श्रीमीनाक्षीस्तोत्रम्

Click Settings to choose another script or language.
गौरीं काञ्चनपद्मिनीतटगृहां श्रीसुन्दरेशप्रियांनीपारण्यसुवर्णकन्दुकपरिक्रीडाविलोलामिमाम् ।श्रीमत्पाण्ड्यकुलाचलाग्रविलसद्रत्नप्रदीपायितांमीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ १ ॥
गौरीं वेदकदम्बकाननशुकीं शास्त्राटवीकेकिनींवेदान्ताखिलधर्महेमनलिनीहंसीं शिवां शाम्भवीम् ।ओङ्काराम्बुजनीलमत्तमधुपां मन्त्रान्रशाखाम्बिकांमीनाक्षी मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ २ ॥
गौरीं नूपुरशोभिताङ्घ्रिकमलां तूणोलसज्जङ्घिकांरत्नादर्शसमानजानुयुगलां रम्भानिभोरुद्वयाम् ।काञ्चीबद्धमनोज्ञपीनजघनामावर्तनाभीह्रदांमीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ३ ॥
गौरीं व्योमसमानमध्यमयुतामुत्तुङ्गवक्षोरुहांवीणामञ्जुलशारिकान्वितकरां शङ्खाभकण्ठोज्ज्वलाम् ।राकाचन्द्रसमानचारुवदनां रोलम्वनीलालकांमीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ४ ॥
गौरीं मञ्जुलमीननेत्रयुगलां कोदण्डसुभ्रूलतांबिम्बोष्ठीं स्मितकुन्ददन्तरुचिरां चाम्पेयनासोज्ज्वलाम् ।अर्धेन्दुप्रतिबिम्बफालरुचिरामादर्शगण्डस्थलांमीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ५ ॥
गौरीं कुङ्कुमपङ्कलेपितलसद्वक्षोजकुम्भोज्ज्वलांकस्तूरीतिलकालकां मलयजां गन्धोल्लसत्कन्धराम् ।लाक्षाकर्दमशोभिपादयुगलां सिन्दूरसीमन्तिनींमीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ६ ॥
गौरीं चम्पकमल्लिकासुकुसुमैः पुन्नागसौगन्धिका-द्रोणेन्दीवरकुन्दजातिवकुलैराबद्धचूलीयुताम् ।मन्दारारुणपद्मकेतकदलश्रेणीलसद्वेणिकांमीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ७ ॥
॥ इति श्रीमीनाक्षीस्तोत्रं सम्पूर्णम् ॥