श्रीसुब्रह्मण्यस्तोत्रम्

Click Settings to choose another script or language.
षड्वक्तं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतंशक्तिं वज्रकृपाणशूलमभयं खेटं धनुश्चक्रकम् ।पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदाध्यायेदीप्सितसिद्धिदं शिवसुतं स्कन्दं सुरेन्द्रं सदा ॥ १ ॥
सिन्दूरारुणकान्तिमिन्दुवदनं केयूर[हारा]दिभि-र्दिव्यैराभरणैर्विभूषिततनुं स्वर्गस्थसौख्यप्रदम् ।अम्भोजाभयशक्तिकुक्कुटधरं रक्ताङ्गरागोज्ज्वलंसुब्रह्मण्यमुपास्महे प्रणमतामिष्टार्थसिद्धिप्रदम् ॥ २॥
षडाननं चन्दनलेपिताङ्गंमहाद्युतिं दिव्यमयूरवाह[न]म् ।महेशसूनुं सुरलोकनाथंब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ३ ॥
रुद्रप्रियं दिव्यमनोहराङ्गंकुष्ठादिरोगान् स्मरणाद्धरन्तम् ।उच्छिष्टलेपात्तनुशुद्धिदं त्वांब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ४ ॥
इष्टार्थदं भक्तजनस्य कामंमृष्टान्नदातारमुमेशसूनुम् ।अघौघ(नाशं च)[विध्वंसि]निजोत्तमाङ्गं[ङ्घ्रिं]ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ५ ॥
आर्यात्मजं देवगणाधिसेव्यंस्तोत्रेण देहेन कुलं करोति(?)त्वं देवदेवं त्वमुपाश्रयन्तं(?)ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ६ ॥
[त्वां देवदेवं समुपाश्रितानां स्तोत्रेण चैतेन कुलं करोषि । आर्यात्मजं देवगणाधिसेव्यं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ६ ॥]
द्विषड्भुजं षण्मुखमम्बिकासुतंकुमारमादित्यसमानतेजसम् ।वन्दे मयूरासनमग्निसन्निभंसेनापतिं स्कन्दमभीष्टसिद्धये ॥ ७ ॥
॥ इति श्री सुब्रह्मण्यस्तोत्रं सम्पूर्णम् ॥