श्रीहर्यष्टकम्

Click Settings to choose another script or language.
हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः ।अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः ॥ १ ॥
स गङ्गा स गया सेतुः स काशी स च पुष्करः ।जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥ २ ॥
वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च ।यत् कृतं तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ३ ॥
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ।तानि सर्वाण्यशेषाणि हरिरित्यक्षरद्वयम् ॥ ४ ॥
गवां कोटिसहस्राणि हेमकन्यासहस्रकम् ।दत्तं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ५ ॥
अश्वमेधैर्महायज्ञैर्नरमेधैस्तथैव च ।इष्टं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ६ ॥
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः ।अधीतास्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ७ ॥
प्राणप्रयाणपाथेयं संसारव्याधिनाशनम् ।दुःखात्यन्तपरित्राणं हरिरित्यक्षरद्वयम् ॥ ८ ॥
बद्धः परिकरस्तेन मोक्षाभिगमनं प्रति ।सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् ॥ ९ ॥
प्रह्लादेन कृतं स्तोत्रं दुःखसागरशोषणम् ।यः पठेत् स नरो याति तद्विष्णोः परमं पदम् ॥ १० ॥
हर्यष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।आयुष्यं बलमारोग्यं यशोवृद्धिंश्रियं वहेत्॥ ११ ॥
॥ इति प्रह्लादकृतं श्रीहर्यष्टकं सम्पूर्णम् ॥