योगराजोपनिषत् This text does not support clickable word meanings. योगराजं प्रवक्ष्यामि योगिनां योगसिद्धये ।मन्त्रयोगो लयश्चैव राजयोगो हठस्तथा ॥ १ ॥ ▼ Edit Permalink Bookmark योगश्चतुर्विधः प्रोक्तो योगिभिस्तत्त्वदर्शिभिः ।आसनं प्राणसंरोधो ध्यानं चैव समाधिकः ॥ २ ॥ ▼ Edit Permalink Bookmark एतच्चतुष्टयं विद्धि सर्वयोगेषु सम्मतम् ।ब्रह्मविष्णुशिवादीनां मन्त्रं जाप्यं विशारदैः ॥ ३ ॥ ▼ Edit Permalink Bookmark साध्यते मन्त्रयोगस्तु वत्सराजादिभिर्यथा ।कृष्णद्वैपायनाद्यैस्तु साधितो लयसंज्ञितः ॥ ४ ॥ ▼ Edit Permalink Bookmark नवस्वेव हि चक्रेषु लयं कृत्वा महात्मभिः ।प्रथमं ब्रह्मचक्रं स्यात् त्रिरावृत्तं भगाकृति ॥ ५ ॥ ▼ Edit Permalink Bookmark अपाने मूलकन्दाख्यं कामरूपं च तज्जगुः ।तदेव वह्निकुण्डं स्यात् तत्त्वकुण्डलिनी तथा ॥ ६ ॥ ▼ Edit Permalink Bookmark तां जीवरूपिणीं ध्यायेज्ज्योतिष्ठं मुक्तिहेतवे ।स्वाधिष्ठानं द्वितीयं स्याच्चक्रं तन्मध्यगं विदुः ॥ ७ ॥ ▼ Edit Permalink Bookmark पश्चिमाभिमुखं लिङ्गं प्रवालाङ्कुरसन्निभम् ।तत्रोद्रीयाणिपीठेषु तं ध्यात्वाकर्षयेज्जगत् ॥ ८ ॥ ▼ Edit Permalink Bookmark तृतीयं नाभिचक्रं स्यात्तन्मध्ये तु जगत् स्थितम् ।पञ्चावर्तामध्यशक्तिं चिन्तयेद्विद्युदाकृति ॥ ९ ॥ ▼ Edit Permalink Bookmark तां ध्यात्वा सर्वसिद्धीनां भाजनं जायते बुधः ।चतुर्थं हृदये चक्रं विज्ञेयं तदधोमुखम् ॥ १० ॥ ▼ Edit Permalink Bookmark ज्योतीरूपं च तन्मध्ये हंसं ध्यायेत् प्रयत्नतः ।तं ध्यायतो जगत् सर्वं वश्यं स्यान्नात्र संशयः ॥ ११ ॥ ▼ Edit Permalink Bookmark पञ्चमं कण्ठचक्रं स्यात् तत्र वामे इडा भवेत् ।दक्षिणे पिङ्गला ज्ञेया सुषुम्ना मध्यतः स्थिता ॥ १२ ॥ ▼ Edit Permalink Bookmark तत्र ध्यात्वा शुचि ज्योतिः सिद्धीनां भाजनं भवेत् ।षष्ठं च तालुकाचक्रं घण्टिकास्थानमुच्यते ॥ १३ ॥ ▼ Edit Permalink Bookmark दशमद्वारमार्गं तद्राजदन्तं च तज्जगुः ।तत्र शून्ये लयं कृत्वा मुक्तो भवति निश्चितम् ॥ १४ ॥ ▼ Edit Permalink Bookmark भ्रूचक्रं सप्तमं विद्याद्बिन्दुस्थानं च तद्विदुः ।भ्रुवोर्मध्ये वर्तुलं च ध्यात्वा ज्योतिः प्रमुच्यते ॥ १५ ॥ ▼ Edit Permalink Bookmark अष्टमं ब्रह्मरन्धं स्यात् परं निर्वाणसूचकम् ।तं ध्यात्वा सूतिकाग्रामं धूमाकारं विमुच्यते ॥ १६ ॥ ▼ Edit Permalink Bookmark तच्च जालन्धरं ज्ञेयं मोक्षदं नीलचेतसम् ।नवमं व्योमचक्रं स्यादश्रैः षोडशभिर्युतम् ॥ १७ ॥ ▼ Edit Permalink Bookmark संविद्ब्रूयाच्च तन्मध्ये शक्तिरुद्धा स्थिता परा ।तत्र पूर्णा गिरौ पीठे शक्तिं ध्यात्वा विमुच्यते ॥ १८ ॥ ▼ Edit Permalink Bookmark एतेषां नवचक्राणामेकैकं ध्यायतो मुनेः ।सिद्धयो मुक्तिसहिताः करस्थाः स्युर्दिने दिने ॥ १९ ॥ ▼ Edit Permalink Bookmark एको दण्डद्वयं मध्ये पश्यति ज्ञानचक्षुषा ।कदम्बगोलकाकारं ब्रह्मलोकं व्रजन्ति ते ॥ २० ॥ ▼ Edit Permalink Bookmark ऊर्ध्वशक्तिनिपातेन अधःशक्तेर्निकुञ्चनात् ।मध्यशक्तिप्रबोधेन जायते परमं सुखंजायते परमं सुखम् । इति ॥ २१ ॥ ▼ Edit Permalink Bookmark इति योगराजोपनिषत् समाप्ता ▼ Edit Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha