं ज्ञेयं यत्तेन गम्यते ॥ लोकः प्रत्यक्षतस्तावत् सर्वं हेतुमुदीक्षते पद्मनालादिभेदो हि हेतुभेदेन जायते ॥ किंकृतो हेतुभेदश्चेत् पूर्वहेतुप्रभेदतः कस्माच्चेत्फलदो हेतुः पूर्वहेतुप्रभावतः ॥ ईश्वरो जगतो हेतुः वद कस्तावदीश्वरः भूतानि चेद्भवत्वेवं नाममात्रे ऽपि किं श्रमः ॥ अपि त्वनेके ऽनित्याश्च निश्चेष्टा न च देवताः लङ्घ्याश्चाशुचयश्चैव क्ष्मादयो न स ईश्वरः ॥ नाकाशमीशो ऽचेष्टत्वात् नात्मा पूर्वनिषेधतः अचिन्त्यस्य च कर्तृत्वम् अप्यचिन्त्यं किमुच्यते ॥ तेन किं स्रष्टुमिष्टं च आत्मा चेत् नन्वसौ ध्रुवः क्ष्मादिस्वभाव ईशश्च ज्ञानं ज्ञेयादनादि च ॥ कर्मणः सुखदुःखे च वद किं तेन विर्मितम् हेतोरादिर्न चेदस्ति फलस्यादिः कुतो भवेत् ॥ कस्मात्सदा न कुरुते न हि सो ऽन्यमपेक्षते तेनाकृतो ऽन्यो नास्त्येव तेनासौ किमपेक्षताम् ॥ अपेक्षते चेत्सामग्रीं हेतुर्न पुनरीश्वरः नाकर्तुमीशः सामग्र्यां न कर्तुं तदभावतः ॥ करोत्यनिच्छन्नीशश्चेत् परायत्तः प्रसज्यते इच्छन्नपीच्छायत्तः स्यात् कुर्वतः कुत ईशता ॥ ये ऽपि नित्यानणूनाहुस् ते ऽपि पूर्वं निवारिताः सांख्याः प्रधानमिच्छन्ति नित्यं लोकस्य कारणम् ॥ सत्त्वं रजस्तमश्चेति गुणा अविषमस्थिताः प्रधानमिति कथ्यन्ते विषमैर्जगदुच्यते ॥ एकस्य त्रिस्वभावत्वम् अयुक्तं तेन नास्ति तत् एवं गुणा न विद्यन्ते प्रत्येकं ते ऽपि हि त्रिधा ॥ गुणाभावे च शब्दादेर् अस्तित्वमतिदूरतः अचेतने च वस्त्रादौ सुखादेरप्यसंभवः ॥ तद्धेतुरूपा भावाश्चेन् ननु भावा विचारिताः सुखाद्येव च ते हेतुः न च तस्मात्पटादयः ॥ पटादेस्तु सुखादि स्यात् तदभावात्सुखाद्यसत् सुखादीनां च नित्यत्वं कदाचिन्नोपलभ्यते ॥ सत्यामेव सुखव्यक्तौ संवित्तिः किं न गृह्यते तदेव सूक्ष्मतां याति स्थूलं सूक्ष्मं च तत्कथम् ॥ स्थौल्यं त्यक्त्वा भवेत्सूक्ष्मम् अनित्ये स्थौल्यसूक्ष्मते सर्वस्य वस्तुनस्तद्वत् किं नानित्यत्वमिष्यते ॥ न स्थौल्यं चेत्सुखादन्यत् सुखस्यानित्यता स्फुटम् नासदुत्पद्यते किंचिद् असत्त्वादिति चेन्मतम् ॥ व्यक्तस्यासत उत्पत्तिर् अकामस्यापि ते स्थिता अन्नादो ऽमेध्यभक्षः स्यात् फलं हेतौ यदि स्थितम् ॥ पटार्घेणैव कर्पासबीजं क्रीत्वा निवस्यताम् मोहाच्चेन्नेक्षते लोकः तत्त्वज्ञस्यापि सा स्थितिः ॥ लोकस्यापि च तज्ज्ञानम् अस्ति कस्मान्न पश्यति लोकाप्रमाणतायां चेत् व्यक्तदर्शनमप्यसत् ॥ प्रमाणमप्रमाणं चेन् ननु तत्प्रमितं मृषा तत्त्वतः शून्यता तस्माद् भावानां नोपपद्यते ॥ कल्पितं भावमस्पृष्ट्वा तदभावो न गृह्यते तस्माद्भावो मृषा यो हि तस्याभावः स्फुटं मृषा ॥ तस्मात्स्वप्ने सुते नष्टे स नास्तीति विकल्पना तद्भावकल्पनोत्पादं विबध्नाति मृषा च सा ॥ तस्मादेवं विचारेण नास्ति किंचिदहेतुतः न च व्यस्तसमस्तेषु प्रत्ययेषु व्यवस्थितम् ॥ अन्यतो नापि चायातं न तिष्ठति न गच्छति मायातः को विशेषो ऽस्य यन्मूढैः सत्यतः कृतम् ॥ मायया निर्मितं यच्च हेतुभिर्यच्च निर्मितम् आयाति तत्कुतः कुत्र याति चेति निरूप्यताम् ॥ यदन्यसंनिधानेन दृष्टं न तदभावतः प्रतिबिम्बसमे तस्मिन् कृत्रिमे सत्यता कथम् ॥ विद्यमानस्य भावस्य हेतुना किं प्रयोजनम् अथाप्यविद्यमानो ऽसौ हेतुना किं प्रयोजनम् ॥ नाभावस्य विकारो ऽस्ति हेतुकोटिशतैरपि तदवस्थः कथं भावः को वान्यो भावतां गतः ॥ नाभावकाले भावश्चेत् कदा भावो भविष्यति नाजातेन हि भावेन सो ऽभावो ऽपगमिष्यति ॥ न चानपगते ऽभावे भावावसरसंभवः भावश्चाभावतां नैति द्विस्वभावप्रसङ्गतः ॥ एवं च न विरोधो ऽस्ति न च भावो ऽस्ति सर्वदा अजातमनिरुद्धं च तस्मात्सर्वमिदं जगत् ॥ स्वप्नोपमास्तु गतयो विचारे कदलीसमाः निर्वृतानिर्वृतानां च विशेषो नास्ति वस्तुतः ॥ एवं शून्येषु धर्मेषु किं लब्धं किं हृतं भवेत् सत्कृतः परिभूतो वा केन कः संभविष्यति ॥ कुतः सुखं वा दुःखं वा किं प्रियं वा किमप्रियम् का तृष्णा कुत्र सा तृष्णा मृग्यमाणा स्वभावतः ॥ विचारे जीवलोकः कः को नामात्र मरिष्यति को भविष्यति को भूतः को बन्धुः कस्य कः सुहृत् ॥ सर्वमाकाशसंकाशं परिगृह्णन्तु मद्विधाः प्रकुप्यन्ति प्रहृष्यन्ति कलहोत्सवहेतुभिः ॥ शोकायासैर्विषादैश्च मिथश्छेदनभेदनैः यापयन्ति सुकृच्छ्रेण पापैरात्मसुखेच्छवः ॥ मृताः पतन्त्यपायेषु दीर्घतीव्रव्यथेषु च आगत्यागत्य सुगतिं भूत्वा भूत्वा सुखोचिताः ॥ भवे बहुप्रपातश्च तत्र चासत्त्वमीदृशम् तत्रान्योन्यविरोधश्च न भवेत्तत्त्वमीदृशम् ॥ तत्र चानुपमास्तीव्रा अनन्तदुःखसागराः तत्रैवमल्पबलता तत्राप्यल्पत्वमायुषः ॥ तत्रापि जीवितारोग्यव्यापारैः क्षुत्क्लमश्रमैः निद्रयोपद्रवैर्बालसंसर्गैर्निष्फलैस्तथा ॥ वृथैवायुर्वहत्याशु विवेकस्तु सुदुर्लभः तत्राप्यभ्यस्तविक्षेपनिवारणगतिः कुतः ॥ तत्रापि मारो यतते महापायप्रपातने तत्रासन्मार्गबाहुल्याद् विचिकित्सा च दुर्जया ॥ पुनश्च क्षणदौर्लम्यं बुद्धोत्पादो ऽतिदुर्लभः क्लेशौघो दुर्निवारश्चेत्य् अहो दुःखपरम्परा ॥ अहो बतातिशोच्यत्वम् एषां दुःखौघवर्तिनाम् ये नेक्षन्ते स्वदौःस्थित्यम् एवमप्यतिदुःस्थिताः ॥ स्नात्वा स्नात्वा यथा कश्चिद् विशेद्वह्निं मुहुर्मुहुः स्वसौस्थित्यं च मन्यन्त एवमप्यतिदुःस्थिताः ॥ अजरामरलीलानाम् एवं विहरतां सताम् आयास्यन्त्यापदो घोराः कृत्वा मरणमग्रतः ॥ एवं दुःखाग्नितप्तानां शान्तिं कुर्यामहं कदा पुण्यमेघसमुद्भूतैः सुखोपकरणैः स्वकैः ॥ कदोपलम्भदृष्टिभ्यो देशयिष्यामि शून्यताम् संवृत्यानुपलम्भेन पुण्यसंभारमादरात् ॥ बोधिचर्यावतारे प्रज्ञापारमिता नाम नवमः परिच्छेदः । × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha