श्रीमहादेवाष्टकम्

Click Settings to choose another script or language.
मोक्षलक्ष्मीगृहद्वारकवाटोद्घाटनध्वनिः ।महादेव महादेव महादेवेत्ययं ध्वनिः ॥ १ ॥
वैवस्वतमहाराजमौलिसङ्कुट्टनध्वनिः ।महादेव महादेव महादेवेत्ययं ध्वनिः ॥ २ ॥
कैलासनगरद्वारमहाघण्टारवध्वनिः ।महादेव महादेव महादेवेत्ययंध्वनिः ॥ ३॥
महापातकमत्तेभत्रासकण्ठीरवध्वनिः ।महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ४ ॥
महेश्वरमहोक्षस्य घण्टाघणघणध्वनिः ।महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ५ ॥
मुक्त्यङ्गनाकरस्पर्शविवाहपटहध्वनिः ।महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ६ ॥
मत्सेवनासमायातजयश्रीदुन्दुभिध्वनिः ।महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ७ ॥
पापाटवीप्रविष्टाग्निज्वालाचटचटध्वनिः ।महादेव महादेव महादेवेत्ययं ध्वनिः ॥ ८ ॥
महादेवस्य वाग्वल्ली चतुरक्षरपल्लवा ।भक्तिसिद्धा भवत्येषा चतुर्वर्गफलप्रदा ॥ ९ ॥
॥ इति श्रीमहादेवाष्टकं सम्पूर्णम् ॥