श्रीतुरीयाषोडशीश्रीराजराजेश्वरीकवचम्

Click Settings to choose another script or language.
कैलासशिखरे रम्ये देवदेवं जगद्गुरुम् ।शङ्करं परिपप्रच्छ कुमारः शिखिवाहनः ॥ १ ॥
श्रीस्कन्द उवाच—जनक श्रीगुरो देव पुत्रवात्सल्यवर्धन ।कवचं षोडशाक्षर्या वद मे परमेश्वर ॥ २ ॥
श्रीईश्वर उवाच—शृणु पुत्र महाभाग कवचं मन्त्रविग्रहम् ।गोप्याद्गोप्यतरं गोप्यं गुह्याद्गुह्यतरं महत् ॥ ३ ॥
तव स्नेहात् प्रवक्ष्यामि नाख्यातं यस्य कस्यचित् ।ब्रह्मेशविष्णुशक्रेभ्यो मया यत् कथितं पुरा ॥ ४ ॥
देवाग्रे नैव दैत्याग्रे न शौनकगुणाग्रके ।तव भक्त्या सु कवचं गोप्यं कर्तुं न शक्यते ॥ ५ ॥
एकादशमहाविद्या सवर्णा सद्गुणान्विता ।सर्वशक्तिप्रधाना हि कवचं मन्मुखोदितम् ॥ ६ ॥
गणेशश्च रविर्विष्णुः शिवशक्तिश्च भैरवः ।पञ्चतत्त्वादिसर्वेषां वामावर्तेन तुष्यताम् ॥ ७ ॥
ऊर्ध्वाम्नायं महामन्त्रं कवचं निर्मितं मया ।त्रैलोक्यविजयं दिव्यं तुरीयं कवचं शुभम् ॥ ८ ॥
श्रीस्कन्द उवाच—कवचं परमं देव्याः श्रोतुमिच्छाम्यहं प्रभो ।यत्सूचितं त्वया पूर्वं धर्मकामार्थमोक्षदम् ॥ ९ ॥
तद्विनाराधनं नास्ति जपं ध्यानादिकर्मणि ।तस्याश्च कवचं यस्मात् तस्मात्तद्वद मे प्रभो ॥ १० ॥
श्री ईश्वर उवाच---शृणु पुत्र महाप्राज्ञ रहस्यातिरहस्यकम् ।तुरीयं कवचं दिव्यं सर्वमन्त्रमयं शुभम् ॥ ११ ॥
न पुत्राय न शिष्याय न भक्ताय कदाचन ।सपुत्रशिष्यभक्ताय कवचं यत् प्रकाशयेत्?॥ १२ ॥
पूजान्ते तु जपात् पूर्वं कवचं समुदीरयेत् ।अस्य श्रीकवचस्यास्य ऋषिरानन्दभैरवः ॥ १३ ॥
श्रीविद्या देवता च्छन्दो गायत्री रुचिवृत्तिकम् ।रामा बीजं पराशक्तिर्वाग्भवं कीलकं स्मृतम् ॥ १४ ॥
मम सर्वार्थसिद्ध्यर्थे जपे तु विनियोगतः ।अङ्गुष्ठाग्रे वाग्भवं च हृल्लेखा तर्जनी न्यसेत् ॥ १५ ॥
लक्ष्मीबीजं मध्यमायामङ्गिराऽनामिका तथा ।परा बीजं कनिष्ठायां लक्ष्मीं करतले न्यसेत् ॥ १६ ॥
हृदये वाग्भवं न्यस्यात् परां शिरसि च न्यसेत् ।लक्ष्मीबीजं शिखायां च सर्वाङ्गे वाग्भवं न्यसेत् ॥ १७ ॥
हृल्लेखं नेत्रयोर्न्यस्यात् अस्त्रं तु कमलां न्यसेत् ।भूर्भुवःस्वेति मनुना दिग्बन्धनमथाचरेत् ॥ १८ ॥
ध्यानं तस्य प्रवक्ष्यामि धर्मकामार्थमोक्षदम् ।न्यासध्यानादिकं सर्वं कृत्वा तु कवचं पठेत् ॥ १९ ॥
क्षीरसागरमध्यस्थेरत्नद्वीपे मनोहरे ।रत्नसिंहासने दिव्ये तत्र देवीं विचिन्तयेत् ॥ २० ॥
कोटिसूर्यप्रतीकाशां चन्द्रकोटिनिभाननाम् ।दाडिमीपुष्पसंकाशां कुंकुमोदरसन्निभाम् ॥ २१ ॥
जपाकुसुमसंकाशां त्रिणेत्रां च चतुर्भुजाम् ।पाशाङ्कुशधरां रम्यामिक्षुचापरान्विताम् ॥ २२ ॥
कर्पूरशकलोन्मिश्रताम्बूलापूरिताननाम् ।सर्वशृङ्गारवेषाढ्यां सर्वावयवशोभिनीम् ॥ २३ ॥
