श्रीअघोराष्टकम्

Click Settings to choose another script or language.
कालाभ्रोत्पलकालगात्रमनलज्वालोर्ध्वकेशोज्ज्वलंदंष्ट्राद्यस्फुटदोष्ठबिम्बमनलज्यालोग्रनेत्रत्रयम् ।रक्ताकोरकरक्तमाल्यरुचिरंरक्तानुलेपप्रियंवन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ १ ॥
जङ्घालम्बितकिङ्किणीमणिगणप्रालम्बिमालाञ्चितंदक्षान्त्रंडमरु पिशाचमनिशं शूलं च मूलं करैः ।घण्टाखेटकपालशूलकयुतं वामस्थिते विभ्रतम्वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ २ ॥
नागेन्द्रावृतमूर्धजश्रुतिगलश्रीहस्तपादाम्बुजंश्रीमद्दोःकटिकुक्षिपार्श्वमभितो नागोपवीतावृतम् ।लूतावृश्चिकराजराजितमहाहाराङ्कितोरस्स्थलंवन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ३ ॥
धृत्वा पाशुपतास्त्रनाम कृपयायत्कृन्ततिप्राणिनांपाशान्ये क्षुरिकाखपाशदलितग्रन्थिं शिवास्त्राह्वयम्(?)।विघ्नाकाङ्क्षिपदं प्रसादनिरतं सर्वापदां तारकंवन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ४ ॥
घोराघोरतराननं स्फुटदृशं संप्रस्फुरच्छूलकंप्राज्यंनृत्तसुरूपकं चटचटज्वालाग्नितेजःकचम् ।जानुभ्यांप्रचटत्कृतारिनिकरंस्रग्रुण्डमालान्वितंवन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ५ ॥
भक्तानिष्टकदुष्टसर्पदुरितप्रध्वंसनोद्योगयुक्हस्ताग्रं फणिबद्धहस्तचरणं प्रारब्धयात्रापरम् ।स्वावृत्त्यास्थितभीषणाङ्कनिकरप्रारब्धसौभाग्यकं ?वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ६ ॥
यन्मन्त्राक्षरलाञ्छितापघनवन्मर्त्याच्चवज्रार्चिषोभूतप्रेतपिशाचराक्षसकलानिर्घातपातादिव।उत्सन्नाश्च भवन्ति सर्वदुरितप्रोच्चाटनोत्पादकंवन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ७ ॥
यद्ध्यानोद्यतपूरुषोषितगृहग्रामस्थिरास्थायिनोभूतप्रेतपिशाचराक्षसप्रतिहतानिर्घातपाता इव ।यद्रूपं विधिना स्मरन् हि विजयी शत्रुक्षयं प्राप्नुतेवन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ८ ॥
॥ इति श्रीअघोराष्टकं सम्पूर्णम् ॥