७ बोधिचर्यावतारः Click on words to see what they mean. एवं क्षमो भजेद्वीर्यं वीर्ये बोधिर्यतः स्थिता न हि वीर्यं विना पुण्यं यथा वायुं विनागतिः ॥ किं वीर्यं कुशलोत्साहस् तद्विपक्षः क उच्यते आलस्यं कुत्सितासक्तिर् विषादात्मावमन्यना ॥ अव्यापारसुखास्वादनिद्रापाश्रयतृष्णया संसारदुःखानुद्वेगाद् आलस्यमुपजायते ॥ क्लेशवागुरिकाघ्रातः प्रविष्टो जन्मवागुराम् किमद्यापि न जानासि मृत्योर्वदनमागतः ॥ स्वयूथ्यान्मार्यमाणांस्त्वं क्रमेणैव न पश्यसि तथापि निद्रां यास्येव चण्डालमहिषो यथा ॥ यमेनोद्वीक्ष्यमाणस्य बद्धमार्गस्य सर्वतः कथं ते रोचते भोक्तुं कथं निद्रा कथं रतिः ॥ यावत्संभृतसंभारं मरणं शीघ्रमेष्यति संत्यज्यापि तदालस्यम् अकाले किं करिष्यसि ॥ इदं न प्राप्तमारब्धम् इदमर्धकृतं स्थितम् अकस्मान्मृत्युरायातो हा हतो ऽस्मीति चिन्तयन् ॥ शोकवेगसमुच्छूनसाश्रुरक्तेक्षणाननान् बन्धून् निराशान् संपश्यन् यमदूतमुखानि च ॥ स्वपापस्मृतिसंतप्तः शृण्वन्नादांश्च नारकान् त्रासोच्चारविलिप्ताङ्गो विह्वलः किं करिष्यसि ॥ जीवमत्स्य इवास्मीति युक्तं भयमिहैव ते किं पुनः कृतपापस्य तीव्रान्नरकदुःखतः ॥ स्पृष्ट उष्णोदकेनापि सुकुमार प्रतप्यसे कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते ॥ निरुद्यमफलाकाङ्क्षिन् सुकुमार बहुव्यथ मृत्युग्रस्तो ऽमराकार हा दुःखित विहन्यसे ॥ मानुष्यं नावमासाद्य तर दुःखमहानदीम् मूढ कालो न निद्राया इयं नौर्दुर्लभा पुनः ॥ मुक्त्वा धर्मरतिं श्रेष्ठाम् अनन्तरतिसंततिम् रतिरौद्धत्यहासादौ दुःखहेतौ कथं तव ॥ अविषादबलव्यूहतात्पर्यात्मविधेयता परात्मसमता चैव परात्मपरिवर्तनम् ॥ नैवावसादः कर्तव्यः कुतो मे बोधिरित्यतः यस्मात्तथागतः सत्यं सत्यवादीदमुक्तवान् ॥ ते ऽप्यासन् दंशमशका मक्षिकाः कृमयस्तथा यैरुत्साहवशात् प्राप्ता दुरापा बोधिरुत्तमा ॥ किमुताहं नरो जात्या शक्तो ज्ञातुं हिताहितम् सर्वज्ञनीत्यनुत्सर्गाद् बोधिं किं नाप्नुयामहम् ॥ अथापि हस्तपादादि दातव्यमिति मे भयम् गुरुलाघवमूढत्वं तन्मे स्यादविचारतः ॥ छेत्तव्यश्चास्मि भेत्तव्यो दाह्यः पाट्यो ऽप्यनेकशः कल्पकोटीरसंख्येया न च बोधिर्भविष्यति ॥ इदं तु मे परिमितं दुःखं संबोधिसाधनम् नष्टशल्यव्यथापोहे तदुत्पादनदुःखवत् ॥ सर्वे ऽपि वैद्याः कुर्वन्ति क्रियादुःखैररोगताम् तस्माद्बहूनि दुःखानि हन्तुं सोढव्यमल्पकम् ॥ क्रियामिमामप्युचितां वरवैद्यो न दत्तवान् मधुरेणोपचारेण चिकित्सति महातुरान् ॥ आदौ शाकादिदाने ऽपि नियोजयति नायकः तत्करोति क्रमात्पश्चाद् यत्स्वमांसान्यपि त्यजेत् ॥ यदा शाकेष्विव प्रज्ञा स्वमांसे ऽप्युपजायते मांसास्थि त्यजतस्तस्य तदा किं नाम दुष्करम् ॥ न दुःखी त्यक्तपापत्वात् पण्डितत्वान्न दुर्मनाः मिथ्याकल्पनया चित्ते पापात्काये यतो व्यथा ॥ पुण्येन कायः सुखितः पाण्डित्येन मनः सुखि तिष्ठन् परार्थं संसारे कृपालुः केन खिद्यते ॥ क्षपयन् पूर्वपापानि प्रतीच्छन् पुण्यसागरान् बोधिचित्तबलादेव श्रावकेभ्यो ऽपि शीघ्रगः ॥ एवं सुखात्सुखं गच्छन् को विषीदेत्सचेतनः बोधिचित्तरथं प्राप्य सर्वखेदश्रमापहम् ॥ छन्दस्थामरतिमुक्तिबलं सत्त्वार्थसिद्धये छन्दं दुःखभयात्कुर्याद् अनुशंसांश्च भावयन् ॥ एवं विपक्षमुन्मूल्य यतेतोत्साहवृद्धये छन्दमानरतित्यागतात्पर्यवशिताबलैः ॥ अप्रमेया मया दोषा हन्तव्याः स्वपरात्मनोः एकैकस्यापि दोषस्य यत्र कल्पार्णवैः क्षयः ॥ तत्र दोषक्षयारम्भे लेशो ऽपि मम नेक्ष्यते अप्रमेयव्यथाभाज्ये नोरः स्फुटति मे कथम् ॥ गुणा मयार्जनीयाश्च बहवः स्वपरात्मनोः तत्रैकैकगुणाभ्यासो भवेत्कल्पार्णवैर्न वा ॥ गुणलेशे ऽपि नाभ्यासो मम जातः कदाचन वृथा नीतं मया जन्म कथंचिल्लब्धमद्भुतम् ॥ न प्राप्तं भगवत्पूजामहोत्सवसुखं मया न कृता शासने कारा दरिद्राशा न पूरिता ॥ भीतेभ्यो नाभयं दत्तम् आर्ता न सुखिनः कृताः दुःखाय केवलं मातुर् गतो ऽस्मि गर्भशल्यताम् ॥ धर्मच्छन्दवियोगेन पौर्विकेण ममाधुना विपत्तिरीदृशी जाता को धर्मे छन्दमुत्सृजेत् ॥ कुशलानां च सर्वेषां छन्दं मूलं मुनिर्जगौ तस्यापि मूलं सततं विपाकफलभावना ॥ दुःखानि दौर्मनस्यानि भयानि विविधानि च अभिलाषविघाताश्च जायन्ते पापकारिणाम् ॥ मनोरथः शुभकृतां यत्र यत्रैव गच्छति तत्र तत्रैव तत्पुण्यैः फलार्घेणाभिपूज्यते ॥ पापकारिसुखेच्छा तु यत्र यत्रैव गच्छति तत्र तत्रैव तत्पापैर् दुःखशस्त्रैर्विहन्यते ॥ विपुलसुगन्धिशीतलसरोरुहगर्भगता मधुरजिनस्वराशनकृतोपचितद्युतयः मुनिकरबोधिताम्बुजविनिर्गतसद्वपुषः सुगतसुता भवन्ति सुगतस्य पुरः कुशलैः ॥ यमपुरुषापनीतसकलच्छविरार्तरवो हुतवहतापविद्रुतकताम्रनिषिक्ततनुः ज्वलदसिशक्तिघातशतशातितमांसदलः पतति सुतप्तलोहधरणीष्वशुभैर्बहुशः ॥ तस्मात्कार्यः शुभच्छन्दो भावयित्वैवमादरात् वज्रध्वजस्य विधिना मानं त्वारभ्य भावयेत् ॥ पूर्वं निरूप्य सामग्रीम् आरभेन्नारभेत वा अनारम्भो वरं नाम न त्वारभ्य निवर्तनम् ॥ जन्मान्तरे ऽपि सो ऽभ्यासः पापाद्दुःखं च वर्धते अन्यच्च कार्यकालं च हीनं तच्च न साधितम् ॥ त्रिषु मानो विधातव्यः कर्मोपक्लेशशक्तिषु मयैवैकेन कर्तव्यम् इत्येषा कर्ममानिता ॥ क्लेशस्वतन्त्रो लोको ऽयं न क्षमः स्वार्थसाधने तस्मान्मयैषां कर्तव्यं नाशक्तो ऽहं यथा जनः ॥ नीचं कर्म करोत्यन्यः कथं मय्यपि तिष्ठति मानाच्चेन्न करोम्येतन् मानो नश्यतु मे वरम् ॥ मृतं दुण्डुभमासाद्य काको ऽपि गरुडायते आपदाबाधते ऽल्पापि मनो मे यदि दुर्बलम् ॥ विषादकृतनिश्चेष्ट आपदः सुकरा ननु व्युत्थितश्चेष्टमानस्तु महतामपि दुर्जयः ॥ तस्माद्दृढेन चित्तेन करोम्यापदमापदः त्रैलोक्यविजिगीषुत्वं हास्यमापज्जितस्य मे ॥ मया हि सर्वं जेतव्यम् अहं जेयो न केनचित् मयैष मानो वोढव्यो जिनसिंहसुतो ह्यहम् ॥ ये सत्त्वा मानविजिता वराकास्ते न मानिनः मानी शत्रुवशं नैति मानशत्रुवशाश्च ते ॥ मानेन दुर्गतिं नीता मानुष्ये ऽपि हतोत्सवाः परपिण्डाशिनो दासा मूर्खा दुर्दर्शनाः कृशाः ॥ सर्वतः परिभूताश्च मानस्तब्धास्तपस्विनः ते ऽपि चेन्मानिनां मध्ये दीनास्तु वद कीदृशाः ॥ ते मानिनो विजयिनश्च त एव शूरा ये मानशत्रुविजयाय वहन्ति मानम् ये तं स्फुरन्तमपि मानरिपुं निहत्य कामं जने जयफलं प्रतिपादयन्ति ॥ संक्लेशपक्षमध्यस्थो भवेद्दृप्तः सहस्रशः दुर्योधनः क्लेशगणैः सिंहो मृगगणैरिव ॥ महत्स्वपि हि कृच्छ्रेषु न रसं चक्षुरीक्षते एवं कृच्छ्रमपि प्राप्य न क्लेशवशगो भवेत् ॥ यदेवापद्यते कर्म तत्कर्मव्यसनी भवेत् तत्कर्मशौण्डो ऽतृप्तात्मा क्रीडाफलसुखेप्सुवत् ॥ सुखार्थं क्रियते कर्म तथापि स्यान्न वा सुखम् कर्मैव तु सुखं यस्य निष्कर्मा स सुखी कथम् ॥ कामैर्न तृप्तिः संसारे क्षुरधारामधूपमैः पुण्यामृतैः कथं तृप्तिर् विपाकमधुरैः शिवैः ॥ तस्मात्कर्मावसाने ऽपि निमज्जेत्तत्र कर्मणि यथा मध्याह्नसंतप्त आदौ प्राप्तसराः करी ॥ बलनाशानुबन्धे तु पुनः कर्तुं परित्यजेत् सुसमाप्तं च तन्मुञ्चेद् उत्तरोत्तरतृष्णया ॥ क्लेशप्रहारान् संरक्षेत् क्लेशांश्च प्रहरेद्दृढम् खड्गयुद्धमिवापन्नः शिक्षितेनारिणा सह ॥ तत्र खड्गं यथा भ्रष्टं गृह्णीयात्सभयस्त्वरम् स्मृतिखड्गं तथा भ्रष्टं गृह्णीयान्नरकान् स्मरन् ॥ विषं रुधिरमासाद्य प्रसर्पति यथा तनौ तथैव च्छिद्रमासाद्य दोषश्चित्ते प्रसर्पति ॥ तैलपात्रधरो यद्वद् असिहस्तैरधिष्ठितः स्खलिते मरणत्रासात् तत्परः स्यात्तथा व्रती ॥ तस्मादुत्सङ्गगे सर्पे यथोत्तिष्ठति सत्वरम् निद्रालस्यागमे तद्वत् प्रतिकुर्वीत सत्वरम् ॥ एकैकस्मिंश्छले सुष्ठु परितप्य विचिन्तयेत् कथं करोमि येनेदं पुनर्मे न भवेदिति ॥ संसर्गं कर्म वा प्राप्तम् इच्छेदेतेन हेतुना कथं नामास्ववस्थासु स्मृत्यभ्यासो भवेदिति ॥ लघुं कुर्यात्तथात्मानम् अप्रमादकथां स्मरन् कर्मागमाद्यथा पूर्वं सज्जः सर्वत्र वर्तते ॥ यथैव तूलकं वायोर् गमनागमने वशम् तथोत्साहवशं यायाद् ऋद्धिश्चैवं समृध्यति ॥ बोधिचर्यावतारे वीर्यपारमिता नाम सप्तमः परिच्छेदः ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha