श्रीबाणाष्टकम्

Click Settings to choose another script or language.
श्रीमत्कपर्दितटिनीतटशोभनायशीतांशुरेखपरिकल्पितशेखराय ।नित्याय निर्मलगुणाय निरञ्जनायनीहारहारधवलाय नमः शिवाय ॥ १ ॥
डिण्डीरपिण्डपरिपाण्डुरविग्रहायदीव्यज्जटापटलमण्डितमस्तकाय ।नागेन्द्रकृत्तिवासनाय निरामयायनारायणप्रियतमाय नमः शिवाय ॥ २ ॥
दर्वीकराकलितकुण्डलमध्यमानं[मण्ड्यमान]गण्डाय चण्डसुरशात्रवदण्डनाय ।आखण्डलादिसुरमण्डलमध्यमान[वन्द्यमान]पादाम्बुजाय वरदाय नमः शिवाय ॥ ३॥
कालान्तकाय कमलासनपूजितायकल्याणशैलपरिकल्पितकार्मुकाय ।कन्दर्पदर्पदहनाथ कलाधरायकारुण्यपुण्यनयनाय नमः शिवाय ॥ ४ ॥
विश्वेश्वराय बृषभोत्तमवाहनायविध्वस्तदक्षविहरा[विहिता]ध्वरविभ्रमाय ।गङ्गाधराय गजदानवमर्दनायदोर्दण्डदण्डविभवाय नमः शिवाय ॥ ५ ॥
सोमानलार्कपरिकल्पितलोचनायसोमार्कवह्निमुनिपुङ्गवसेविताय ।भूतेश्वराय भुवनत्रयनायकायभूत्यङ्गरागशुभदाय नमः शिवाय ॥ ६ ॥
नानाविधागमरहस्यविबोधकायस्वीयानुभावपरिकल्पितभावनाय ।भक्ताय भक्तिविवशान्मलनाशनायस्वर्गापवर्गसुखदाय नमः शिवाय ॥ ७ ॥
लोकत्रयाध्व[घ]हरणोत्सुकमानसायलोकत्रयार्चितपदाय जगन्मयाय ।श्रीभट्टबाणकविसूक्तिविराजितायकैवल्यदाननिपुणाय नमः शिवाय ॥ ८ ॥
॥ इति श्रीबाणाष्टकं सम्पूर्णम् ॥