श्रीकृष्णस्तुतिः

Click Settings to choose another script or language.
सृजद्रक्षत्संहरद्यद्विश्वमात्मनि मायया ।तद्ब्रह्म दद्याद्ब्रह्मास्मीत्यनुभूतिमयीं धियम् ॥ १ ॥
श्रीमत्यां द्वार्वत्यामासीनं कल्पपादपाधस्तात् ।मणिमण्डपान्तरब्जे विद्याश्रयमाश्रये परं धाम ॥ २ ॥
ह्रीमत्या रतिमत्या रुक्मिण्या सत्यभामया चापि ।ऊरुस्थितयोपासे श्लिष्टमविद्याश्रयमहं धाम ॥ ३ ॥
क्लींकारात्मकमूर्तिः स्फूर्तिः सत्ता च सकलस्य ।मायिमहोऽञ्जननीलं सच्चित्सुखरूपमनिशमाशासे ॥ ४ ॥
कृतसक्तिभक्तिमति प्रसृमरमदने च गोपयुवतिजने ।मणिमकुटाङ्गदकटकप्रभृतिभिरिद्धो हरिर्मुदे नः स्तात् ॥ ५ ॥
ष्णाधातुवाच्यनिरतैर्जपद्भिरनिशं स्मरद्भिश्च ।मुनिभिरुपासितमीडे गोपालं नारदप्रमुखैः ॥ ६ ॥
यमवरुणसोमशक्रप्रभृतिभिरमरैरुपास्यमानाय ।कृष्णायास्तु नमः सत्सुखमयपरमार्थरूपाय ॥ ७ ॥
गोपवधूनां निकरैः प्रियमुखपद्मोत्कलोचनभ्रमरैः ।विश्लथनीवीकबरैः परिवृतमीडे परं महस्तदहम् ॥ ८ ॥
विन्यस्य वेणुमधरे नादब्रह्मामृतोदधौ भुवनम् ।मनं कुर्वाणा मे निर्वाणायास्तु भावना काचित् ॥ ९ ॥
दानवरक्षोयक्षप्रेतोरगसिद्धकिन्नरप्रमुखैः ।परिवृतमस्तु परं तद्वस्तु विभूत्यै यदोः कुलाभरणम् ॥ १० ॥
यमिनामन्तः स्वान्तं बद्धस्थितये नमोऽस्तु चिद्वपुषे ।गोविन्दायासुसमाकटाक्षवीक्षाद्विरुक्तनीलिम्ने ॥ ११ ॥
गोघटया परिवीते गोपालैरपि च धाम्नि निर्विकृतौ ।विहरतु मानसमनिशं यन्तरि कुन्तीसुतस्य मम ॥ १२ ॥
पीताम्बरोज्ज्वलश्रीश्रीवत्सोद्भासितोरस्का ।कौस्तुभकृतमणिभूषा रक्षतु मां भाग्यपरिणतिर्महताम् ॥ १३ ॥
जलजारियोगमुद्रावेणुगदाभासुराष्टभुजम् ।प्रणतिपरदुरितनिकरप्रमथनकृतदीक्षमच्युतं नौमि ॥ १४ ॥
नरसुरनारकतनुभृद्धृदयगुहागूढनिजमहिमा ।वनमालया निवीतः परमात्मा स्फुरतु मम हृदये ॥ १५ ॥
वल्लवसुचरितमव्यात् सव्याग्राश्लिष्टजानुदक्षपदम् ।क्रामदनारतविगलद्रत्नघटन्यस्तपादुकमस्मान् ॥ १६ ॥
लक्ष्मीवक्षोजमिलद्घुसृणारुणवर्णवक्षसं वन्दे ।अङ्कस्थितदयिताभ्यामभिषिक्तं रत्नधारया शौरिम् ॥ १७ ॥
भासुरभूसुरनिकरैर्विचीयमानोऽच्युतस्त्रयीशिरसि ।मम सुरतरुमञ्जर्या दिशतु मुदं मणिभिरभिषिक्तः ॥ १८ ॥
यश्च प्रकृतेस्तस्याः कार्याणां प्रेरकोऽहिराजेन ।सिक्ताय नमो रत्नैर्गोपीजनवल्लभायास्मै ॥ १९ ॥
स्वाश्रयमेतद्विश्वं स्वमपि च विश्वाश्रयं विदुर्हि बुधाः ।यन्नमनात् सकलैरप्यभिषिक्तो मणिभिरवतु मां स हरिः ॥ २० ॥
हारं यद्वाम बुधाः स्वात्मनि पश्यन्ति सोऽहमिति ।तदतिप्रसन्नवदनं स्वाहाजानिर्ममास्त्वविद्यायाः ॥ २१ ॥
मन्त्राक्षरारब्धमुखार्णपद्यां-तद्ध्यानवाच्यप्रकटोक्तिहृद्याम् ।मन्त्रार्णमालां दधतोऽनवद्यांयतो लभेरन् परमात्मविद्याम् ॥ २२ ॥
व्रजरमणीरमणीयकटाक्ष-भ्रमरघटारभटीपरिशोभि ।कपटशिशोरशिवप्रतिघातंमुखनवतामरसं मम कुर्यात् ॥ २३ ॥
॥ इति श्री कृष्णस्तुतिः समाप्ता ॥