श्रीसरस्वतीप्रार्थनास्तोत्रम्

Click Settings to choose another script or language.
शुभानि विदधातु नः किमपि पाणिपद्मस्थली-विभासिशुकपोतकप्रियवचोभिरानन्दितम् ।सुधाकरकलासमुल्लसितशेखरं पद्मभू-वशीकरणचातुरीकलितलीलमाद्यं महः ॥ १ ॥
सदा हृदि विभासतां विलसदैन्दवश्रीसख-प्रभानिकरनिर्धुताखिलजगत्तमःसंहति ।सदातनवचस्तुतातुलितवैभवं दुर्दशा-निशातनदयारसाञ्चितविलोकनं दैवतम् ॥ २ ॥
कलक्कणितनूपुरं कलितदीनरक्षाकरंशशाङ्ककृतशेखरं शमितभक्तदैन्योत्करम् ।कदा दुरितदुर्लभं कमलभूमनोवल्लभंमहोऽहमवलोकये महितसाहितलब्धये ॥ ३ ॥
रसज्ञहृदयङ्गमस्फुरदसीमभावोदयांतदीयरसभावनासमुचितैर्गुणैर्बन्धुराम् ।निरर्गलविनिर्गलत्सुरधुनीतरङ्गक्रमांविधातृवरवर्णनी वितरताद्वचोवैखरीम् ॥ ४ ॥
विदूरय ममापदं वितर भद्रमव्याहतंविधेहि विमलं यशो विरचय प्रसादं मयि ।सुधारससहोदरैः शिशिरयान्तरं मामकंदयारसतरङ्गितैर्भुवनमातरालोकनैः ॥ ५ ॥
त्वामेव यामि शरणं जगदम्ब वाणिशीतांशुखण्डपरिशोभितमौलिभागे ।वाचालनूपुरसमञ्चितपादपद्मेवाचामधीश्वर विधेहि मयि प्रसादम् ॥ ६ ॥
भाष्यकारेण रचिता जीयद्वाग्देवतानुतिः ।श्रीकालहस्तीशगुरुवर्यपादाब्जसेविना॥ ७ ॥
॥ इति श्रीसरस्वती प्रार्थनास्तोत्रं सम्पूर्णम् ॥