श्रीत्यागेशस्तुतिः

Click Settings to choose another script or language.
यस्याज्ञया नवच्छिद्रे स्तब्धस्तिष्ठति मारुतः ।तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ १ ॥
शासनात् पावको यस्य सर्वेषामन्तरा स्थितः ।तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ २ ॥
वडवामुखवह्निश्च ज्वलत्यब्धौ यदाज्ञया ।तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ३ ॥
भूतान्यपि विरुद्धानि मिलितानि यदाज्ञया ।तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ४ ॥
फलमन्वेति कर्तारं कर्मणां यस्य शासनात् ।तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ५ ॥
विनाधारं जगद्येन साधारमिव निश्चलम् ।तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ६ ॥
औषधे वा मणौ मन्त्रे भाति शक्तिर्यदाज्ञया ।तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ७ ॥
नात्येति समयं ज्योतिः सिन्धुः कालश्च यद्भयात् ।तं नमामि महादेवं त्यागेशं भक्तवत्सलम् ॥ ८ ॥
ब्रह्माच्युताद्यविदितं च शिरः पदं तेनासा शिलाविहित...सुहृत् प्रियायाः ।तस्मै नमोऽस्तु भवते प्रणतार्तिहन्त्रेत्यागेश्वराय मयि देहि दयावलोकम् ॥ ९ ॥
॥ इति श्रीत्यागेशस्तुतिः सम्पूर्णा ॥