श्रीनमश्शिवाष्टकम्

Click Settings to choose another script or language.
संसारदावानलशामकायमृत्युंजयायामितविक्रमाय ।सुरासुरौघार्चितपादुकायशिवासमेताय नमः शिवाय ॥ १ ॥
कुन्देन्दुशङ्खस्फटिकोपमायमहेश्वरायाश्रितवत्सलाय ।श्रीनीलकण्ठाय यमान्तकायशिवासमेताय नमः शिवाय ॥ २ ॥
भुजङ्गचक्राधिपभूषणायनानामणिभ्राजितकुण्डलाय ।कर्पूरगौराय सुरेश्वरायशिवासमेताय नमः शिवाय ॥ ३ ॥
घोराधिकाघौघनिवारणायस्वर्गापवर्गादिफलप्रदाय ।निरामयायान्धकसूदनायशिवासमेताय नमः शिवाय ॥ ४ ॥
त्रिकाग्निकालाय मनोन्मनायत्रियम्बकाय त्रिपुरान्तकाय ।कालाग्निरुद्राय जगन्मयायशिवासमेताय नमः शिवाय ॥ ५ ॥
दयासमुद्राय निधीश्वरायधनेशमित्राय सुधामयाय ।कारुण्यरूपाय मनस्करायशिवासमेताय नमः शिवाय ॥ ६ ॥
ब्रह्मेन्द्रविष्ण्वादिसुरार्चितायदेवादिदेवाय दिगम्बराय ।अनन्तकल्याणगुणार्णवायशिवासमेताय नमः शिवाय ॥ ७ ॥
वेदान्तवेद्याय जगन्मयायकैलासवासाय शिवाधराय ।शिवस्वरूपाय सदाशिवायशिवासमेताय नमः शिवाय ॥ ८ ॥
इति स्तुत्वा महादेव सर्वव्यापिनमीश्वरम् ।पुनः पुनः प्रणम्याथ स्कन्दस्तस्थौ कृताञ्जलिः ॥ ९ ॥
॥ इति श्रीनमश्शिवाष्टकं सम्पूर्णम् ॥