श्रीपञ्चलिङ्गस्तोत्रम्

Click Settings to choose another script or language.
ताम्रयुग्विलेपितं दिगम्बरोपशोभितंवनभ्रमाद्विहारितं विडम्बिताण्डवं नटम् ।धूम्रयुक्तलोचनं सधूम्रदिव्यभाषितंमहाप्रतिष्ठमुर्वितमेकाम्बरेश्वरं भजे(?)॥ १ ॥
ध्यायते सुनिर्गुणं सहायते सुरावलिंहयायते चतुःश्रुतिं हरायते महाखलम् ।लीयते चराचरं प्रभायतेच यामिनींप्रीयते विशाखमम्बुनायकेश्वरं भजे ॥ २ ॥
बाणभक्तवत्सलं कृपाणहस्तमण्डितंकरेण चैणधारिणं पुराणपौरुषाञ्चितम् ।स्थाणुरूपरञ्जनं प्रमाणमग्निसेवनंधुरीणलोकधारिणं च शोणनायकं भजे ॥ ३ ॥
निस्तुलप्रशस्तसुप्रशस्तनन्दिवाहनंकरस्थले धनञ्जयं भुजस्थले फणाधरम् ।अस्थिमाल्यशोभितं पदस्थलं सुवायुसे-वितस्थलप्रबोधकालहस्तिनायकं भजे ॥ ४ ॥
अम्बुजासनार्चित विडम्बमानसोज्ज्वलंकराम्बुजाम्बुधीश्वरं महाम्बुशक्तिधारिणम् ।कुम्भिनीमहारथंचजम्भभेदिवन्दितंत्रियम्बिकाधवंशिवंचिदम्बरेश्वरं भजे ॥ ५ ॥
वटविटपिसमीपे भूमिभागे निषण्णंसकलमुनिजनानां ज्ञानदातारमारात् ।त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवंजननमरणदुःखच्छेददक्षं नमामि ॥ ६ ॥
॥ इति श्रीपञ्चलिङ्गस्तोत्रं सम्पूर्णम् ॥