श्रीसरस्वतीस्तोत्रम्

Click Settings to choose another script or language.
कुन्दालिद्युतिमन्दहाससुमुखीराकेन्दुबिम्बाननामल्लीतल्लजमालतीसुमनसां सौभाग्यपाटच्चरी ।फुल्लेन्दीवरबृन्दषट्पदतमःसन्दोहसन्देहकृ-द्वेणीका विधिसुन्दरी मम भवेदानन्दसन्दोहिनी ॥ १ ॥
यत्पादाम्बुजसेवयैव ससुरो लोकः समर्त्यासुरोवागौन्नत्यमगाहत श्रुतिवचोवीथीषु या गीयते ।या श्वेताम्बुजमध्यवासरसिका या नम्ररक्षामणिःधातुः कापि कुटुम्बिनी वितरतात् सा निर्वृतिं नोऽतुलाम् ॥ २ ॥
कस्तूरीघनसारगन्धलहरीसंवासितोरःस्थलासंवीता स्फुटकाशपुष्पसदृशक्षौमांशुकेनानिशम् ।पुस्तं हस्तचतुष्टये जपवटीं शस्तां शुकीं वल्लकींबिभ्राणा गृहिणी विधातुरवतान्नः सेवया तोषिता ॥ ३ ॥
शुभ्रं दभ्रवलग्नमभ्रतनु तेऽभ्रप्रमोदप्रदंविभ्रान्ते भ्रमन्धपस्य सततं तैस्तैर्निजैर्विभ्रमैः ।शब्दब्रह्ममये जगत्यनितर । पेक्षा धिकारक्रियकिञ्चित्कुञ्चितकेशमद्य जयति स्रष्टुर्भुविष्ठं महः ॥ ४ ॥
॥ इति श्रीसरस्वतीस्तोत्रं सम्पूर्णम् ॥