श्रीमार्कण्डेयेश्वरेशस्तवः

Click Settings to choose another script or language.
सर्वेषां दैवतानां सकलसुखफलप्राप्तये पूजकानांकार्याधीशो गणेशो नगवरतनयानन्दचेष्टाभिरामः ।यस्य श्रीशेश्वरस्य प्रथितगुणगणालङ्कृतस्यात्मजस्तंमार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ १ ॥
वैकुण्ठाधीशमायामयसुखगवधूरूपसंदर्शनाद्योमोहात्सम्भ्रान्तमान[म्यमाण]स्सहगमनकलाचातुरीयुक्तचित्तः ।तन्मायास्त्रीशरीरे वटुकमजनयद्भासते यः शिवस्तंमार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ २ ॥
यस्याङ्गे[ग्निः]फालभागे सुललितनयनं सव्यभागे भवानीहस्ते ब्रह्मोत्तमाङ्गं सगरलसुगले ब्रह्मशीर्षालिमाला ।अङ्गेऽनङ्गाङ्गभूतिः पदकमलयुगे विष्णुनेत्राम्बुजातंमार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ३ ॥
यस्य श्रीमौलिभूषा कुमुदहितकलाभासमानोत्तमाङ्गेविद्युत्पुञ्जाभकान्ते विलसितसुजटामण्डले व्योमगङ्गा ।कण्ठे वज्रासिनीलोपलनिभगरलं भासते यः शिवस्तंमार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ४ ॥
हस्ताब्जे भासमानैर्निशितमुखयुतैः शूलमुख्यायुधैः सं-दीप्ताङ्गः सर्वशत्रून् खररणसमये निर्जयन् यो बलाढ्यः ।मार्ताण्डाग्नीन्दुनेत्रत्रययुतसुमुखैः पञ्चभिः संयुतस्तंमार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ५ ॥
शान्तं चन्द्रायुताभं शशियुतमकुटं पद्मवक्त्रं त्रिनेत्रंभास्वत्केयूरहाराङ्गदकटकमुखाशेषभूषाभिरामम् ।गौरीगङ्गासमेतं प्रमथगणयुतं स्कन्दविघ्नेशसेव्यंमार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ६ ॥
मार्कण्डेयर्षिवर्यः शमनभटभयाद्यस्य पादारविन्द-द्वन्द्वं संश्रित्य भक्त्या शिव भव शरणं ते नमः पालयेति ।उक्त्वा मृत्युंवि[च ]जित्वा चिरमतुलसुखं प्राप्तवांस्तं यमारिंमार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ७ ॥
सर्वैर्देवासुरेन्द्रैः प्रमथितकलशाम्भोधिमध्ये फणीन्द्र-स्यास्यानीके सुरोषाद्विगलितगरलं रुद्रनेत्राग्नितुल्यम् ।लोकानीकावनार्थंकबलितसुमतिर्यो महेशः शिवस्तंमार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ८ ॥
ब्रह्माद्यैर्लोकपालैः प्रणमितचरणाः प्रार्थनाकृष्टचित्त-स्तान् कारुण्येन वीक्ष्य त्रिपुरदितिसुतानेकबाणेन दग्धुम् ।सर्वोपायैः समर्थः ससुररिपुपुरीदाहको यः शिवस्तंमार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ ९ ॥
नन्दीशानन्दनाट्यप्रियमखिलकलाकोविंदं सर्वविद्या-साम्राज्यानन्दपीठस्थितपरमशिवं सुन्दरं मन्दहासम् ।छन्दोगुह्यार्थतत्त्वात्मकमभयमजानन्दकन्दं मुकुन्दंमार्कण्डेयेश्वरेशं पशुपतिमनिशं पार्वतीशं भजेऽहम् ॥ १० ॥
मार्कण्डेयेश्वरस्य स्तवमिदमघतूलाद्रिवैश्वानराभंनित्यं यो भक्तियुक्तः पठति स पुरुषः पापसङ्घाद्विमुक्तः ।सद्भूमौ सर्वभोगैरनवरतसुखंप्राप्तवान्[प्राप्नुयात्]सर्वदेवैः ।सन्मान्यः श्लाघनीयः स भवति भगवान् श्रीगुरोः सत्प्रसादात् ॥ ११ ॥
॥ श्रीमार्कण्डेयेश्वरेशस्तवः सम्पूर्णः ॥