श्रीसुदर्शनस्तोत्रम्

Click Settings to choose another script or language.
श्रीमन्नारायणं देवं ब्रह्मरुद्रादिवन्दितम् ।सर्वलोकनियन्तारं नमामि पुरुषोत्तमम् ॥ १ ॥
श्रीमद्रामानुजाचार्यपौत्रस्तत्पादसंश्रितः ।श्रीरङ्गार्यगुरोः पुत्रः श्रीरामाह्वयदेशिकः ॥ २ ॥
श्रीवाधूलकुलोद्भूतस्तप्तचक्रविधायकम् ।स्तोत्रं सौदर्शनं चक्रे वेदवेदान्तगोचरम् ॥ ३ ॥
पवित्रं त इति प्रोक्तं वेदेषु त्रिषु च स्थितम् ।चरणं तैत्तिरीये तु... ... ... ... ... ...॥ ४ ॥
लोकस्य द्वारमित्येतद्वाक्यं तत्रैव चोदितम् ।चमूषु चेति यद्वाक्यं तत्रोक्तमृचि साम्नि च ॥ ५ ॥
मैत्रावरुणशाखायां पठ्यते सुमहात्मभिः ।चक्रं बिभर्तीत्यृग्वेदे खिले सम्यक् प्रकीर्तितम् ॥ ६ ॥
अथर्वणोपनिषदि ह्येभिर्वयमिति स्मृतम् ।ऋचि पौष्कलशाखायां प्रतिविष्णो इतीरितम् ॥ ७ ॥
धृतोर्ध्वपुण्ड्रमिति यदथ शाखोदितं हि तत् ।दक्षिणे त्विति यद्वाक्यं महोपनिषदि स्थितम् ॥ ८ ॥
वषट् इति च यद्वाक्यं कठवल्ल्यां तदीरितम् ।तापनीये तु तं प्राप्तमिति मन्त्रमुदाहृतम् ॥ ९ ॥
यज्ञोपवीतीत्यारभ्य ये वा शून्यं त इत्यपि ।सुदर्शनोपनिषदि वेदविद्भिस्तु पठ्यते ॥ १० ॥
तस्माद्ब्राह्मणवाक्यं तु श्वेताश्वतरचोदितम् ।तत्रोपवीतादि पञ्च कथ्यते सुमहात्मभिः ॥ ११ ॥
कात्यायनेति होवाचेत्येवं शतपथेरितम् ।तत्रैव कथितं चक्रं द्विभुजे धार्यमित्यपि ॥ १२ ॥
तत्रैव दशपर्यायैः कथितं चक्रधारणम् ।देवास इति वाक्यं च तत्रैव परिकथ्यते ॥ १३ ॥
विवस्वत इति ह्येतद्वाक्यं तत्रैव संस्थितम् ।चक्रमादायेति वाक्यं स्थितं यत्तदथर्वणे ॥ १४ ॥
तथैव पाञ्चजन्यं च पठ्यते वेदवित्तमैः ।अग्निनेति तथा वाक्यं तत्रैव परिपठ्यते ॥ १५ ॥
इत्येवं तप्तचक्रस्य धारणं श्रुतिचोदितम् ।तस्मात् सर्वप्रयत्नेन धार्यं मोक्षफलेप्सुभिः ॥ १६ ॥
ब्रह्मचारी गृही वानप्रस्थ इत्याश्रमैस्तथा ।ब्राह्मणैः क्षत्त्रियैर्वैश्यैः शूद्रैश्चापि तथा परैः ॥ १७ ॥
अनुलोमैर्विलोमैश्च भक्तिश्रद्धासमन्वितैः ।सुवासिनीभिर्नारीभिर्विधवाभिस्तथैव च ॥ १८ ॥
विष्णोः सुदर्शनं धार्यं वेदवेदान्तगोचरम् ।इति सौदर्शनं स्त्रोत्रमकरोद्रामदेशिकः ॥ १९ ॥
॥ इति श्रीसुदर्शनस्तोत्रं सम्पूर्णम् ॥