सर्वायुधसमायुक्तां प्रसन्नवदनेक्षणाम् ।सपरीवारसावर्णां सर्वोपचारपूजिताम् ॥ २४ ॥
एवं ध्यायेत्ततो वीर कवचं सर्वकामदम् ।आवर्तयेत् स्वदेहे तु सर्वरक्षाकरं शुभम् ॥ २५ ॥
शिखायां मेहलौपातुसहौमे चक्ररन्ध्रके ।सर्वदा ह्रौ च मां पातु वामदक्षिणभागयोः॥ २६ ॥
ऐं ह्रीं श्रीं सर्वदा पातु षोडशी सुन्दरी परा ।श्रीं ह्रीं क्लीं सर्वदा पातु ऐं सौं ओं पातु मे सदा ॥ २७ ॥
ह्रीं श्रीं ऐं पातु सर्वत्र क्नौं रं लं ह्रीं सदा मम ।क्लीं हसकहल ह्रीं पातु सदा सौः क्लीं मम?॥ २८ ॥
सौ ऐं क्लीं ह्री श्रिया पातु सबीजा षोडशाक्षरी ।आपादमस्तकं पातु महात्रिपुरसुन्दरी ॥ २९ ॥
श्रीजयन्ती मस्तके मां पातु नित्यं विभूतये ।ह्रीं मङ्गला सदा नेत्रे पातु सर्वार्थसिद्धये ॥ ३० ॥
क्लीं कालिका कर्णयुग्मं पातु सर्वशुभावहा ।ऐं भारती घ्राणयुग्मं पातु सर्वजयाप्तये ॥ ३१ ॥
सौः कराली मुखं पातु सर्वलोकवशाप्तये ।ऐं शारदा सदा वाचं पातु साहित्यसिद्धये ॥ ३२ ॥
ओं कपालिनि मे कर्णौ पातु सद्गानसिद्धये ।ह्रीं दुर्गासहिता पातु स्कन्धदेशौ सदा मम ॥ ३३ ॥
श्रीं क्षमासहिता पातु हृदयं मम सर्वदा ।ककारसहिता धात्री पार्श्वयुग्मं सदावतु ॥ ३४ ॥
एकारसहिता स्वाहा पातु मे जठरं सदा ।ईकारसहिता नाभिं स्वधा मां सर्वदावतु ॥ ३५ ॥
लकारसहिता ब्राह्मी पृष्ठदेशं सदावतु ।ह्रींकारसहमाहेशी कटिं पातु सदा मम ॥ ३६ ॥
हकारसहिता गुह्यं कौमारी पातु सर्वदा ।सकारसहिता पातु वैष्णवी गुददेशकम् ॥ ३७ ॥
ककारयुक्ता वाराही ह्यरुयुग्मं सदावतु ।हकारसहिता जानुयुग्मं माहेन्द्रि मेऽवतु ॥ ३८ ॥
लकारयुक्ता चामुण्डा जङ्घायुग्मं सदावतु ।ह्रींकारसहिता गुल्फयुग्मं लक्ष्मीः सदावतु ॥ ३९ ॥
सकारयुक्ता मे पादयुग्मेऽव्यात् शिवदूतिका ।ककारसहिता प्राच्यां चण्डा रक्षतु सर्वदा ॥ ४० ॥
लकारसहिताग्नेय्यां प्रचण्डा सर्वदावतु ।ह्रींकारसहिता पातु दक्षिणे चण्डनायिका ॥ ४१ ॥
सौःकारसहिता चण्डवेगिनी नैर्ऋतेऽवतु ।ऐंकारसंयुता चण्डप्रकाशा पातु पश्चिमे ॥ ४२ ॥
क्लींकारसहिता पातु चण्डिका वायुगोचरे ।ह्रींकारसहिता पातु चामुण्डा चोत्तरे मम ॥ ४३ ॥
श्रीकारसहिता रौद्री पायादैशान्यके मम ।ऊर्ध्वं ब्रह्माणि मे रक्षेत् षोडशी सह सर्वदा ॥ ४४ ॥
अवस्थाद्वैष्णवी रक्षेत् पुनः षोडशिसंयुता ।सर्वाङ्गं सर्वदा पातु सहिता भुवनेश्वरी ॥ ४५ ॥
जले दावानलेऽरण्ये महोत्पाते च सागरे ।दिवारात्रौ च मे रक्षेत देवी तारत्रयी मम ॥ ४६ ॥
इदं तुरीयासहितं पोडशाक्षरिकात्मकम् ।अभेद्यं कवचं त्वेदं मन्त्रबीजसमन्वितम् ॥ ४७ ॥
योगिनीचक्रसहितं तव प्रीत्या प्रकाशितम् ।धारयस्व मया दत्तं गोपनीयं सुपुत्रक ॥ ४८ ॥
