श्रीमङ्गलश्लोकरामायणम्

Click Settings to choose another script or language.
सर्वलोकशरण्याय साकेतपुरवासिने ।सत्सेविताय रामाय ससीतायास्तु मङ्गलम् ॥ १ ॥
कौसल्यायां दशरथाज्जाताय परमात्मने ।सदा भरतसौमित्रिशत्रुघ्नेशाय मङ्गलम् ॥ २ ॥
कौशिकक्रतुरक्षार्थं कृत्वा मारीचमर्दनम् ।अहल्यापापनाशाय रघुनाथाय मङ्गलम् ॥ ३ ॥
भक्त्वाशैवं पुरा चापं प्राप्य सीतामनुत्तमम् ।अयोध्यामागतायास्तु गुणपूर्णाय मङ्गलम् ॥ ४॥
पितुः सत्यप्रतिज्ञायै कैकेय्या वचनादपि ।चित्रकूटनिवासाय सीतारामाय मङ्गलम् ॥ ५ ॥
पादुके भरते याते दत्त्वा राज्यस्य पालने ।दण्डकारण्यवासाय धैर्ययुक्ताय मङ्गलम् ॥ ६ ॥
हत्वा विराधं बलिनं मुनीनां भावितात्मनाम् ।दत्ताभयाय रामाय पद्माक्षायास्तु मङ्गलम् ॥ ७ ॥
चतुर्दशसहस्राणां रक्षसां क्रूरकर्मणाम् ।खरदूषणमुख्यानां हारिणेऽस्तु सुमङ्गलम् ॥ ८ ॥
सीतादर्शनयुक्ताय गृध्रमोक्षप्रकाशिने ।कबन्धहारिणे तस्मै राघवायास्तु मङ्गलम् ॥ ९ ॥
शबर्या दत्तपूजाय सेविताय हनूमता ।सुग्रीवकृतसख्याय धैर्ययुक्ताय मङ्गलम् ॥ १० ॥
वालिनं बलिनं हत्वा सुग्रीवमभिषिच्य च ।वर्षरात्रनिवासाय रामचन्द्राय मङ्गलम् ॥ ११ ॥
कालातिक्रमणाच्चैव कुपिताय महात्मने ।आगते सति सुग्रीवे प्रसन्नायान्तु मङ्गलम् ॥ १२ ॥
ङ्गुलीयप्रदात्रे च हनूमति महात्मने ।सीतां दृष्ट्वागते तस्मिन् हर्षयुक्ताय मङ्गलम् ॥ १३ ॥
अशोकवनिकामध्ये श्रुत्वा सीतां हनूमता ।सुग्रीवकृतयानाय रघुनाथाय मङ्गलम् ॥ १४ ॥
अथागतं महात्मानमभिषिच्य विभीषणम् ।कृतसागरबन्धाय सानुजायास्तु मङ्गलम् ॥ १५ ॥
सेतुना सुखमासाद्य लङ्कां रावणपालिताम् ।सुवेलगिरिवासाय रणधीराय मङ्गलम् ॥ १६ ॥
सुग्रीवेण दशग्रीवे मुष्टियुद्धेन मूर्च्छिते ।इन्द्रजिन्नागबद्धाय विमुक्तायास्तु मङ्गलम् ॥ १७ ॥
धूम्राक्षे वायुपुत्रेण वज्रदंष्ट्रेऽगदेन च ।प्रहस्ते नीलनिहते हर्षयुक्ताय मङ्गलम् ॥ १८ ॥
नयत्यौषधिशैलेन्द्रं हनूमति महात्मने ।ब्रह्मास्त्रबन्धयुक्ताय विमुक्तायास्तु मङ्गलम् ॥ १९ ॥
रावणिं च हतं श्रुत्वा लक्ष्मणेन महाबलम् ।निहत्य मकराक्षं च प्रसन्नायास्तु मङ्गलम् ॥ २० ॥
जित्वा रावणकोटीरं कुम्भकर्णं निहत्य च ।अतिकार्यं हतं श्रुत्वा प्रीतियुक्ताय मङ्गलम् ॥ २१ ॥
ततो मूलबलं हत्वा रावणं च महाबलात् ।विजयं प्राप्य हृष्टाय रघुनाथाय मङ्गलम् ॥ २२ ॥
ततोऽग्निवचनात् सीतां प्राप्य हृष्टां यशस्विनीम् ।ब्रह्मस्तुत्या प्रहृष्टाय रामभद्राय मङ्गलम् ॥ २३ ॥
विभीषणं महात्मानं लङ्कायामभिषिच्य च ।वानरै राक्षसैः सार्धं पुष्पकस्थाय मङ्गलम् ॥ २४ ॥
मदनाकृतये तस्मै मधुरापुरवासिने ।मनुवंशप्रदीपाय मानवेन्द्राय मङ्गलम् ॥ २५ ॥
प्राप्यायोध्यां च भरतं गङ्गातोयैः सुगन्धिभिः ।अभिषिक्ताय रामाय ससीतायास्तु मङ्गलम् ॥ २६ ॥
मधुरापुरवासाय वसुदेवसुतप्रभुः(?)।श्रीराममङ्गलं नित्यं शृण्वतां सुकृतं भवेत् ॥ २७ ॥
एवं वाल्मीकिना प्रोक्तं रामायणकथामृतम् ।यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥ २८ ॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः ।अधनाः सधनाः सन्तु जीवन्तु शरदां शतम् ॥ २९ ॥
॥ इति श्रीमङ्गलश्लोकरामायणं संपूर्णम् ॥