श्रीसरस्वतीस्तोत्रमहामन्त्रः

Click Settings to choose another script or language.
अस्य श्रीसरस्वतीस्तोत्रमहामन्त्रस्य मार्कण्डेय ऋषिः । स्रग्धरानुष्टुप् छन्दांसि । श्रीसरस्वती देवता । अथ शुभतिथौ मम सकलविद्यात्मकप्रतिबन्धकजाड्यनिरासद्वारा श्रीसरस्वतीप्रीत्यर्थं एकविंशतित्रयोदशीषु मौनव्रतादिनियमपूर्वकं सरस्वतीस्तोत्रपाठमविच्छेदमेकविंशतिवारं करिष्ये । वाक्सिद्ध्यर्थजपे विनियोगः ॥
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनींवीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितांवन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ १ ॥
ह्रीं ह्रींह्रींहृद्यबीजे शशिरुचिकमलाकल्पविस्पष्टशोभेभव्ये भव्यानुकूले कुमतिवनदहे विश्ववन्द्याङ्घ्रिपद्मे ।पद्मे पद्मोपविष्टे प्रणतजनमनोमोदसंपादयित्रिप्रोत्फुल्लज्ञानकूटे हरिहरदयिते देवि संसारसारे ॥ २ ॥
ऐं ऐं ऐंजाप्यतुष्टे हिमरुचिमकुटे वल्लकीव्यग्रहस्तेमातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्ताम् ।विद्ये वेदान्तगीते श्रुतिपरिपठिते मुक्तिदे मुक्तिमार्गेमार्गातीतस्वरूपे मम भव वरदे शारदे शुभ्रवर्णे ॥ ३ ॥
धीं धीं धीं धारणाख्ये धृतिमतिनतिभिर्नामभिः कीर्तनीयेनित्ये नित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे ।पुण्ये पुण्यप्रवाहे हरिहरनमिते वर्णतत्त्वे सुवर्णेमातर्मन्त्रार्थतत्त्वे मतिमति मतिदे माधवप्रीतिदाने ॥ ४ ॥
क्लीं क्लीं क्लीं सुस्वरूपे दह दह दुरितं पुस्तकव्यग्रहस्तेसन्तुष्टाकारचित्ते स्मितमुखि सुभगे जृम्भिणीस्तम्भविद्ये ।मोहे मुग्धप्रबोधे ममकुरु विमतिध्वान्तविध्वंसमीड्येगीर्गीर्वाग्भारती त्वं कविवृषरसनासिद्धिदे सिद्धिसाध्ये ॥ ५ ॥
सौं सौं सौं शक्तिबीजे कमलभवमुखाम्भोजभूतस्वरूपेरूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे ।निस्थूले नैव सूक्ष्मेनविदितविभवेनाप्यविज्ञाततत्त्वेविश्वे विश्वान्तराले सुरगणनमिते निष्कले नित्यशुद्धे ॥ ६ ॥
स्तौमि त्वां त्वां च वन्दे मम खलु रसनां मा कदाचित् त्यजेस्त्वंमा मे बुद्धिर्विरुद्धा भवतु जनमनो पातु मां देवि पापम् ।मा मे दुःखं कदाचित् क्वचिदपि विषये पुस्तके नाकुलत्वंशास्त्रे वादे कवित्वे प्रसरतु मम धीर्मास्तु कुण्ठा कदापि ॥ ७ ॥
इत्येतैः श्लोकमुख्यैः प्रतिदिनमुपसि स्तौति यो भक्तिनम्रोवाण्या वाचस्पतेरप्यविदितविभवो वाक्पटुर्मृष्टपङ्कः ।स स्यादिष्टार्थलाभात् सुतमिव सततं पाति तं सा च देवीसौभाग्यं तस्य लोके प्रसरति कविता विघ्नमस्तं प्रयाति ॥ ८ ॥
निर्विघ्नं तस्य विद्या प्रभवति सततं चाश्रुतग्रन्थबोधःकीर्तिस्त्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात् ।दीर्घायुर्लोकपूज्यः सकलगुणनिधिः सन्ततं राजमान्योवाग्देव्याः सत्प्रसादात् त्रिजगति विजयी जायते सत्सभासु ॥ ९ ॥
ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिषः ।सारस्वतो जनः पाठात् स स्यादिष्टार्थलाभवान् ॥ १० ॥
पक्षद्वये च यो भक्त्या त्रयोदश्येकविंशतिम् ।अविच्छिन्नं पठेद्धीमान् ध्यात्वा देवीं सरस्वतीम् ॥ ११ ॥
सर्वपापविनिर्मुक्तः सुभगो लोकविश्रुतः ।वान्छितं फलमाप्नोति लोकेऽस्मिन्नात्र संशयः ॥ १२ ॥
॥ इति श्रीनारदनन्दिकेश्वरसंवादे ब्रह्मपुराणोक्तं ब्रह्मप्रोक्तं श्रीसरस्वतीस्तोत्रं सम्पूर्णम् ॥