श्रीसरस्वतीदशश्लोकीस्तोत्रम्

Click Settings to choose another script or language.
ऋषय ऊचुः---कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत ।महासरस्वती येन तुष्टा भवति तद्वद ॥ १ ॥
आश्वलायन उवाच---शृण्वन्तु ऋषयः सर्वे गुह्याद्गुह्यतमं महत् ।दशश्लोकीस्तुतिमिमां वदामि ध्यानपूर्वकम् ॥ २ ॥
अङ्कुशं चाक्षसूत्रं च पाशं पुस्तं च धारिणीम् ।मुक्ताहारैः समायुक्तां देवीं ध्यायेच्चतुर्भुजाम् ॥ ३ ॥
सितेन दर्पणाभेन वक्त्रेण परिभूषिताम् ।सुस्तनीं वेदिमध्यां तां चन्द्रार्धकृतशेखराम् ॥ ४ ॥
जटाकलापसंयुक्तां पूर्णचन्द्रनिभाननाम् ।त्रिलोचनीं महादेवी वर्णनूपुरधारिणीम् ॥ ५ ॥
कटकस्वर्णरत्नाढ्यमहावलयभूषिताम् ।कम्बुकण्ठीं सुताम्रोष्ठीं सर्वाभरणभूषिताम् ॥ ६ ॥
केयूरैर्मेखलाद्यैश्च द्योतयन्तीं जगत्त्रयम् ।शब्दब्रह्मारणिं ध्यायेद्ध्यानकामः समाहितः ॥ ७ ॥
वक्ष्ये सारस्वतं स्तोत्रं वाक्प्रवृत्तिकरं शुभम् ।लक्ष्मीविवर्धनं चैव विवादे विजयप्रदम् ॥ ८ ॥
परब्रह्मात्मिकां देवीं भुक्तिमुक्तिफलप्रदाम् ।प्रणम्य स्तौमि तामेव ज्ञानशक्तिं सरस्वतीम् ॥ ९ ॥
या वेदान्तोक्ततत्त्वैकस्वरूपा परमार्थतः ।नामरूपात्मिका व्यक्ता सा मां पातु सरस्वती ॥ १० ॥
या साङ्गोपाङ्गवेदेषु चतुर्वेकैव गीयते ।अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥ ११ ॥
या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते ।अनादिनिधनानन्ता सा मां पातु सरस्वती ॥ १२ ॥
अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी ।प्रत्यगात्मेव सन्ती या सा मां पातु सरस्वती ॥ १३ ॥
अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति ।रूद्रादित्यादिरूपस्था सा मां पातु सरस्वती ॥ १४ ।
या प्रत्यग्दृष्टिभिर्ज्ञानैर्व्यज्यमानानुभूयते ।व्यापिनी ज्ञप्तिरूपैका सा मां पातु सरस्वती ॥ १५ ॥
नामजात्यादिभिर्भेदैरष्टधा या विकल्पिता ।निर्विकल्पात्मिका चैव सा मां पातु सरस्वती ॥ १६ ॥
व्यक्ताव्यक्तगिरः सर्वे देवाद्या व्याहरन्ति याम् ।सर्वकामदुधा धेनुः सा मां पातु सरस्वती ॥ १७ ॥
यां विदित्वाखिलं बन्धं निर्मध्यामलवर्त्मना ।योगी याति परं स्थानं सा मां पातु सरस्वती ॥ १८ ॥
नामजात्यादिकं सर्वं यस्यामाविश्य तां पुनः ।ध्यायन्ती ब्रह्मरूपैका सा मां पातु सरस्वती?॥ १९॥
यः कवित्वं निरातङ्कं भुक्तिं मुक्तिं च वाञ्छति ।सोऽभ्यर्च्यैनां दशश्लोक्या भक्त्या स्तौतु सरस्वतीम् ॥ २० ॥
तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीम् ।भक्तिश्रद्धाभियुक्तस्य षण्मासात् प्रत्ययो भवेत् ॥ २१ ॥
ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा ।गद्यपद्यात्मिका विद्या प्रमेयैश्च विवर्तते ॥ २२ ॥
अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः ।श्रुतं च धारयेदाशु स्खलद्वाक् स्पष्टवाग्भवेत् ॥ २३ ॥
प्रख्यातः सर्वलोकेषु वाग्मी भवति पूजितः ।अजितः प्रतिपक्षाणां स्वयं जेताऽधिजायते ॥ २४ ॥
अयोध्यैर्वेदबाह्यैर्वा विवादे प्रस्तुते सति ।अहं वाचस्पतिर्विष्णुः शिवो वास्मीति भावयेत् ॥ २५ ॥
एवं भावयता तेन बृहस्पतिरपि स्वयम् ।न शक्नोति परं वक्तुं नरेष्वन्येषु का कथा ॥ २६ ॥
न काञ्चन स्त्रियं निन्देत् न देवान्नापि च द्विजान् ।अनार्यैर्नाभिभाषेत सर्वत्रैव क्षमी भवेत् ॥ २७ ॥
सर्वत्रैव प्रियं ब्रूयात्यथेच्छालब्धमात्मनः ।लोकैरेव तिरस्कृत्य द्विषन्तं प्रतिवादिनम् ॥ २८ ॥
प्रतिवादिगजानां तु सिंहो भवति तद्वचः ।यद्वागितिद्व्यृचेनैव देवीं योऽर्चति सुव्रतः ॥ २९ ॥
तस्य नासंस्कृता वाणी मुखादुच्चारिता क्वचित् ।प्रथमं भारती नाम द्वितीयं च सरस्वती ।तृतीयं शारदा देवी चतुर्थं कंसमर्दनी ॥ ३० ॥
पञ्चमं तु जगन्माता षष्ठं चैव तु पार्वती ।सप्तमं चैव कामक्षी ह्यष्टमं ब्रह्मचारिणी ॥ ३१ ॥
नवमं चैव वाराही दशमं ब्रह्मपुत्रिका ।एकादशं च वाग्देवी द्वादशं वरदाम्बिका ॥ ३२ ॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।तस्य सारस्वतं चैव षण्मासेनैव सिध्यति ॥ ३३ ॥
यस्याः स्मरणमात्रेण वाग्विभूतिर्विजृम्भते ।सा भारती प्रसन्नाक्षी रमतां मन्मुखाम्बुजे ॥ ३४ ॥
इत्याश्वलायनमुनिर्निजगाद देव्याःस्तोत्रं समस्तफलभोगनिधानभूतम् ।एतत् पठन् द्विजवरः शुचितामुपैतिसन्ध्यासु वाञ्छितमुपैति न संशयोऽत्र ॥ ३५ ॥
॥ इति श्रीसरस्वतीदशश्लोकीस्तोत्रं सम्पूर्णम् ॥