श्रीताण्डवस्तोत्रम्

Click Settings to choose another script or language.
चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा ।गुरोस्तु मौनं व्याख्यानं शिष्यास्तु च्छिन्नसंशयाः ॥ १ ॥
पदप्रचुरकिङ्किणीकिणिकिणिध्वनिभ्राजितंहरिप्रमुखदेवतादृतलसन्मृदङ्गादिकम् ।धिधिंधिमितधैतधैतधरवानुसारिक्रमंसदा तिमिति मङ्गलं दिशतु शाम्भवं ताण्डवम् ॥ २ ॥
धिंधिमिधिमिधिमिशब्दैर्बन्धुरपदमन्दरं नटन्तम् ।झंझणझणझणरावारञ्जितमणिमण्डनं शिवं सेवे ॥ ३ ॥
तक्कतोधिक्कतोतातथातैतथैतोंगदद्मांगधिन्नत्तशब्दान्मुहुः ।उच्चरन् हासविन्यासचञ्चन्मुखःसंननर्त स्वयं श्रीभवानीपतिः ॥ ४ ॥
तापसांस्तापसानन्तरा देवतादेवता देवताश्चान्तरा तापसाः ।एवमादृत्य वागीश्वरादिस्थितौ[धिष्ठितः]संननर्त स्वयं श्रीभवानीपतिः ॥ ५ ॥
॥ इति श्रीताण्डवस्तोत्रं सम्पूर्णम् ॥