श्रीगणेशाष्टकम् (१)

Click Settings to choose another script or language.
गिरिस्वामिकन्यावराङ्गे वसन्तंसुरस्वामिनं केलिरूपं हसन्तम् ।लघुस्थूलविघ्नं विनिघ्नन्तमाद्यंसदानन्दरूपं गणेशं भजेऽहम् ॥ १ ॥
अजं तुन्दिलं व्योमधर्मोपमेयंभृशं दन्तपाणिं 1सुजातैकदन्तम् ।गले हास्तिकं नागयज्ञोपवीतंसदानन्दरूपं गणेशं भजेऽहम् ॥ २ ॥
विभुं निर्मलंशर्वपुत्रं सुरेशंशिवं शूलिवत्सं गणेशानमीशम् ।क्वणत्किङ्किणीनादपादौ वहन्तंसदानन्दरूपं गणेशं भजेऽहम् ॥ ३ ॥
दौर्वेष्ठितं विघ्नविध्वंसुवर्गैःसुरैर्मण्डितर्यज्ञयज्ञोत्तमाङ्गम्(?)।गुणातीतमव्यक्तमेकं तुरीयंसदानन्दरूपं गणेशं भजेऽहम् ॥ ४ ॥
नरं सिन्धुरं पञ्चवक्त्रं विचित्रंवयोयोगिनं भोगनाथंमहेशम्।करं कारिणं कामिनं नागरूपंसदानन्दरूपं गणेशं भजेऽहम् ॥ ५॥
मुदा हायनं लोककर्तारमाद्यंलसत्केतुना बद्धहस्तैकपोतम् ।सदोमालिनं देवलोकैकपूतंसदानन्दरूपं गणेशं भजेऽहम् ॥ ६ ॥
जगत्कारणं तर्कवेदान्तवेद्यंमुदा योगगम्यं विशुद्धाट्टहासम् ।शरण्यं वरेण्यं विशुद्धं तमाद्यंसदानन्दरूपं गणेशं भजेऽहम् ॥ ७ ॥
प्रियासिद्धिभाजे धिया वामभागेलसन्माद्विकावामदेवं त्रिणेत्रम् ।अमोघं सुरेशं महेशानमीशंसदानन्दरूपं गणेशं भजेऽहम् ॥ ८ ॥
॥ इति श्रीगणेशाष्टकं सम्पूर्णम् ॥