ऊर्ध्वपुण्ड्रोपनिषत्

This text does not support clickable word meanings.

अथ श्रीवराहरूपिणं भगवन्तं प्रणम्य सनत्कुमारः पप्रच्छ । अधीहि भगवन् ऊर्ध्वपुण्ड्रविधिम् । किं द्रव्यं किं स्थानं का रेखा को मन्त्रः कः कर्ता किं फलमिति च । श्रीवराह उवाच । क्षीराब्धितः श्वेतद्वीपे क्षीरखण्डान् वैनतेय आनीय सटाभिः द्विदळनश्वेतमृत्तिकाखण्डमुक्तिसाधिका भवन्ति । विष्णुपत्नीं महीं देवीमिति श्वेतमृत्तिकां नमस्कृत्य, ओमिति हस्तेनोद्धृत्य ।
अश्वक्रान्ते रथकान्ते विष्णुकान्ते वसुन्धरा ।शिरसा धारिता देवि रक्षस्व मां पदे पदे ॥
इत्येताभिः प्रार्थयेत् । इमं मे गङ्गेति जलमादाय, गन्धद्वारेति निक्षिप्य विष्णोर्नुकमिति मर्दयेत् । तन्मध्ये नृसिंहबीजं विलिख्य, "अतो देवा अवन्तु नः" इति विष्णुगायत्र्या त्रिवारमभिमन्त्र्य" नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् । " इत्येकवारम् ॥
श्वेतमृद्देवि पापघ्ने विष्णुदेहसमुद्भवे ।चक्राङ्किते नमस्तेऽस्तु धारणान्मुक्तिदा भव ॥
श्रीचूर्णं श्रीकरं दिव्यं श्रियश्चाङ्गे समुद्भवम् ।पुण्ड्रं च यस्य मध्ये तु धार्यं मोक्षार्थिभिः स्मृतम् ॥ तिस्रो रेखाः प्रकुर्वीत व्रतमेतत्तु वैष्णवम् ॥
यस्त्वेवं विजानीयात् स नारायणसायुज्यमवाप्नोति । न च पुनः कुत्र कुत्र धार्यम् । मत्पादाकृतयश्च ऊर्ध्वपुण्ड्रा नासादयः स्मृताः रेखाद्वादशकस्थाने । प्रथमं तु ललाटके द्वितीयं तु नाभौ तृतीयं वक्षसि चतुर्थं कण्ठे पञ्चमं नाभिदक्षिणे षष्ठं दक्षिणबाहौ सप्तमं तदूर्ध्वस्कन्धे अष्टमं नाभ्युत्तरे नवमं वामबाहौ दुशमं तदूर्ध्वस्कन्धे एकादशं पृष्ठोर्ध्वतः द्वादशं कण्ठपृष्ठे मोक्षं देहि शिरसि । नारायणे मय्यचला भक्तिस्तु वर्धते । संज्ञेन फलं लब्ध्वा तद्विष्णोः परमं पदमवाप्नोति । केशवादिद्वादशनामभिः ब्रह्मचारी गृहस्थो यतिश्च सर्वेभ्यो दुःखेभ्यो मुक्तो भवति । सर्वेषु तीर्थेषु स्नातो भवति । सर्वैर्देवैः ज्ञातो भवति । अश्रोत्रियः श्रोत्रियो भवति । अनुपनीतोऽप्युपनीतो भवति । आचक्षुषः पङ्क्तिं पुनाति । न च पुनरावर्तते न च पुनरावर्तते । इत्याह भगवान् वराहरूपी । य एवं वेदेत्युपनिषत् ॥
इत्यूर्ध्वपुण्ड्रोपनिषत् समाप्ता