श्री अष्टाक्षरीध्यानम्

Click Settings to choose another script or language.
वेदान्तस्वद्रुमायस्तलपरिलसिताष्टाक्षराष्टच्छदाब्जेतिष्ठन् वामाङ्घ्रिणासावितरपदतलं वामतोऽग्रे निधाय ।बिभ्रत् सर्वा विभूतीर्मणिगणविलसद्भूषणश्यामलश्रीःशब्दब्रह्मात्मवेणुं भुवनधृतिहरं नादयन् माधवोऽव्यात् ॥ १ ॥
॥ इति श्री अष्टाक्षरीध्यानम् ॥