श्रीमीनाक्षीद्वादशस्तोत्रम्

Click Settings to choose another script or language.
या देवी जगतां कर्त्री शङ्करस्यापि शङ्करी ।नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ १ ॥
सकृदाराध्य यां सर्वमभीष्टं लभते नरः ।नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ २ ॥
यस्याः प्रसादलेशेन भोगमोक्षौ न दुर्लभौ ।नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ ३ ॥
यया शिवोऽपि युक्तः सन् पञ्चकृत्यं करोति हि ।नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ ४ ॥
यस्याः प्रीत्यर्थमनिशं लास्यं कुर्वन् शिवो बभौ ।नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ ५ ॥
लक्ष्मीसरस्वतीमुख्या यस्यास्तेजःकणोद्भवाः ।नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ ६ ॥
या देवी मुक्तिकामानां ब्रह्मविद्याप्रदायिनी ।नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ ७ ॥
यस्याः प्रणाममात्रेण वर्धन्ते सर्वसम्पदः ।नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ ८ ॥
या स्तुता सर्वपापघ्नी सर्वोपद्रवनाशिनी ।नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ ९ ॥
या ध्याता परमा शक्तिः सर्वसिद्धिकरी शिवा ।नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ १० ॥
या देव्यापि विरहितः शिवोऽपि हि निरर्थकः ।नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ ११ ॥
चराचरं जगत् सर्वं यस्याः पादसमुद्भवम् ।नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ १२ ॥
॥ इति श्रीमीनाक्षीद्वादशस्तोत्रं सम्पूर्णम् ॥