श्रीअगस्त्येशलिङ्गाष्टकम्

Click Settings to choose another script or language.
श्रीमत्पर्वतपुत्रिकाश्रितलसद्वामाङ्गमिन्दूज्ज्वल-त्कोटीरं कनकाद्रिकार्मुकधरं कल्पद्रुमालावली-सक्तोरःस्थलमन्तकान्तकमनन्ताहीन्द्रसद्भूषणंश्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ १॥
भक्ताभीष्टफलप्रदं भवहरं पापौघविच्छेदनंशक्राद्यष्टदिगीशसंनुतपदं शुम्भद्गणाधीश्वरम् ।गङ्गोत्तुङ्गतरङ्गिणीयुतजटाजूटं मुनीन्द्रार्चितंश्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ २ ॥
मार्कण्डेयमुनीन्द्ररक्षणमजं मृत्युञ्जयं शाश्वतंमत्तामर्त्यविरोधिगर्वनगगीदम्भोलिधारायितम् ।वित्ताधीशसखं वियत्तललसत्केशं त्रिलोकेश्वरंश्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ३ ॥
भूम्यपोऽग्निसमीरणाम्बरलसत्सोमार्कयज्वाभिधै-रष्ठैरिष्टवरप्रदानचतुरैः स्पष्टैः स्वरूपैः सदा ।भास्वन्तं जगतीतले गजहरं कर्पूरगौरं शिवंश्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ४ ॥
सूर्याग्नीन्दुविलोचनं सुरवरं फालाग्निभस्मीकृत-प्रद्युम्नं परमेश्वरं गुरुवरं कालाग्निरुद्रं हरम् ।कण्ठाकल्पविलासभासुरमहाहालाहलं शङ्करंश्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ५ ॥
श्रीमद्भूमिरथं विरिञ्चिविलसत्सूतं नगाधीशस-च्चापं विष्णुशरं रथाङ्गयुगलीभूतार्कचन्द्रं शिवम् ।पूर्वामर्त्यपुरत्रयान्तकरणोद्युक्तं शिवालिङ्गितंश्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिंङ्गं भजे ॥ ६ ॥
दक्षाक्षुद्रमखागतामरगणान् तत्रत्यऋत्विग्वरान्चन्द्रं तच्छ्वशुरं भगं मुनिगणानग्निं च दक्षं लसत् ।स्वेदोद्भूतविनीलदेहरुचिना वीरेण संत्रासकंश्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ७ ॥
श्रीलक्ष्मीशविरिञ्चिपूजितपदं शुंभत्त्रिशूलायुधंश्रीमद्भृङ्गिकुमारनन्दिगणपश्रीवीरभद्रादिभिः ।सर्वैर्भक्तियुतैर्महागणवरैः संसेव्यमानं सदाश्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ८ ॥
श्रीकोप्पराजकुलवार्धिनिशाकरेणस्तोत्रं कृतं जगति सुब्बयनामभाजा-गस्त्येश्वरस्य निजभक्तजनावनस्ययो वै पठेल्लभति सोऽपि सदा विमुक्तिम् ॥ ९ ॥
॥ इति श्रीअगस्त्येशलिङ्गाष्टकं सम्पूर्णम् ॥