श्रीनमस्कारदशकस्तोत्रम्

Click Settings to choose another script or language.
नमः शिवाभ्यां जगदीश्वराभ्यांजगत्पतिभ्यां जयविग्रहाभ्याम् ।जम्भारिमुख्यैरभिवन्दिताभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ १ ॥
नमः शिवाभ्यां जटिलालकाभ्यांजरामृतित्राणविचक्षणाभ्याम् ।जनार्दनाब्जोद्भवपूजिताभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ २ ॥
नमः शिवाभ्यां कलिनाशकृद्भयांकारुण्यकल्याणवपुर्धराभ्याम् ।कैलासशैलाख्यनिकेतनाभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ ३ ॥
नमः शिवाभ्यां वृषवाहनाभ्यांविरिश्चिविश्वंभरपूजिताभ्याम् ।विभूतिपाधीरविलौचनाभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ ४ ॥
नमः शिवाभ्यामतिसुन्दराभ्याम्अत्यन्तमासक्तवपुर्धराभ्याम् ।अशेषलोकैकशिवङ्कराभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ ५ ॥
धनुर्धरा इति वा पाठः
नमः शिवाभ्यां रविलोचनाभ्यांरवीन्दुवैश्वानरलोचनाभ्याम् ।राकाशशिस्तोममुखाम्बुजाभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ ६ ॥
नमः शिवाभ्यां शशिशेखराभ्यांसमस्तसम्पत्परिपूरिताभ्याम् ।समस्तविद्याभिरुपासिताभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ ७ ॥
नमः शिवाभ्यां नयनोत्सुकाभ्यांनमस्कृताभीष्टवरप्रदाभ्याम् ।नारायणेनार्चितपादुकाभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ ८ ॥
नमः शिवाभ्यां नवयौवनाभ्यांपरस्पराश्लिष्टवपुर्धराभ्याम् ।नगेन्द्रकन्यावृषकेतनाभ्यांनमो नमः शङ्करपार्वतीभ्याम्॥ ९ ॥
नमः शिवाभ्यामशिवापहाभ्यांअशेषकल्याणविशेषिताभ्याम् ।असम्भवाभ्यां श्रुतिसम्भवाभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ १० ॥
नमस्कारात्मकं स्तोत्रं व्यासेन परिकीर्तितम् ।यः पठेच्छ्रावयेद्भक्त्या सर्वान् कामानवाप्नुयात् ॥ ११ ॥
॥ इति श्रीवेदव्यासकृतं नमस्कारदशकस्तोत्रं सम्पूर्णम् ॥