न पुत्राय न शिष्याय बन्धुभ्यो न प्रकाशयेत् ।इदं त्रिपुरसुन्दर्यास्तुरीयं कवचं शुभम् ॥ ४९ ॥
गोपनीयं प्रयत्नेन मन्त्रवर्णक्रमोदितम् ।प्रातरारभ्य सायान्तं कर्म वेदान्तमौक्तिकम् ॥ ५० ॥
तत् फलं समवाप्नोति तुरीयकवचव्रतम् ।दशधा मातृकान्यासं लघुषोढा ततः परम् ॥ ५१ ॥
शक्तिन्यासं महापोढां कृत्वा बाह्यान्तरं न्यसेत् ।श्रीविद्यायां महान्यासं क्रमात् सावर्णतां गतम् ॥ ५२ ॥
पूजान्ते यत् फलं प्राप्तं तत् फलं कवचव्रते ।सवत्सां दुग्धसहितां साधकः कामधेनुवत् ॥ ५३ ॥
त्रैलोक्यविजयायेदं कवचं परमाद्भुतम् ।यथा चिन्तामणौ पुत्र मनसा परिकल्पिते ॥ ५४ ॥
तत् सर्वं लभते शीघ्रं मम वाक्यान्न संशयः ।सायुरारोग्यमैश्वर्यं सदा सम्पत्प्रवर्धनम् ॥ ५५ ॥
कवचस्य प्रभावेण त्रैलोक्ये विजयी भवेत् ।अदीक्षिताय नो देयं श्रद्धाविरहितात्मने ॥ ५६ ॥
नाख्येयं यस्य कस्यापि कृतघ्नायाततायिने ।शान्ताय गुरुभेक्ताय देयं शुद्धाय साधवे ॥ ५७ ॥
अज्ञात्वा कवचं चेदं यो जपेत् परदेवताम् ।यद्यत् पुराद्यादिशतं यथेन्दुश्च तयो रविः(?)॥ ५८ ॥
स एव च गुरुः साक्षात् कवचं यस्तु पुत्रक ।त्रिसन्ध्यं च पठेन्नित्यमिदं कवचमुत्तमम् ॥ ५९ ॥
निशार्धे जपकाले वा प्रत्यहं यन्त्रमग्रतः ।सदा भवति तस्याग्रे पश्चाद्धावति धेनुवत् ॥ ६० ॥
जगद्वश्यं भवेच्छीघ्रं नात्र कार्या विचारणा ।वेदी पुत्रो भवेच्छान्ते त्वं सदा मम सुव्रत(?)॥ ६१ ॥
सप्तकोटिमहामन्त्राः सवर्णाः सगुणान्विताः ।सर्वे प्रसन्नतां यान्ति सत्यं सत्यं न संशयः ॥ ६२ ॥
इति ते कथितं दिव्यं सगुणे भजनक्रमम् ।निर्गुणं परमं वक्ष्ये तुरीयं कवचं शृणु ॥ ६३ ॥
येन विज्ञातमात्रेण पारम्पर्यं च लभ्यते ।यथा च विमलं तोयं तपन्तीं तारयत्यपि ॥ ६४ ॥
कवचस्यास्य माहात्म्यं वर्णितुं नैव शक्यते ।मूलादिब्रह्मरन्धान्तं श्रीचक्रं समुदीरयेत् ॥ ६५ ॥
परिचाराच्च नः सर्वं सर्वावरणसंयुतम् ।आदिमध्यान्तकं सर्वं पश्चमं पञ्चमं भवेत्(?)॥ ६६ ॥
देहमध्ये च सर्वस्वं श्रीचक्रं चिन्तयेत् सुत ।पञ्चविंशतितत्त्वं च सुतलं तलमेव च ॥ ६७ ॥
गभस्तिमानपातालं सप्तमं च रसातलम् ।भूर्भुवःस्वर्लोकमतो महल्लोकजनस्तथा ॥ ६८ ॥
तपश्च सत्यलोकच भुवनानि चतुर्दश ।सर्वं श्रीभुवनं चैव निराकारं विचिन्तयेत् ॥ ६९ ॥
मानसे पूजयेत् ध्यायेद्ज्योतीरूपं सुचिन्मयम् ।कवचं प्रजपेद्वत्स राजराजेश्वरो भवेत् ॥ ७० ॥
इति परमरहस्यं सर्वमन्त्रार्थसारंभजति परमभक्त्या निश्चलं निर्मलत्वम् ।विलसति भुवि मध्ये पुत्रपौत्राभिवृद्धिंधनसकलसमृद्धिं भोगमोक्षप्रदं च ॥ ७१ ॥
॥ इति श्रीचूडामणौ श्रीशिवस्कन्दसर्गपादे त्रैलोक्यविजयाभेद्यं नाम श्रीतुरीयाषोडशीश्रीराजराजेश्वरीमहात्रिपुरसुन्दरीकवचं सम्पूर्णम् ॥