षष्ठः पटलः

अथ यन्त्रे बीजोद्धारं प्रवक्ष्यामि देवतासन्निधये वृत्तभानुमतीद्व्यर्णमुद्धरेत्कमलाष्टपर्णेषु दण्ड एषः पिङ्गाक्षप्रचण्डक्षेत्रपालगणपतिदुर्गालक्ष्म्यो ङेन्ता अष्टौ स्याद्वर्ण (?) बीजकाद्याः षट्कोणेषु तारया हंसस्सोहमितिचतुराशासु मायामङ्कुशं च माख (?) ष्वष्टसु तत्तदाद्यर्णमध्ये तृतीयनामादिकमिति देशिकोक्त्या सर्वे विज्ञाय साधकः सिद्ध्यति ॥
गुरुभक्ताय शान्ताय प्रदेयं नियतात्मने ।न च शुश्रूषवे वाच्यं हैतुकाय कदाचन ॥
देशिकोक्तविधानेन यन्त्रे देवं प्रपूजयेत् ।अर्घ्यदानं ततः कुर्याद्भानुरप्रियः सदा ॥
देशिकोक्तेन मन्त्रेण तृचेन च यथाविधि ।साधकः साधयेत् सर्वमिह लोके परत्र च ॥
किं पुत्र बहुनोक्तेन सत्यं सत्येन मे शपे ।प्रत्यक्षदैवतं सूर्यः परोक्षं सर्वदेवताः ॥
सूर्यस्योपासनं कार्यं गच्छेत् सूर्यसꣳ सदम् ।गच्छेत् सूर्यसꣳसदं गच्छेत् सूर्यसꣳसदमिति ॥
इत्याथर्वणशिरसि सूर्यतापिनीये षष्ठः पटल:
सूर्यतापिन्युपनिषत् समाप्ता

Settings