श्रीगणपतिमन्त्राक्षरावलिः

Click Settings to choose another script or language.
श्रीदेव्युवाच---विना तपो विना ध्यानं विना होमं विना जपम् ।अनायासेन विघ्नेशप्रीणनं वद मे प्रभो ॥ १ ॥
महेश्वर उवाच ---मन्त्राक्षरावलिस्तोत्रं महासौभाग्यवर्धनम् ।दुर्लभं दुष्टमनसां सुलभं शुद्धचेतसाम् ॥ २ ॥
महागणपतिप्रीतिप्रतिपादकमञ्जसा ।कथयामि घनश्रोणि कर्णाभ्यामवतंसय ॥ ३ ॥
ओंकारवलयाकारम् अच्छकल्लोलमालिकम् ।ऐक्षवं चेतसा वक्ष्ये सिन्धुं सन्धुक्षितस्वनम् ॥ ४ ॥
श्रीमन्तं मध्यजलधेरन्तरभ्युदितं नुमः ।मणिद्वीपं महाकायं महाकल्पंमहोदयम् ॥ ५ ॥
प्रीतिमादधता धाम्ना धाम्नामीशेकिशोरके ।कल्पोद्यानस्थितं वन्दे भारवन्तंमणिमण्डपम् ॥ ६ ॥
क्लीबस्यापि स्मरोन्मादकारिशृङ्गारशालिनि ।तन्मध्ये गणनाथस्य मणिसिंहासनं भजे ॥ ७ ॥
ग्लौकलाभिरिवाच्छाभिस्तीव्रादिनवशक्तिभिः ।जुष्टं लिपिमयं पद्मं धर्माद्याश्रयमाश्रये ॥ ८ ॥
गम्भीरमिव तत्राब्धिं वसन्तं त्र्यश्रमण्डले।उत्सङ्गगतलक्ष्मीकमुद्यत्तिग्मांशुपाटलम् ॥ ९ ॥
गदेक्षुकार्मुकरुजा चक्राम्बुजगुणोत्पलैः ।व्रीह्यग्रनिजदन्तायतुलसीमातुलुङ्गकैः ॥ १० ॥
णषष्ठवर्णवाच्यस्य दारिद्र्यस्य विभञ्जकैः ।एतैरेकादशकरानलङ्कुर्वाणमुन्मदम् ॥ ११ ॥
परानन्दमयं भक्तप्रत्यूहव्यूहनाशनम् ।परमार्थप्रबोधाब्धिं पश्यामि गणनायकम् ॥ १२ ॥
तत्पुरःप्रस्फुरद्बिल्वमूलपीठसमाश्रयौ ।रमारमेशौ विमृशाम्यशेषशुभदायकौ ॥ १३ ॥
येन दक्षिणभागस्थन्यग्रोधतलमाश्रितम् ।साकल्पं सायुधं वन्दे तं साम्बं परमेश्वरम् ॥ १४ ॥
वरसम्भोगरुचिरौपश्चिमे पिप्पलाश्रयौ ।रमणीयतरौ वन्दे रतिपुष्पशिलीमुखौ ॥ १५ ॥
रममाणौ गणेशानोत्तरदिक्फलिनीतले ।भूभूधरावुदाराभौ भजे भुवनपालकौ ॥ १६ ॥
वलमानवपुर्ज्योतिःकडारितककुप्तटीः ।हृदयादिरगं देविरङ्गरक्षाकृते भजे ॥ १७ ॥
रदकाण्डरुचिज्योत्स्नाकाशगण्डस्रवन्मदम् ।ऋद्ध्याश्लेषकृतामोदमामोदं देवमाश्रये ॥ १८ ॥
दलत्कपोलविगलन्मदधाराबलाहकम् ।समृद्धितटिदाश्लिष्टं प्रमोदं हृदि भावये ॥ १९ ॥
सकान्तिं कान्तिलतिकापरिरब्धतनुं भजे ।भुजप्रकाण्डसच्छायं सुमुखं कल्पपादपम् ॥ २० ॥
वन्दे तुन्दिलमिन्धानं चन्द्रकन्दलशीतलम् ।दुर्मुखं मदनावत्या निर्मितालिङ्गनामृतम् ॥ २१ ॥
जम्भवैरिकृताभ्यर्च्यौ जगदभ्युदयप्रदौ ।अहं मदद्रवौ विघ्नाहतयेतेजसां श्रये ॥ २२ ॥
नवशृङ्गाररुचिरौ नमत्सर्वसुरासुरौ ।द्राविणीविघ्नकर्तारौ द्रावयेतां दरिद्रताम् ॥ २३ ॥
मेदुरं मौक्तिकासारं वर्षन्तौभक्तिशालिनाम् ।वसुधाराशङ्खनिधी वाक्पुष्पाञ्जलिभिः स्तुमः ॥ २४ ॥
वर्षन्तौ रत्नवर्षेणवलद्बालातपत्विषौ ।वरदौ नमतां वन्दे वसुधापद्मशेवधी ॥ २५ ॥
शमिताधिमहाव्याधीः सान्द्रानन्दकरम्बिताः ।ब्राह्म्यादीः कलये शक्तीः शक्तीनामभिवृद्धये ॥ २६ ॥
मामवन्तु महेन्द्राद्या दिक्पाला दर्पशालिनः ।संनुमः श्रीगणाधीशंसवाहायुधशक्तयः ॥ २७ ॥
नवीनपल्लवच्छायादायादवपुरुज्ज्वलम् ।मेदस्वि मदनिष्यन्दस्रोतस्वि कटकोटरम् ॥ २८ ॥
यजमानतनुं यागरूपिणं यज्ञपूरुषम् ।यमं यमवतामर्च्यं यत्नभाजामदुर्लभम् ॥ २९ ॥
स्वारस्यपरमानन्दस्वरूपं स्वयमुद्गतम् ।स्वयं वेद्यं स्वयं शक्तंस्वयं कृत्यत्रयाकरम् ॥ ३० ॥
हारकेयूरमकुटकटकाङ्गदकुण्डलैः ।अलङ्कृतं च विघ्नानां हर्तारं देवमाश्रये ॥ ३१ ॥
इतिमन्त्रावलिस्तोत्रं कथितं तव सुन्दरि ।समस्तमीप्सितं तेन सम्पादय शिवेशिवम् ॥ ३२ ॥
॥ इति श्रीगणपतिमन्त्राक्षरावलिस्तोत्रं सम्पूर्णम् ॥