श्रीशिवोत्कर्षसाक्षिपञ्चकम्

Click Settings to choose another script or language.
गायत्रीवल्लभत्वाद्दशरथतनयस्थापिताराधितत्वात्शौरेः कैलासयात्राव्रतमुदिततयाभीष्टसन्तानदानात् ।नेत्रेण स्वेन साकं दशशतकमलैर्विष्णुना पूजितत्वात्तस्मै चक्रप्रदानादपि च पशुपतिः सर्वदेवप्रकृष्टः ॥ १ ॥
कन्दर्पध्वंसकत्वाद्गरलकबलनात् कालगर्वापहृत्त्वात्दैतेयावासभूतत्रिपुरविदलनाद्दक्षयागे जयित्वात् ।पार्थस्य स्वास्त्रदानान्नरहरिविजयान्माधवे स्त्रीशरीरेशास्तुः सम्पादकत्वादपि च पशुपतिः सर्वदेवप्रकृष्टः ॥ २ ॥
वाराणस्यां च पाराशरिनियमिभुजस्तम्भनात् प्राक्पुराणांप्रध्वंसे केशवेनाश्रितवृषवपुषा धारितक्ष्मातलत्वात् ।अस्तोकैर्ब्रह्मशीर्षैरनिशगलगतालङ्कृताऽऽभूषितत्वात्दानात् प्रज्ञानमुक्त्योरपि च पशुपतिः सर्वदेवप्रकृष्टः ॥ ३ ॥
भूमौ लोकैरनेकैः सततविरचिताराधितत्वादमीषा-मष्टैश्वर्यप्रदानाद्दशविधवपुषा केशवेनार्चितत्वात् ।हंसक्रोडाङ्गधारिद्रुहिणमुरहरान्विष्टशीर्षाङ्घ्रिकत्वात्जन्मध्वंसाद्यभावादपि च पशुपतिः सर्वदेवप्रकृष्टः ॥ ४ ॥
वैशिष्ट्ये योनिपीठायितमुररिपुसंश्लिष्टभावेन शम्भोःस्वस्यैकार्धप्रतीकायितहरिवपुषालिङ्गितत्वेन यद्वा ।अप्राधान्याद्विशिष्टाद्वयसमधिगमे दानवानामरातेःशम्भोरुत्कृष्टभावादपि च पशुपतिः सर्वदेवप्रकृष्टः ॥ ५ ॥
॥ इति श्रीशिवोत्कर्षसाक्षिपञ्चकं सम्पूर्णम् ॥