श्रीदशश्लोकी

Click Settings to choose another script or language.
यद्यत्प्रसादविमुखेन पुरा न लब्धंलब्धं यदद्य च गुरो भवतः प्रसादात् ।विज्ञापयामि तदिदं कुतुकातिरेक-संप्रेरितः परशिवाद्वयबोधनाख्यम् ॥ १ ॥
न त्वां स्मरामि न भजामि यजामि नान्त-र्नो वा बहिर्न च शिवं न च दैवमन्यत् ।नाहं भवामि न च नाहमहं भवामिकिं वा भवामि तदहं न हि वक्तुमीशे ॥ २ ॥
साक्षादहं स परमः शिव एव जातोजातोऽधुना स परमोऽपि शिवोऽहमेव ।आवां पुरा चिरमभूव तमः प्रकाश- . . .परस्परयु. . . .पयसे इवाद्य ॥ ३ ॥
मत्तस्तदेतदखिलं जगदाविरस्तिमत्तश्च जीवति लयं चतथैवमत्तः ।मत्तः स्थिरो भवति मुक्तिमुपैति मत्तोमत्तो न चैतदमुतोऽपि च नाहमन्यः ॥ ४ ॥
आधारये क्षितिरहं सततं पयोऽहंसंप्लावये परिपचामि च पावकोऽहम् ।आन्दोलयामि पवनोऽहमिहावकाशंमुञ्चामि चाम्बरमहं स्थितये ममैव ॥ ५ ॥
मायामरुद्भिरभितः क्षुभितो भवामिब्रह्माण्डखण्डनवबुद्बुदजाललोलः ।संहृत्य सर्वमथ शक्तितरङ्गडोला-केलिक्षयादहमसौ स्तिमितश्चिदब्धिः ॥ ६ ॥
लोकास्त्रिविष्टपमुखा निरयावसानाये सर्व एव तइमे मम केलिरेखाः ।नैवाहमेषु मम केतुवशं वदन्तिमद्धानि नार्कशशिनौ न च पावकोऽयम् ॥ ७ ॥
यस्यां वसामि च स किं ननु नैव काशीविश्वेश्वरः स च यमीशधिया स्पृशामि ।यद्व्याहरामि सकलं प्रणवस्तदेवमुक्ताश्च ते सहचरन्ति मया क्षणं ये ॥ ८ ॥
निर्बन्धनोऽपि निजरूपमवेक्ष्य बद्धोमुच्येत् किलैतदथ वीक्ष्य च नित्यमुक्तः ।धामत्रयातिचकितो गतिभोक्तृभोग्य-भोगान्वयोऽस्मि स परः शिव एव सोऽहम् ॥ ९ ॥
इत्थं भवाब्धिमतिलङ्घ्य भवत्प्रसादात्धन्यस्य मे यदुदभूच्छिवसामरस्यम् ।आपिण्डविच्युति गुरो सुखमेतदीयंदिव्यं त्वदङ्घ्रिसरसीरुहसात्करोति ॥ १० ॥
॥ इति श्रीविद्याधरचक्रवर्तिरचिता दशश्लोकी सम्पूर्णा ॥