श्रीविघ्नेश्वरगीतम्

Click Settings to choose another script or language.
विशदवाससं विस्तृतोरसं विमलतेजसं विद्धराक्षसम् ।विगततामसं विष्टरौकसं विभुमुपास्महे विघ्ननायकम् ॥ १ ॥
विधिहरिस्तुतं विष्टरस्थितं विपुललोचनं वीर्यशालिनम् ।विकटविक्रमं विद्ययावृतं विभुमुपास्महे विघ्ननायकम् ॥ २ ॥
विबुधसत्तमं विप्रपूजितं विधुकुलोज्ज्वलं विघ्ननाशनम् ।विधृतभूषणं वीतरागिणं विभुमुपास्महे विघ्ननायकम् ॥ ३ ॥
विभवसंयुतं विभ्रमान्वितं विषधरेट्तनूवेष्टितोदरम् ।विनुतपौरुषंविस्तरा[विस्तृता]लिकं विभुमुपास्महे विघ्ननायकम् ॥ ४ ॥
विमतमर्दनं विश्वनायकं वितरणोत्सुकं वारणाननम् ।विचलितश्रुतिं वीतकल्मषं विभुमुपास्महे विघ्ननायकम् ॥ ५ ॥
॥ इति श्रीविघ्नेश्वरगीतं सम्पूर्णम् ॥