श्रीगिरीशाष्टकम्

Click Settings to choose another script or language.
क्षीराम्भोराशितूणं धृतपरशुधनुःशूलदीव्यत्कृपाणंगौरीकान्ताभिरामं निटिलहुतवहज्वालनिर्दग्धकामम् ।तारक्ष्माभृद्विहारं सकलभुवनभृन्नागराट्कण्ठहारंवीरं रौद्राधिदैवं शरणशिवकरं श्रीगिरीशं भजेऽहम् ॥ १ ॥
सत्यानन्दस्वरूपं कनकमणिगणप्रस्फुरन्मेरुचापंकृत्याकृत्यादिदूरं चिदमृतसरसीवीचिकान्तर्विहारम् ।श्रुत्यन्तस्तूयमानं नतजनसदनासन्नचञ्चन्निधानंप्रत्यद्रि क्रीडमानं प्रणवमयरथं श्रीगिरीशं भजेऽहम् ॥ २ ॥
कैलासग्रावतुल्योज्ज्वलवृषभकुलाध्यक्षसन्नद्धकेतुंलोलद्दुग्धप्रवाहार्गलमकुटतटीवेष्टिताहीन्द्रसेतुम् ।पञ्चाशद्वर्णधातुं हरिकमलभवोत्पत्तिनिष्पत्तिहेतुंपञ्चास्यं श्रुत्युपास्यं निरवधियशसं श्रीगिरीशं भजेऽहम् ॥ ३ ॥
भीमं सोमं शिवं शङ्करमभवमजं विश्वलोकैकबीजंरुद्रं मुद्रीकृताघं पशुपतिगमनं वीरभद्रं विनिद्रम् ।शर्वं सर्वंसहामण्डलमहितरथं सत्पथं निर्विरोधंनादं वेदाविभेदं वरदमभयदं श्रीगिरीशं भजेऽहम् ॥ ४ ॥
ज्योतीरूपं दुरापं विलयजलधरोद्दण्डचण्डाट्टहासंविद्युद्वल्लीमतल्लीरुचिरपटुजटानद्धमुग्धेन्दुखण्डम् ।प्राग्द्वारे भृङ्गिलासं[लास्य]प्रतिदिशगणकोलाहलापूर्णकर्णंवर्णप्राकारमध्यस्थितमणिसदनं श्रीगिरीशं भजेऽहम् ॥ ५ ॥
चिद्विद्यामूलकन्दं रदनरुचिपरिष्कासितारण्यकुन्दंमृद्वीगोक्षीरपूरामृतरसमधुराम्नायगेयं यजेय ।विद्वत्पालीसदापूजितपदकमलं निर्मलं निर्विकल्पंव्यालाकल्पं चिरायुर्मुनिसुतविनुतं श्रीगिरीशं भजेऽहम् ॥ ६ ॥
षट्त्रिंशत्तत्त्वशृङ्गोत्तरपदविचरत्सूक्ष्मचित्स्थाणुरूपंसप्ताधोलोकबाह्यान्तरकुहरतमः खण्डनोद्दण्डहासम् ।सौम्यं गम्यादिगम्यं शरणजनमनोहारिशय्यान्तरस्थंसम्यक्सौभाग्यरेखाञ्चितपदयुगलं श्रीगिरीशं भजेऽहम् ॥ ७ ॥
न्यग्रोधक्ष्माजमूले स्फटिकमणिमयस्वच्छपीठाधिवासंसर्वज्ञं भक्तबन्धुं प्रविमलकरुणासारवद्दुग्धसिन्धुम् ।प्रत्यक्षादृष्टमूर्तिं दशदिगधिपतिं विश्वकृद्दिव्यमूर्तिंज्योतिर्लिङ्ग निरङ्गं निरवधिमपरं श्रीगिरीशं भजेऽहम् ॥ ८ ॥
गिर्यष्टकमिदं पुण्यं यः पठेत्सततं नरः ।शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ९ ॥
॥ इति श्रीगिरीशाष्टकं सम्पूर्णम् ॥