प्रथमः पटल:

ॐ अथ भगवन्तं कमलासनं चतुर्मुखं पितरं ब्रह्माणं सनत्कुमार उपससार । प्रणनामाहं भो इति । अधीहि भो इति पप्रच्छ । को मनुः । दिव्यं किं ध्येयम् । यज्जपात्सर्वैनोनिवृत्तिः । यद्व्यानात्सारूप्यसिद्धिः तद्ब्रवीतु भगवान् लोकानुग्रहायेति । तच्छ्रुत्वा पितामह आह --- शृणोतु भवानेकमनाः सर्वदा यमामनन्ति यन्नमस्यन्ति देवाः स ब्रह्मा स शिवः स हरिस्सेन्द्रः सोऽक्षरः परमः स्वराट् स सूर्यो भगवान् सहस्रांशुः तं सूर्यं भगवन्तं सर्वस्वरूपिणं निगमा बहुधा वर्णयन्ति । कश्यपः पश्यको भवति । यत्सर्वं परिपश्यतीति सौक्ष्म्यात् । कश्यपादुदिताः सूर्याः पापान्निर्घ्नन्ति सर्वदा । रोदस्योरन्तर्देशेषु । अपैतं मृत्युं जयति । य एवं वेद । योऽसौ तपन्नुदेति । असौ योऽस्तमेति । असौ योऽपक्षीयति । एष हि देवः प्रदिशोऽनुसर्वाः पूर्वो हि जातः स उ गर्भे अन्तः । स विजायमानः स जनिष्यमाणः प्रत्यङ्मुखास्तिष्ठति विश्वतोमुखः । असौ योऽवसर्पति नीलग्रीवो विलोहितः । उतैनं गोपा अदृशन्नदृशन्नुदहार्यः । उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः । ऋग्भिः पूर्वाह्णे दिवि देव ईयते । यजुर्वेदे तिष्ठति मध्येअह्नः । सामवेदेनास्तमये महीयते । वेदैरशून्यस्त्रिभिरेति सूर्यः । ऋग्भ्यो जातां सर्वशो मूर्तिमाहुः ॥
एष ब्रह्मा च विष्णुश्च रुद्र एष हि भास्करः ।त्रिमूर्त्यात्मा त्रिवेदात्मा सर्वदेवमयो रविः ॥ इति ।
योगेन ऊर्ध्वमन्थिनः सूर्यं भगवन्तमुपासते । धनधान्यबहुरत्नवन्तो निर्व्याधिवन्त आयुष्यवन्त आरोग्यवन्तो रयिवन्तो धनवन्तो बलवन्तो बहुपुत्रवन्त इति । यः श्रीकामः शान्तिकामः तुष्टिकामः पुष्टिकामो मेधाकामः प्रज्ञाकाम आयुष्काम आरोग्यकामोऽन्नाद्यकामो भास्करं भगवन्तमुपासीत । सयोनिः सरूपतां सलोकतां गत्वा स्तुत्वा महानन्दमुदकमुपस्पृश्यापोऽवगाह्य वाग्यतः नित्यकर्म कृत्वा शुचौ देशेऽप्यासीनो दर्भान् धारयमाणः प्राङ्मुख उपविश्य प्राणानायम्य देशकालौ सङ्कीर्त्य त्रिवेदमयं त्रिमूर्तिं त्रिगुणं चतुष्पदं पञ्चरूपं षडर्णवेद्यं सप्ताश्वमष्टशापेति (?) मुदयाद्रिसमारूढमुदयन्तं पद्मकरं पद्मासनं पद्मनयनं पद्मबान्धवं दिव्याम्बरधरं दिव्यगन्धानुलेपनं सर्वाभरणभूषितं सर्ववेदसं सर्वदेवाधिदैवतं सर्वदेवनमस्यन्तं काश्यपं भास्करं ध्यात्वा प्रस्कण्वः कण्वपुत्रो मुनिरस्य छन्दोऽनुष्टुब्भास्करो द्वादशात्मको दैवतमुदात्तस्वरो ज्ञानं नेत्रं सूर्यस्तत्त्वं प्रथमं बीजं द्वितीयं शक्तिस्तृतीयं कीलकमथापि श्रींबीजं शक्तिः सूर्य इति कीलकम् । अथ पादाद्यैरर्धर्चैः ऋग्भिस्तृचेन द्वादशभिर्नामभिः मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्कराख्यैः षड्बीजैः संपुटिताः । स्तस्य सिध्यन्ति । गच्छेदंते परं पदम् ॥
प्रोक्तमादित्यमाहात्म्यं यन्मां त्वमनुपृच्छसि ।प्रत्यक्षदैवतं भानुः परोक्षं सर्वदेवताः ॥
तद्ध्यानं पूजनं कार्यं श्रेयस्कामैर्जितेन्द्रियैः ।जितेन्द्रियाय शान्ताय मन्त्रं देयमिदं महत् ॥
न देयं चञ्चलाक्षाय नाभक्ताय कदाचन ।हसन्ति लोकायतिका हसन्ति कुटिला जनाः ॥
तस्माद्गोप्यं प्रयत्नेन न देयं यस्य कस्यचित् ।रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥
तथा प्रत्यर्थिकृत्याभिर्मन्त्रयन्त्रादिकिल्बिषैः ।किं पुत्र बहुनोक्तेन सत्यं सत्येन मे शपे ॥ इति ॥
इत्याथर्वणशिरसि सूर्यतापिनीये प्रथमः पटलः

Settings